प्रकृतेर्गुणसम्मूढास्सज्जन्ते गुणकर्मसु । तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् ।। २९ ।।
प्रकृतेर्गुणसम्मूढास्सज्जन्ते गुणकर्मसु ।
तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् ।। २९ ।।
भाष्यम्
प्रकृतेः गुणेष्विन्द्रियादिषु सम्मूढाः । इन्द्रियाद्यभिमानाद्धि विषयादिषु सङ्गः । गुणकर्मसु विषयेषु कर्मसु च ।
भावप्रदीपिका
तृतीयं व्याचष्टे– प्रकृतेरिति ।।
भावप्रकाशिका
तृतीयं व्याचष्टे– प्रकृतेर्गुणेष्विति ।।
प्रमेयदीपिका
‘प्रकृतेर्गुणसम्मूढाः’ इत्यत्र गुणशब्दस्य विवक्षितमर्थं वदन् विग्रहं दर्शयति– प्रकृते-रिति ।। नित्यसापेक्षत्वाद् गुणशब्दस्य न असामर्थ्यमिति प्रदर्शनाय ‘प्रकृतेः’ इत्यनु वादः, देवदत्तस्य गुरुकुलमिति यथा । प्रकृतेर्गुणसम्मूढत्वात्् सज्जन्ते गुणकर्मसु इति हेतुहेतुमद्भावोऽत्र विवक्षितः । अन्यथा वैयर्थ्यापत्तेः । तमुप-पादयति– इन्द्रियादीति ।।
अभिमानः ममैवैतानि स्वातन्त्र्येण करणानीति भ्रमः । ‘विषयादि’ इत्युक्त्या गुण-शब्दोऽत्र विषयार्थ इति दर्शयति । आदिशब्देन कर्मग्रहणम् । विषयेषु सङ्गः स्नेहादिः । कर्मसु स्वातन्त्र्यभ्रमः । ‘गुणानां कर्मसु’ इति केनचिद्व्याख्यातम् । तदसदिति भावेन द्वन्द्वोऽयमिति दर्शयति– गुणेति ।। द्वन्द्वपरिग्रहेऽधिकार्थलाभात् । अनेन ‘विषयादि’ इत्येतदपि समर्थितं भवति ।।
भावदीपः
।। अनेनेति ।। ‘गुणकर्मसु’ इत्यत्र द्वन्द्वव्याख्यानेन आदिपदं कर्मार्थकमिति व्याख्यात-मित्यर्थः ।।
वाक्यार्थप्रदीपः (पां.टि.)– ।। नित्यसापेक्षत्वाद्गुणशब्दस्येति ।। गुणशब्दस्य प्रकृते-रित्येतत्सापेक्षत्वात् सापेक्षस्य च सापेक्षमसमर्थं भवतीति न्यायेन वृत्तौ उपसर्जनपदस्य प्रधाना-र्थाभिधायिना भाव्यत्वेन अप्रधानत्वस्य स्वविशेषणापेक्षया च प्रधानत्वस्य आवश्यकत्वात् एकस्यैव एकदा प्रधानत्वएकार्थाभावयोरसम्भवेनासमर्थत्वात् न सम्मूढशब्देन ‘गुणसम्मूढाः’ इति समासः सम्भवति । ‘समर्थः पदविधिः’ इति समासविधौ सामर्थ्याधिकारेनिरपेक्षस्यैव तद्विधानात् इत्यतः पूर्वकायो नाभेदः ‘देवदत्तस्य गुरुकुलम्’ इत्यादौ समासदर्शनेन नित्यसापेक्षस्य तत्सिद्ध्या पूर्वादिशब्दवत् सम्बन्धिशब्दत्वेन नित्यसापेक्षतया गुणशब्दस्य सम्मूढशब्देन समासो युक्त इति दर्शयितुं प्रकृतेरित्यनुवादः कृत इत्यर्थः ।
भावरत्नकोशः
ननु ‘प्रकृतेर्गुणसम्मूढाः’ इत्यत्र प्रकृतिपदसापेक्षस्य गुण-सम्मूढपदस्य समासो न युक्तः । सापेक्षस्यासमर्थत्वात् । ‘समर्थः पदविधिः’ इति पद-सम्बन्धविधेः समर्थाश्रितत्वस्मरणादित्याशङ्क्य अत्र समासं समर्थयमानो भाष्ये मूलस्थस्य ‘प्रकृतेः’ इति पदस्यानुवादे प्रयोजनं दर्शयति– नित्यसापेक्षत्वादिति ।। सापेक्षस्याप्यसामर्थ्यं नास्तीत्यत्र वैयाकरणाभिमतमुदाहरणं दर्शयति– देवदत्तस्येति ।। अत्र कुलेनैव देवदत्त-शब्दोत्तरषष्ठ्यर्थस्यान्वयः, न पुनर्गुरुणा । देवदत्तस्य सम्बन्धस्तूपस्थितगुरुद्वारक एव षष्ठ्यर्थः, न तु तदितरः । उक्तं च–
‘समुदायेन सम्बन्धो येषां गुरुकुलादिना ।
संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सह ।।’ इति ।
अथवा ससम्बन्धिकपदार्थस्यैकदेशत्वेऽपि सम्भवत्येव विशेषेणान्वयः । ‘चैत्रनप्ता’ इत्यादौ तथा दर्शनात् । ‘नप्ता’ इत्यस्य ‘पुत्रपुत्रः’ इत्यर्थकत्वात् । उक्तं च–
