यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ।। ७ ।। परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ।। ८ ।।
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ।। ७ ।।
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ।। ८ ।।
भाष्यम्
न जन्मनैव परित्राणादिकं कार्यमिति नियमः । तथाऽपि लीलया स्वभावेन च यथेष्टचारी । तथा ह्युक्तम्–
‘देवस्यैष स्वभावोऽयम्’,‘लोकवत्तु लीलाकैवल्यम्’
‘क्रीडतो बालकस्येव चेष्टां तस्य निशामय’ (वि.पु.१.२.१८)
‘अरिभयादिव स्वयं पुराद् व्यवात्सीद् यदनन्तवीर्यः’ (भाग ३.२.१६),
‘पूर्णोऽयमस्यात्र न किञ्चिदाप्यं तथाऽपि सर्वाः कुरुते प्रवृत्तीः ।
अतो विरुद्धेषुमिमं वदन्ति परावरज्ञा मुनयः प्रशान्ताः ।।’
इत्यादि ऋग्वेदखिलेषु ।। ८ ।।
भावप्रदीपिका
ननु साधुपरित्राणादि कर्तुं यदि परमात्मनो जन्म, तर्हि जन्माभावे कर्तुमशक्तिः स्यात् । तत्फलस्य पूर्वमभावेनापूर्णता चेत्यत आह– नचेति ।। यद्यपि जन्म विना परित्राणादौ समर्थस्तथाऽपि लीलया प्रादुर्भूत्वैव करोति । नापि तेन फलमस्ति, किन्तु स्वभावेनैव करोतीत्यर्थः । अत्रैव प्रमाणान्याह– तथा हीति । विरुद्धेषुं विरुद्धेच्छम् ।। ८ ।।
भावप्रकाशिका
उत्तरश्लोकद्वयस्य पूर्वसङ्गतेः व्याख्यानस्य सुगमत्वात् तदुद्भवाशङ्कामेवापाकरोति न जन्मनेत्यादिना । साधुपरित्राणादिप्रयोजनाय ‘सम्भवामि’ इति वदन्नपि, सम्भवं विना परित्राणादि कर्तुं न शक्नोतीति नाशङ्कनीयम् । अनन्तवीर्यत्वात् । तथाऽपि इच्छयैव जन्मानुकुर्वन् स्वावतारादि करोति । न चान्यथापि कर्तुं समर्थस्य किं जन्मानुकरणादिक्लेशेनेति वाच्यम् । लीलयैव तदनुकरणात् । न चेतरवदालस्यादिपरिहाराय भगवतो जन्माद्यनुकरणलीलेति वाच्यम् । तस्यालस्यादिदोषाभावात् । अतः स्वभावादेव लीलया यथावशं चरतीत्यर्थः ।
अस्मिन्नेवार्थे प्रमाणमाह– तथा हीति । एतादृशी भगवच्चेष्टा, याऽरिभयादिव पुराद् व्यवात्सीत् । न चारिभयं तस्यास्ति। अनन्तवीर्यत्वात् । पूर्णकामोऽयं देवः । अत एवास्य न किञ्चिदाप्यमस्ति । आसाद्यमिष्टमपनोद्यमनिष्टं च नास्तीत्यर्थः । तथाऽपीष्टानिष्टप्राप्ति-परिहारार्थाः प्रवृत्तीः करोति । अत इमं विरुद्धेच्छंु वदन्ति । अतोऽयं देवस्य स्वभावः, योऽयम् आ समन्तात् इच्छया जगत उत्पत्त्यादिप्रणयनव्यापारः । स एव च तल्लीला केवलभावः स चान्येषां सुखदुःखमध्यसम्प्राप्त्यै भवतीत्यनवद्यम् ।। ८ ।।
प्रमेयदीपिका
परित्राणाय साधूनाम् इति साधुपरित्रणादिकं भगवदवतारस्य प्रयोजनमुक्तम् । तत्र किं जन्मनैव परित्राणादिकं कार्यमिति नियमः? इत्यपेक्षायामाह– नेति ।। जन्मना विनाऽपि कर्तुं समर्थत्वादिति भावः ।। तर्हि किमर्थं जन्म? इत्यत आह– तथाऽपीति ।। यथेष्टचारी इच्छयैव तथा आचरति । तथेच्छैव किमर्था ? इत्यत उक्तम्– लीलयेति ।। लीलाऽप्यालस्यपरिहाराद्यर्था न भवतीत्युक्तम्– स्वभावेनचेति ।।
अत्रैव प्रमाणान्याह– तथा हीति ।। अयमेषः इयमिच्छा । अत्र प्रवृत्तिषु । विरुद्धेषुं लोकविपरीतेच्छुम् ।। ७-८ ।।
भावदीपः
‘एषः’ इत्येतच्छब्दरूपं न भवति । किन्तु ‘इषु इच्छायाम्’ (पा.धा. १३५१) इत्यतः भावे घञ्प्रत्ययान्तः । अतो न पौनरुक्त्यमित्याह– अयमेषः इयमिच्छेति ।। ‘अत्र न किञ्चिदाप्यम्’ इत्यत्रत्य अत्रपदानुवादेनार्थमाह– अत्र प्रवृत्तिष्विति ।। इच्छतेर्भावे कप्रत्यय इति भावेनाऽह– विरुद्धेषुमिति ।। ८ ।।
