सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति । अजानता महिमानं तवेदं मया प्रमादात् प्रणयेन वाऽपि ।।४१।।

सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति ।

अजानता महिमानं तवेदं मया प्रमादात् प्रणयेन वाऽपि ।।४१।।

भाष्यम्

कथं ‘स्थाने’ इति? तदाह– कस्मादित्यादिना ।। पूर्णश्चासावात्मा च इति महात्मा । आत्मशब्दश्चोक्तो भारते ‘यच्चाप्नोति यदादत्ते यच्चात्ति विषया-निह । यच्चास्य सन्ततो भावः तस्मादात्मेति भण्यते’ इति ।। तत्परं सदसतः परम् । ‘असच्च सच्चैव यद्विश्वं सदसतः परम्’ इति भारते ।। ३७-४१ ।।

भावप्रदीपिका

(प.टी.) सर्वे नमस्यन्तीत्यादि युक्तमित्युक्तम् । तत्कथं युक्तम् ? इत्यत उत्तरश्लोकमवतारयति– कथमिति । युक्तत्वप्रदर्शनपरतया महात्मपदं व्याचष्टे– पूर्णश्चेति । कोऽर्थ आत्मशब्दस्य इत्यत आह– आत्मेति । उक्तो व्याख्यातः । सदसच्छब्दस्तन्नियामकत्वाद्यभिप्रायेणेति भावेन तत्परशब्दार्थं सप्रमाणकमाह– तदिति ।।

प्रमेयदीपिका

‘सर्वे नमस्यन्ति’ इत्येतद्युक्तमिति स्वयमेवोक्त्वा कस्माच्च ते न नमेरन् इति विरुद्धं कथं पृच्छति? इत्यत आक्षेप एवायमिति ज्ञापयितुं तन्निवर्त्याशङ्काप्रदर्शनपूर्वकमवतारयति– कथमिति ।। इति ‘शङ्कायाम्’ इति शेषः । तत् तस्या उत्तरम् । ‘महात्मन् अक्षुद्रचित्त’ इत्यल्पार्थप्रतीतिनिरासार्थमाह– पूर्णश्चेति ।। ‘आत्मा जीवः’ इति प्रतीतिं वारयितुमाह– आत्मेति ।। उक्तः निरुक्तः ।।

यत् यस्मात् । आप्नोतेः मनिन् । पकारस्य च तकारः । आङ्पूर्वाद् दाञः स एव प्रत्ययः। आकारलोपः, तत्वम् । आङ्पूर्वाददो मन्, तत्वं च ।। इह देहे । सन्ततो भावः नित्या सत्ता । आङ्पूर्वात् तनोतेः ढ्रमन् । सदसदात्मकं विश्वं त्वमेवेति सत्तादिप्रदत्वादेवोच्यते । न त्वन्यथा । तथासत्युत्तरवाक्यविरोधादिति भावेन तत्पठित्वा सप्रमाणकं व्याचष्टे– तत्परमिति ।। ३७-४१ ।।

भावबोधः

।। अदो मन्निति ।। सवर्णदीर्घश्च तत्त्वमिति पूर्वमत्र च दकारस्येत्यर्थः ।। ढ्रमन् इति ।। डित्त्वाट्टिलोप इति भावः ।। ३७ ।।

