भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ।। ५५ ।।

भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः ।

ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ।। ५५ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु ततश्च किम् इत्यत उच्यते– भक्त्येति ।। यावान् अहं यत्परिमाणः देशकालगुणैर्व्याप्तो यश्च यन्नामा यद्रूपश्च अस्मि तावन्तं च मां तत्त्वतः स्वस्वयोग्यतानुसारेणेति यावत्, तथा भक्त्या मामभिजानाति सम्यगवबुध्यते ततो भक्तिप्रास्यनन्तरं स्वगतभेदरहितं तद् वैदिकवेद्यत्वहेतुना तच्छब्दवाच्यं ब्रह्म मां विशते प्रविशति प्रपद्यत इत्यर्थः ।। ५५ ।।