भावरत्नकोशः
किञ्च स्वप्रयोजनाभावेऽपि परप्रयोजनोद्देशेन सम्भवो युज्यत इत्यभिप्रेत्य तस्य कालः प्रयोजनविशेषश्चोच्यते ‘यदा यदा’ इति द्वाभ्याम् । धर्मस्य वर्णा-श्रमोचितलक्षणस्य ग्लानिः हानिः । अधर्मस्य श्रुतिस्मृतिप्रतिषिद्धाचरणस्य अभ्युत्थानम् उद्भवः तदाऽऽत्मानं सृजामि तस्मिन् कालेऽहम् अवतरामीति यावत् ।।
‘परित्राणादिकम्’ इत्यत्र पापकारिनाशनं धर्मसंस्थापनं वा आदिपदार्थः । तादर्थ्ये चतुर्थीति भावेनोक्तम्– प्रयोजनमिति ।। कुतो नियम इत्यतो भाष्यभावमाह– जन्मना विनेति ।। अनेन ‘यद्यपि जन्म विनापि त्राणादौ समर्थत्वात् जन्मनैव तत्कार्यमिति नियमो नास्ति । तथाऽपि’ इति भाष्ययोजनोक्ता भवति । तर्हि यदि जन्मना विना कर्तुं समर्थस्तर्हि– इच्छयैवेति । अनेन ‘इषु इच्छायाम्’ इत्यतो भावे निष्ठा, इष्टमनतिक्रम्य यथेष्टं चरितुं शीलमस्येति यथेष्टचारीति भाष्यार्थ उक्तोे भवति । ‘परिहाराद्यर्था’ इत्यत्राप्राप्तसुखावाप्ति-रादिपदार्थः । ‘एषोऽयम्’ इति पदद्वयम् एतद्इदंशब्दरूपमिति पुनरुक्तिरित्यत आह– अयमेष इति । ‘इषु इच्छायाम्’ इत्यतो भावे घञि ‘एषः’ इति रूपमित्यर्थे भेदान्नोक्तदोष इति भावः । मत्तादेर्नृत्तगानादिक्रिया यथा तथेशस्यापि सृष्टिपालनादिक्रिया । लीलायाः कैवल्यं केवलं प्रयोजनं विना कृता लीलेव । प्रयोजनाभावेऽपि सुखोद्रेकात्, स्वभावादेव भगवतो विश्व-सृष्टिपालनादिक्रियेति ब्रह्मसूत्रार्थः ।
भाष्ये चेष्टां साधुजनपरित्राणादिरूपां निशामय पश्य । स्वयम् आत्मना स्वेच्छयैव पुराद् विवासमकरोत् । तच्चारिभयादिवादर्शयत् । कुतः ? यतोऽनन्तवीर्य इति । अत्र भगवतः प्रवृत्तिरिच्छामात्रेति विभाव्यते । तथा च प्राचीनटीका ‘एतादृशी भगवच्चेष्टा या अरिभयादिव पुराद् व्यवात्सीत् । न चारिभयं तस्यास्ति । अनन्तवीर्यत्वादिति’। भाष्यस्थम् ‘अत्र’ इतिपदमनूद्यार्थ-माह– अत्रेति ।। प्रवृत्तिषु अर्जुनत्राणादिरूपासु । ‘प्रवृत्तिः’ इत्युपरिश्रवणादिति भावः । भाष्ये अयं देवः पूर्णः पूर्णकामः, अत एव अस्य न किञ्चिदाप्यमस्ति । आप्यमिष्टम् अपनोद्यमनिष्टं च नास्ति । तथाऽपीष्टानिष्टप्राप्तिपरिहारार्थाः प्रवृत्तीः कुरुते करोति । इतरपदार्थः प्राचीनटीकातो अवधेयः । इच्छतेर्भावे कुप्रत्यये इषुशब्द इच्छावाचीति भावेनाह– विरुद्धेषुमिति ।। ८ ।।
गीताक्षरार्थस्तु - परित्राणाय परिरक्षणाय । दुष्कृतां पापकारिणां विनाशाय च । किञ्च धर्मसंस्थापनार्थाय च धर्मस्य सम्यग् व्यवस्थापनलक्षणप्रयोजनाय युगेयुगे वीप्सायां द्विर्वचनम् । धर्महान्यधर्मवृद्धिकाले इति ।। ८ ।।
भावदीपिका
।। तथाऽऽचरतीति ।। जन्मना परित्राणाद्याचरतीत्यर्थः ।। तथेच्छैवेति ।। ‘जन्मना परित्राणाद्याचरिष्ये’ इतीच्छैवेत्यर्थः । ‘अयम्’ इत्युक्तत्वात् ‘एष’ इत्यस्य वैयर्थ्यपरिहारायानुवाद इत्याह– अयमेष इयमिच्छेति ।। ‘इषु इच्छायाम्’ इत्यस्माद् एषणम् एष इति भावे घञि गुणे च एषशब्द इच्छावाचीति द्रष्टव्यम् ।। प्रवृत्तिष्विति ।। प्रवृत्तिषु कृतासु सतीषु न किञ्चिदाप्यमित्यर्थः । ‘इषु इच्छायाम्’ इति धातोरिषुशब्दवाच्येच्छायाः प्रमाणविरुद्धत्वा-भावादाह– लोकविपरीतेति ।। यथोक्तम् ‘तदन्यत्र त्वसन्त्यप्यविरोधेन गोविन्दे सन्ति’ इति
।। ७,८ ।।
भावप्रकाशः
‘अयमेषः’ इत्यनयोरन्यतरवैय्यर्थ्यनिरासायाह– इयमिच्छेति ।। इषु इच्छायामित्यतो भावे घञिति भावः ।। ८ ।।