भावदीपः

।। युक्तमितीति ।। स्थानपदेनेत्यर्थः ।। ‘तदाह’ इत्यत्र ‘तत्’ इत्यनूद्य तस्या इति प्रकृतिपदमुक्त्वा ‘आह’ इत्यतः पूर्वम् ‘उत्तरम्’ इति शेषमाह– तत् तस्या उत्तरम् इति ।। शङ्काया इत्यर्थः ।। ‘तस्मात्’ इत्यग्रे श्रवणात् सर्वोऽपि यच्छब्द-प्रतिनिरुक्तिहेत्वर्थ इति भावेनाऽह– यत् यस्मादित्यादिना ।। अर्थचतुष्टयेऽपि क्रमेण व्युत्पत्तिं दर्शयति– आप्नोतेः इत्यादिना ।। ‘मनिन्’ इति पाठः साधुः । ‘मन्’ इत्येव पाठे तु ‘हलन्त्यम्’ इति नकारलोपेन भाव्यतया नकारान्तशब्दताऽस्य न स्यात् ।। दाञ इति ।। ‘दाञ्...’ इति धातोरित्यर्थः ।। तत्वमिति ।। लुप्ताकारदकारस्य तकार इत्यर्थः ।। आङ्पूर्वात् तनोतेः मनिति ।। तत्वमिति ।। दकारस्य तकारभाव इत्यर्थः ।। तनो-तेरिति ।। ‘तनु विस्तारे’ इति धातोः, ‘अद भक्षणे’ इति धातोः डमन्प्रत्यये डित्वात् टिलोपे आत्मेति रूपमिति भावः ।। उत्तरवाक्येति ।। ‘तत्परम्’ इति वाक्ये इत्यर्थः ।। ३७-४१ ।।

वाक्यार्थप्रदीपः (पा.टि.)– ।। पकारस्येति ।। निर्वचनत्वादिति भावः ।। स एव प्रत्यय इति ।। मन्प्रत्यय एवेत्यर्थः ।। आकारलोप इत्यादि ।। निर्वचनत्वादिति हृदयम् ।। तत्वमिति ।। दकारस्य तकार इत्यर्थः ।। ढ्रमन्निति ।। डित्वात् टिलोप इति भावः ।।

भावरत्नकोशः

।। ‘स्थाने’ इत्येदन्ताव्ययार्थः ‘युक्तम्’ इति । विरुद्धम् ‘न नमेरन्’ इत्यत्र यत्प्रतीतम् अनमनम्, तत् कस्मान्निमित्तात् इति नमस्काराभावं सहेतुकं पृच्छतीत्यर्थः । तस्याः शङ्कायाः । भाष्ये ‘पूर्णश्च’ इत्यतः पूर्वं ‘महान्’ इति वक्तव्यम् । तदर्थः ‘पूर्ण इति’ इति व्याख्याने व्याससमासयोरवैरूप्यं भवतीति द्रष्टव्यम् । निरुक्तः प्रकृति-प्रत्यययोरर्थप्रदर्शनेन व्याख्यातः । आप्नोतेः ‘आप्लृ व्याप्तौ’ इति धातो मन्प्रत्ययः । ‘मनिन् सर्वधातुभ्यः’ इति शास्त्रविहितमनिन्प्रत्यय इत्यर्थः । ‘मुक्तानुबन्धस्तु’ टीकोक्तः । ननु ‘आप्मा’ इति स्यात् इत्यत आह– पकारस्येति ।। पृषोदरादिभावात् पकारस्य तकारो विकार इति भावः । दाञः ‘डुदाञ् दाने’ इत्यस्मात् स एव मन्प्रत्ययः । आकारलोपः धात्वाकारलोपः । तत्वं दकारस्य तकारः, पृषोदरादित्वात् । ओः ‘अद भक्षणे’ इति धातोः मन् मनिन् तत्वम्् धातुदकारस्य तकारादेशः । तनोतेः ‘तनु विस्तारे’ इत्यतः ड्मन् । मनिन्प्रत्ययो डित्कर्तव्यः । ‘कार्यात् विद्यादनुबन्धम्’ इति वचनात् । डित्त्वाच्च टिलोपे आत्मा नित्यसत्ताशालीति लभ्यत इति भावः । सत्तादिप्रदत्वात् सदसत्सत्ताप्रतीत्यादिप्रदत्वादेव । अन्यथा सदसत्स्वरूपाभेदेन ।। ३७ ।।

