ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः । प्रोच्यते गुणसङ्ख्याने यथावच्छ्रुणु तान्यपि ।। १९ ।।

 ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।

 प्रोच्यते गुणसङ्ख्याने यथावच्छ्रुणु तान्यपि ।। १९ ।।

भाष्यम्

पुनः साधनप्रथनाय गुणभेदानाह– ज्ञानमित्यादिना ।। गुणसङ्ख्याने गुणगणनप्रकरणे ।। १९ ।।

भावप्रदीपिका

उत्तरप्रघट्टकमवतारयति– पुनरिति । गुणसङ्ख्यानपदेन न साङ्ख्यशास्त्रमित्यत आह– सर्वं चेति ।। १९ ।।

प्रमेयदीपिका

ज्ञानं कर्म इत्यादेः प्रकृतोपयोगाप्रतीतेस्तं दर्शयन्नाह– पुनरिति ।। साधनप्रथनाय मोक्षसाधनप्रपञ्चनाय । गुणभेदानिति । गुणनिमित्तान् ज्ञानादिभेदान् । सात्विकं ज्ञानादिकं मोक्षसाधनम् । मोक्षसाधनप्रपञ्चनात् प्रागपि गुणभेदानामुक्तत्वात् पुनः इत्युक्तम् । गुणसङ्ख्यानशब्देन कापिलं शास्त्रमुच्यते इति भावेनाऽह– गुणेति ।। तच्च वैदिकमभिप्रेतम् ।। १९ ।।

भावदीपः

तावता कथं मोक्षसाधनप्रपञ्चनम्? इत्यत आह– सात्विकं हीति ।। प्रागपीति ।। पूर्वाध्यायादौ ।। १९ ।।

भावरत्नकोशः

।। प्रकृतेति ।। ज्ञानसाधनस्य सङ्खेपेणोपसंहारो ह्येतदध्यायार्थतया प्रकृतः, तत्रोपायोगाप्रतीतेः इत्यर्थः । ‘साधनप्रथनाय’ इत्यस्यार्थः– मोक्षसाधनप्रपञ्चनायेति ।। मोक्षसाधनज्ञानादिप्रपञ्चनायेत्यर्थः । सत्त्वादिगुणभेदानाम् अत्रा-वचनादाह– गुणनिमित्तानिति ।। ज्ञानादिभेदान् ज्ञानकर्मकर्तॄणां भेदान् । गुणनिमित्तज्ञानादि-भेदकथनेन कथं मोक्षसाधनप्रपञ्चनम् इत्यत आह– सात्त्विकं हीति ।। प्रागपीति ।। ‘गुणभेदान् प्रपञ्चयत्यनेनाध्यायेन इति सप्तदशे गुणनिमित्तकपुमर्थसाधनानामुक्तत्वादित्यर्थः । दुष्टकापिलशास्त्रस्य निन्दितत्वादाह– तच्चेति ।। गुणगणनप्रकरणं चेह वैदिककापिलतन्त्रं विवक्षितम् । अत एव गुणसङ्ख्याने परमसाङ्ख्यशास्त्रे’ इति तात्पर्यनिर्णय इति भावः ।।

गीताक्षरार्थस्तु – सात्त्विकज्ञानादिरूपमोक्षसाधनम् अनुष्ठानाय प्रपञ्चयितुं पुनः प्रतिज्ञापूर्वं सत्त्वादिगुणनिमित्ता ज्ञानभेदा उच्यन्ते– ज्ञानमित्यादिना ।। गुणभेदतः सत्त्वादिगुणभेदेन ज्ञानं कर्म च कर्ता च त्रिधा गुणसङ्ख्याने गुणाः सङ्ख्यायन्ते गण्यन्तेऽस्मिन्निति गुणसङ्ख्यानं गुणगणनप्रकरणं– परमसाङ्ख्यशास्त्रम् अस्मिन् प्रोच्यते । तान्यपि तानि च यथावत् तत्त्वं शृणु श्रुत्वा तत्र निष्ठां कुरु ।। १९ ।।

भावदीपिका

नन्वत्राध्याये साधनं संक्षिप्योच्यते, अतो ज्ञानादिभेदकथन-मसङ्गतम् अत आह– सात्त्विकं हीति ।।