यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति । तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ।। २८ ।। यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः । तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ।। २९ ।।

यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति ।

तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति

।। २८ ।।

यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः ।

तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः

।। २९ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु अभिविज्वलन्ति अभितो दीप्यमानानि नरलोकवीराः मनुष्यलोकशूराः भीष्मादयस्ते किमर्थं प्रविशन्ति, कथं च ? इत्यत उच्यते– यथा प्रदीप्तं ज्वलनमिति ।। पतङ्गाः शलभाः । अबुद्धिपूर्वप्रवेशे नदीदृष्टान्तः, बुद्धिपूर्वप्रवेशे पतङ्गदृष्टान्त इति आहुः । ततः किम् ? इत्यत उच्यते– लेलिह्यस इति ।। ज्वलद्भिः वदनैः लोकान् ग्रसमानः अदन्, लेलिह्यसे अतिशयेन स्वादयसि । किञ्च हे विष्णो तव भासो दीप्तयः तेजोभिः स्फुरणैः समग्रं जगद् आपूर्य व्याप्य, उग्राः तीव्राः सत्यः प्रतपन्ति प्रकर्षेण तापयन्ति

।। २८,२९ ।।