गीताक्षरार्थस्तु एतादृशमाहात्म्यं भगवन्तं त्वां प्रति यद् अपराद्धम्, तत्क्षन्तव्य-मित्युच्यते– सखेतीत्यादिना ।। सखा समानवया इति मत्वा प्रसभं हठेन यदुक्तम्  हे कृष्ण हे यादव हे सखेति ।। सन्धिरार्षः । तव महिमानं माहात्म्यरूपम् इदम् ‘अहं सर्वस्य जगतः प्रभवः’ इत्यादिनोक्तं जगत्स्रष्टृत्वादिकम् अजानता बलिष्ठत्वाद्यल्पमहिमज्ञानेऽपीदृशं जग-त्प्रभवादिमहामाहात्म्यम् अपरिजानतेत्यर्थ इति विवृतिकृतः । स्वामिनस्तु ‘इदम् इमं महिमानम्’ इति लिङ्गव्यत्ययेन व्याकृतवन्तः । ‘तव महिमानम्’, ‘इदं च विश्वरूपमजानता’ इति कस्यचिद् व्याख्यानं चशब्दसंयोजनाद् विश्वरूपदर्शनवतोऽर्जुनस्य तदपरिज्ञानकल्पनाच्चायुक्तम् । मया प्रमादाद् अनवधानात् प्रणयेन स्नेहेनापि वा यदुक्तम् ।। ४१ ।।

भावदीपिका

।। युक्तमिति ।। ‘स्थाने’ इत्यादिनेत्यर्थः । आक्षेप इति ।। ‘कस्मान्न नमेरन्’ ‘किन्तु नमेरन्नेव’ इत्याक्षेपणमेवेत्यर्थः । ‘यच्चाप्नोति’ इत्याद्यं व्याख्यान-मुपपादयति– आप्नोतेर्मन्निति ।। तथा च ‘आप व्याप्तौ’ लृकारोऽनुबन्धार्थः । अस्मात् मन्प्रत्यये निर्वचनात् पकारस्य तकारे ‘आत्मन्’ इति प्रातिपदिकनिष्पत्तिः । पश्चात् स्वाद्युत्पत्तौ ‘आत्मा’ इति भवतीति द्रष्टव्यम् । एवमुत्तरत्रापि । यदादत्ते सम्यग्ददातीति द्वितीयं व्याख्यानमुपपादयति– आङ्पूर्वादिति ।। तथा चाङ्पूर्वात् ‘दा दाने’ इत्यस्मात् मन्प्रत्यये, धात्वाकारलोपे, दकारस्य तकारे च ‘आत्मन्’ इति रूपम् । ‘यच्चात्ति विषयानिह’ इति तृतीयं व्याख्यानमुपपादयति– आङ्पूर्वकादिति ।। तथा चाङ्पूर्वकात् ‘अद भक्षणे’ अस्मात् मन्प्रत्यये दकारस्य तत्वे, अकः सवर्णे दीर्घे च ‘आत्मन्’ इति रूपम्् । ‘यच्चास्य सन्ततो भावः’ इति चतुर्थं व्याख्यानमुपपादयति– आङ्पूर्वकादिति ।। तथा चाङ्पूर्वकात् ‘तनु विस्तारे’ अस्मात् ड्रमन्प्रत्यये डित्त्वात् टीभूतस्य ‘अन्’ इत्यस्य लोपे च ‘आत्मन्’ इति रूपम् । उत्तरवाक्येति ।। ‘त्वं सदसत्’इत्यस्माद् यदुत्तरं वाक्यं ‘तत्परम्’ इति । तद्विरोधादित्यर्थः ।। ३७ ।।

भावप्रकाशः

।। अकारलोप इति ।। पृषोदरादिरयमिति भावः । तत्त्वमिति ।। पृषोदरादित्वादेव दकारस्य तकार इत्यर्थः । एवमग्रेऽपि ।। ३७ ।।