‘सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते ।
स्वार्थवत् सा व्यपेक्षाऽत्र वृत्तावपि न हीयते ।।’ इति ।
अयमेव समर्थसूत्रमञ्जर्यामुक्तोेऽर्थः शब्दकौस्तुभे प्रपञ्चितः । अत्र च नित्यसापेक्षत्वं नाम ससम्बन्धिकत्वं विवक्षितमिति तद्वदेव समासोपपत्तिरित्यर्थज्ञापनाय भाष्ये तत्पदानुवाद इति ।
हेत्वर्थगर्भं विशेषणमिति भावेनाह– प्रकृतेर्गुणसम्मूढत्वादिति । अन्यथा हेतुहेतुमद्भावा-विवक्षायाम् । वैयर्थ्यापत्तेः ‘प्रकृतेर्गुणेषु सम्मूढाः’ इति विशेषणस्य । ये गुणकर्मसु सज्जन्ते तान् अकृत्स्नविदो मन्दान्न विचालयेद् बुध इति पूर्णत्वादिति भावः । तं हेतुहेतुमद्भावम् । ‘इन्द्रियादि’ इति भाष्यगतादिपदेन शरीरमनसोर्ग्रहणम् । श्रोत्रादीन्द्रियाभिमानिदेवानां शब्दादि विषयसङ्गप्रसङ्ग इत्यतोऽत्र विवक्षितं संसारमज्जनानुकूलमभिमानं निरूपयति– अभिमान इति । देवानां तु भगवदधीनतया नियमनं कुर्वतामपि मिथ्यामतेरभावान्न जीवसंसारमग्नत्वापत्तिरिति भावः । आदिशब्देन ‘विषयादि’ इत्यत्र आदिशब्देन । विषयेषु शब्दादीन्द्रियार्थेषु । ‘स्नेहादिः’ इत्यत्र आदिपदेनारित्वादिभ्रमनिमित्तको द्वेषो ग्राह्यः । कर्मसु क्रियारूपेषु । मयैवैतानि कर्माणि निष्पाद्यन्ते न पुनरन्योऽत्र कर्ताऽस्तीति स्वातन्त्र्यभ्रम एव सङ्गशब्दार्थ इत्यर्थः । अस्वकर्तृके स्वकर्तृकत्वाध्यासस्यापि सङ्गरूपत्वादिति भावः ।
प्रकृतेर्गुणैः सम्यङ्मूढाः सज्जन्ते गुणानां कर्मस्विति भाषणादाह– केनचिदिति । परव्याख्यानस्यासत्त्वे हेतुमाह– द्वन्द्वेति । अधिकेति । सङ्गाधिकरणस्य नानात्वलाभा-दित्यर्थः । अनेन द्वन्द्वपरिग्रहेण । इत्येतत् ‘विषयादिसङ्गः’ इति पूर्वभाष्य आदिपदं कर्मार्थकतया व्याख्यातमित्यर्थः । एतेन ‘इन्द्रियाद्यभिमानाद्धि विषयसङ्गः’ इत्यनेनैव संसार-निमग्नत्ववर्णनसम्भवाद् आदिपदस्य न प्रयोजनमिति चोद्यं परिहृतम् । तदिदमुक्तम्– समर्थितमिति ।
भावदीपिका
ननूत्तरत्र गुणशब्द एव व्याख्यायते, न प्रकृतिशब्दः । अतः ‘प्रकृतेः’ इत्यनुवादो व्यर्थ इत्यत आह– नित्यसापेक्षत्वादिति ।। गुणशब्दस्य प्रकृतिपदे-नैवापेक्षा, न सम्मूढपदेन । अतः सामर्थ्याभावान्न सम्मूढपदेन समासो युक्तः । ‘सापेक्षम-समर्थवद् भवति’ इति वचनाद् इत्याशङ्कायां गुणपदस्य सम्मूढपदेन समासेऽपि न प्रकृति-पदेनापेक्षा विहन्यत इत्येवं नित्यसापेक्षत्वान्नासामर्थ्यम् । वचनं त्वनित्यसापेक्षविषयम्, अतो न दोष इति सूचियितुं ‘प्रकृतेः इत्यनुवादः’ इत्यर्थः । ‘नित्यसापेक्षत्वान्नासामर्थ्यम्’ इत्यत्रोेदाहरणमाह– देवदत्तस्येति ।। तमिति ।। विवक्षितं हेतुहेतुमद्भावम् । अधिकार्थः उभयत्रासक्तिरूपः ।। अनेनेति ।। अधिकार्थलाभाय द्वन्द्वस्यात्र विवक्षितत्वे पूर्वं ‘विषयादि’ इत्यत्राऽदिपदेन कर्मग्रहणं तदपि समर्थितं भवति । द्वन्द्वपरिग्रहाभावे तत्राऽदिपदेन कर्मग्रहणानुपपत्तेरिति भावः ।
भावप्रकाशः
नित्यसापेक्षत्वान्नासामर्थ्यमित्यत्रोदाहरणमाह– देवदत्तस्येति ।। तथा च यथा गुरुपदस्य देवदत्तपदसापेक्षत्वेऽपि न विशिष्टैकार्थवाचित्वरूपसामर्थ्यभङ्गः । गुरोर्नित्यसापेक्षत्वेन शक्यैकदेशत्वेऽपि ‘चैत्रस्य नप्ता’ इत्यादिवद्विशेषणान्वयोपपत्तेः तथा प्रकृतेऽपित्यर्थः ।