इत्यहं वासुदेवस्य पार्थस्य च महात्मनः । संवादमिममश्रौषमद्भुतं रोमहर्षणम् ।। ७४ ।।

सञ्जय उवाच–

इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।

संवादमिममश्रौषमद्भुतं रोमहर्षणम् ।। ७४ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- अथेदानीं कथासम्बन्धप्रदर्शनार्थमुच्यते– सञ्जय उवाचेति ।। इति पूर्वोक्तप्रकारेण महात्मनो महान् उत्तमश्चासौ आत्मा, तस्य वासुदेवस्य महान् आत्मा सुशिक्षितं मनो यस्य तस्य महात्मनः पार्थस्य च इमं यथोक्तं संवादमश्रौषं श्रुतवानस्मि । कीदृशम् अद्भुतम् अत्यन्तविस्मयकरम् अन्तर्बहिः रोमहर्षणं रोमाञ्चकरम् ।। ७४ ।।