यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत् तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ।। २७ ।।
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत् तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ।। २७ ।।
भाष्यम्
अतो यत् करोषि ।। २७ ।।
भावप्रदीपिका
यत् करोषि इति श्लोकं व्याचष्टे– अत इति ।।
प्रमेयदीपिका
साधनानादरस्य पूर्वमेवोक्तत्वाद्व्यर्थमुत्तरमित्यत आह– अत इति ।। सामान्यमुक्त्वा विशेषे निगमनमेतदिति भावः ।। २७ ।।
भावबोधः
।। सामान्यमुक्त्वेति ।। क्रियामात्रकरणे भक्तिः कर्तव्येति सामान्यमुक्त्वा कारणादिक्रियाविशेषं निगमयतीत्यर्थः ।।
भावदीपः
।। असाधनेति ।। भक्तेरेव स्वप्रयोजकतया द्रव्यादिरूपाराधन-साधनानारदस्य पत्रम्इति श्लोक एवोक्तत्वादित्यर्थः ।। सामान्यमिति ।। ‘भक्त्युपहृतम्’ इति ‘उपहृतम्’ इति उपहरणसामान्यमुक्त्वा करणादानादिविशेषे उपसंहारादित्यर्थः ।। २७ ।।
भावरत्नकोशः
।। साधनेति ।। भक्तेरेव प्रयोजकत्वाभिप्रायेण भगवद्भजन-साधनानादरस्य ‘पत्रं पुष्पम्’ इति श्लोक एवोक्तत्वाद् अत्रापि ‘यत् करोषि’ इत्यादिना कर्माद्यनादरस्य प्रतीयमानत्वादित्यर्थः । उत्तरम् ‘यत्करोषि’ इत्युपरितनं वचनम् । सामान्य-मिति ।। ‘यो मे भक्त्या’ इति पुरुषसामान्यमुक्त्वा ‘कौन्तेय’ इति पुरुषविशेषे उपसंहारोऽत्र क्रियत इत्यतो न वैयर्थ्यमिति भावः ।। २७,२८ ।।
गीताक्षराप्थस्तु यतः ‘भक्तैः समर्पितं यत्किमपि पत्रादिकं मम तोषहेतुः, अतस्त्वमपि मय्येव सर्वं समर्पय’ इति सामान्यमुक्त्वा विशेषे निगमनं क्रियते– यत्करोषीति ।। जुहोषि हवनं निर्वर्तयसि तपस्यसि तपश्चरसि तत् सर्वं मदर्पणं मय्यर्पितं यथा स्यात् तथा कुरुष्व
।। २७ ।।
भावदीपिका
।। साधनानादरस्येति ।। पत्रादिरूपसाधनानादरस्य, भक्तावेवादरस्य च ‘पत्रम्’ इत्यनेन श्लोकेनोक्तत्वादित्यर्थः । सामान्यमिति ।। ‘पत्रम्’ इत्यादिना ‘सर्वकर्मकरणदशायां भक्तिरपेक्षिता’ इति सामान्येनोक्तस्य ‘यत्करोषि’ इत्यादिना यज्ञाशनादिक्रियाविशेषे भक्तिरपेक्षितेति निगमनं क्रियत इत्यर्थः । अत इति ।। भाष्यस्य ‘यतोऽहं भक्त्यैव तृप्य इति भक्तेरेवावश्यकत्वम्, अतो भक्तिपूर्वं यत्करोषि’ इत्यादि योज्यम्
।। २७,२८ ।।
भावप्रकाशः
।। सामान्यमुक्त्वेति ।। यो मे भक्त्या प्रयच्छतीति पुरुषसामान्यविषयं पूर्वमुक्त्वा पुरुषविशेषेऽर्जुने उपंसहारोऽयं क्रियत इत्यर्थः ।। २७ ।।