कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ।। १८ ।।

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।

स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ।। १८ ।।

भाष्यम्

कर्मादि स्वरूपमाह– कर्मणीति ।। कर्मणि क्रियमाणे सति । अकर्म यः पश्येत् । विष्णोरेव कर्म, नाहं चित्प्रतिबिम्बः किञ्चित् करोमीति । अकर्मणि सुप्त्यादौ अकरणावस्थायाम् ।।

भावप्रदीपिका

यत्कर्मादिकं वक्ष्य इत्युक्तं तदाहेत्युत्तरश्लोकमवतारयति– कर्मादीति । कर्मणि क्रियमाणे इत्येतदेव विवृणोति– विष्णोरेवेति ।।

भावप्रकाशिका

यस्य कर्मादेः सम्यग्वचनाय दुर्विज्ञेयत्वमुक्त्वाऽतिविज्ञेयत्व-मुक्तम्, तत्सम्यग्-वचनपरत्वेनोत्तरं श्लोकमवतार्य व्याचष्टे– कर्मादीति । विहिते कर्मणि क्रियमाणेऽपि, अकर्म यः पश्येत्, ‘स्वस्य’ इति शेषः । तथाहि तद्विवृणोति– विष्णोरेवेति । न मे विष्णुवत् स्वतन्त्रं कर्म, प्रतिबिम्बत्वात् । अतः परिशेषात् बिम्बचेष्टैव मच्चेष्टेति भावः । न केवलं मम चेष्टैव विष्ण्वधीनेति जानन् बुद्धिमान्, किन्तु सर्वं तेनैव क्रियत इति जान-न्नेवेति भावेनोत्तरपादं व्याचष्टे– अकर्मणीति । कथमकर्मशब्दोक्तः सुप्त्यादिरित्यत उच्यते अकरणावस्थायामिति । आदिशब्देन स्वप्नप्रलयौ ।।

प्रमेयदीपिका

कर्म प्रवक्ष्यामि (४.१६) इति प्रतिज्ञातं कर्मादिप्रपञ्चनं च क्वापि नोपलभ्यते। कर्मणि इति श्लोकस्य यत्किञ्चिद्दर्र्शनस्तुतिरूपत्वादित्यत आह– कर्मा-दीति ।। यद्यप्ययं श्लोकोऽन्यथा प्रतीयते । तथाऽप्यविहितस्य स्तुत्ययोगाद् वाक्यभेदेन कर्मादिकं प्रतिपाद्य तत्स्तुतिः क्रियत इति भावः । कथमनेन तत्स्वरूपमुच्यते? इत्यतो व्याचष्टे– कर्मणीति ।। वर्णाश्रमोचिते । अकर्म कर्माभावं स्वस्य । तद्विवृणोति– विष्णोरेवेति ।। चित्प्रतिबिम्बः इत्यनेन तदधीनः करोमीत्यपि सूचयति ।।

भावबोधः

।। वाक्यभेदेनेति ।। यच्छब्दद्वयपरित्यागेन ‘कर्मण्यकर्म पश्येद्’, ‘अकर्मणि च कर्म पश्येद्’ इति विधायकमेकं वाक्यम् । पश्चाद्यच्छब्दद्वययोगेनेदमेवानुवादरूपपरं वाक्यमिति वाक्यभेदेनेत्यर्थः ।

भावदीपः

।। वाक्यभेदेनेति ।। यच्छब्दत्यागेन ‘कर्मण्यकर्म यः पश्येत्, अकर्मणि च कर्म पश्येत्’ इति कर्म-स्वरूपप्रतिपादकमेकं वाक्यम् । यच्छब्दद्वययोगेनानुवादक-तयाऽपरं वाक्यमिति वाक्यभेदेनेत्यर्थः ।।

भावरत्नकोशः

।। प्रपञ्चनं विस्तारेण स्वरूपनिरूपणम् । ‘प्रवचनम्’ इति क्वचित्पाठः । यत्किञ्चिद्दर्शनेति ।। ‘कर्मण्यकर्म यः पश्येदकर्मणि च कर्म पश्येद्’ इति यत् कर्माकर्मदर्शनं प्रतीयते तत्स्तुतेरेवात्र ‘स बुद्धिमान्’ इत्यादिनाऽभिधानादित्यर्थः । अन्यथा यत्किञ्चिद्दर्शनस्तुतिरूपत्वेन । वाक्यभेदेनेति ।। यच्छब्दद्वयपरित्यागेन ‘कर्मण्यकर्म पश्येद्’, ‘अकर्मणि च कर्म पश्येद्’ इति कर्मस्वरूपादिदर्शनविधिपरमेकं वाक्यम् । ततो ‘यो यश्चैवं पश्येत््’ इत्यनुवादेन ‘स बुद्धिमान्’ इत्यादिरूपस्तुतिपरम्, अपरं वाक्यमित्येवं वाक्यभेदेनेत्यर्थः । तत्स्वरूपं कर्मादिस्वरूपम् । ‘क्रियते’ इति कर्मव्यापारमात्रमिति सङ्करः । तदसदिति भावेन कर्म विशिनष्टि– वर्णाश्रमोचित इति ।। व्यापारमात्रज्ञानस्य स्तवनायोगादिति भावः । ‘अकर्म कर्माकरणम्’ इति भाष्यरीत्या वक्तव्येऽपि ‘कर्माभावम्’ इति वचनं ‘कर्माकरणम्’ इति भाष्येऽपि कर्मशब्देन कर्मकरणं, नञाऽभावश्च गृह्यते । तथा च तत्रापि कर्माभाव एव ज्ञातव्य इति विभावयितुम् । भगवतस्तदयोगादाह– स्वस्येति ।। ‘पश्येत््’ इत्याख्यातोपात्तः कर्तैवात्र स्वशब्दार्थः । तद्विवृणोतीति ।। ‘तर्हि मिथ्यादृष्टित्वं स्यादित्यतः’ इति शेषः । जीवे कर्तर्यनुभूयमाने कथं नाहं करोमीति दर्शनमित्यतो भाष्ये हेत्वर्थगर्भं विशेषणम्– चित्प्रतिबिम्ब इति ।। न हि प्रतिबिम्बस्य क्रियेति भावः । एतद्विशेषणोपादानस्य प्रयोजनान्तरं च दर्शयति– चित्प्रतिबिम्ब इत्यनेनेति ।। ‘तदधीनः’ इत्यनेन कर्तृत्वानुभवः समर्थितो भवति । ‘करोमि’ इति भाष्यस्थेतिशब्दस्य ‘यः पश्येत्सः’ इति वक्ष्यमाणेनान्वयः ।।

भावप्रकाशः

।। वाक्यभेदेनेति ।। यच्छब्दद्वयपरित्यागेन ‘कर्मण्यकर्म पश्येद्’, ‘अकर्मणि च कर्म पश्येत्’ इति विधिः । ततो य एवं पश्येदित्यनुवादेन स बुद्धिमानित्यादि-स्तुतिरित्येवं वाक्यभेदेनेत्यर्थः ।।

Load More