वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः । मुनीनामप्यहं व्यासः कवीनामुशना कविः ।। ३७ ।।

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।

मुनीनामप्यहं व्यासः कवीनामुशना कविः ।। ३७ ।।

भाष्यम्

आच्छादयति सर्वं वासयति वसति च सर्वत्रेति वासुः । देवशब्दार्थ उक्तः पुरस्तात् । ‘छादयामि जगद्विश्वं भूत्वा सूर्य इवांशुभिः । सर्वभूताधिवासश्च वासुदेवस्ततोऽस्म्यहम्’ इति मोक्षधर्मे ।

भावप्रदीपिका जगति भूत्वा सूर्योंऽशुभिरिव छादयामि । आ समन्तादिति व्याप्त इत्यर्थः ।

प्रमेयदीपिका

‘वृष्णीनां वासुदेवोऽस्मि’ इति वासुदेवशब्दं व्याचिकीर्षुः वासुशब्दार्थं तावदाह– आच्छादयतीति ।। ‘वस आच्छादने’ इत्यत उण् । वासयति सर्वमिति वर्तते । ‘वस निवासे’ इत्यतो ण्यन्तादुण् । ‘वसति च’ इति केवलादुणेव । ततः किमायातं वासुदेवशब्दस्य? इत्यत आह– देवेति ।। तथा हि ‘देवशब्दार्थम्’ इत्यत्र। ततः कर्मधारयः । विश्वं समस्तं भूत्वा प्राप्य । ‘भू प्राप्तौ आत्मनेपदी’ इति वचनात् । सर्वभूताधिवासश्चेति तत्पुरुषो बहुव्रीहिश्च । अत्रापि देवशब्दार्थो ग्राह्यः ।।

भावबोधः

।। उणिति ।। णित्वादुपधावृद्धौ वासुरिति रूपमिति भावः । एवमुत्तरपक्षद्वयेऽपि ज्ञातव्यम् ।। केवलादिति ।। णिजर्थरहितादित्यर्थः । तत्पुरुषो बहुव्रीहिश्चेति सर्वभूतानामधिवास इति तत्पुरुषत्वे वासयति सर्वमित्यर्थलाभात् सर्वभूतान्यधिवासः वासस्थानं यस्येति बहुव्रीहित्वे वसति च सर्वत्रेत्यर्थलाभात् उक्तार्थद्वयस्य प्रामाणिकत्वमिति भावः ।

भावदीपः

।। उणिति ।। ‘उणादयो बहुलम्’ इति सूत्रात् अण्प्रत्यये उपधावृद्धौ रूपमिति भावः । ण्यन्तात् उण् इति ‘णेरनिटि’ इति णिलोपे रूपम् । केवला-दिति ।। अण्यन्तादित्यर्थः । तथेहापीति ।। अष्टमे ‘दिव्यम्’ इत्यस्य ‘सृष्ट्यादिक्रीडादियुक्तम्, दिवु क्रीडा इति धातोः’ इति भाष्यकृदुक्तेः । तथेहापि देवशब्दार्थो ग्राह्य इत्युक्तं भवति ।। भू प्राप्ताविति ।। भूधातुः प्राप्त्यर्थकः आत्मनेपदीति वचनार्थः ।। तत्पुरुषो बहुव्रीहिश्चेति । सर्वभूतानामधिवासः आश्रयः, सर्वभूतानि अधिवासः आश्रयो यस्य स इति भावः ।। अत्रापीति ।। मोक्षधर्मवाक्येऽपीत्यर्थः ।।

वाक्यार्थप्रदीपः

।। उणिति ।। णित्वादुपधावृद्धौ वासुरिति रूपनिष्पत्ति-रिति ।। केवलादिति ।। णिजर्थरहितादित्यर्थः ।। भू प्राप्तौ आत्मनेपदीति वचनादिति ।। प्राप्त्यर्थो भूधातुः नित्यमात्मनेपदी भवति चुरादिरिति शेषः ।। तत्पुरुषो बहुव्रीहिश्चेति । सर्वभूतानामधिनिवासः इति तत्पुरुषः, सर्वभूतानि अधिवासो वासस्थानं यस्य्•ति बहुव्रीहि-श्चेत्यर्थः ।। अत्र सर्वं वासयति सर्वत्र वसति चेति व्याख्यातार्थद्वयस्य प्रामाणिकत्वलाभाय समासद्वयाश्रयणमिति ज्ञेयम् ।

भावरत्नकोशः

असाङ्गत्यशङ्कापरिहारायाह– वृष्णीनामिति ।। ‘आच्छा-दयति’ इति भाष्ये ‘सर्वं व्याप्नोति’ ‘अविद्यादिना आवृणोति वा’ इति कर्मनिर्णयटीकारीत्याऽर्थः । उणिति ।। ‘कृ, वा, पा, जि, मि, स्वदि, साधि, अशूभ्य उण्’ इति विधीयमान उण््प्रत्ययो बाहुलकाद् वसेरपि भवति । सति च तस्मिन् परतः, ‘अत उपधायाः’ इति वृद्धौ वस्तेः ‘सर्वमाच्छादयति’ इति ‘वासुः’ इति रूपमिति भावः । ण्यन्ताद् उणिति ।। तस्मिंश्च परतः ‘अत उपधायाः’ इति वृद्धौ, ‘णेरनिटि’ इति णिलोपे, उणो णकारलोपे च वासुरिति रूपमिति भावः । नन्वेवं सति वसतेर्वृद्धिर्न स्यात् ? तन्निमित्तस्य णिचो लुप्तत्वादिति चेन्न । ‘प्रत्ययलोपे प्रत्ययलक्षणम्’ इति तल्लोपेऽपि वृद्ध्युपपत्तेः । न चैवम् उणो णित्त्वं व्यर्थमिति वाच्यम् । उक्तवक्ष्यमाणप्रत्यययोर्णित्त्वस्य वृद्ध्यर्थतया कर्तव्य-त्वेन, अत्राप्येकशास्त्रोक्तत्वरूपप्रत्यासत्त्या प्रतिपत्तिसौकर्याय प्राप्तस्य धातुजवासुशब्दे उकारान्तत्वाय एवमुक्तत्वात् । यथा तातङि ङित्त्वस्य गुणाभावार्थस्य प्रवृत्तौ सप्रयोजनस्यापि, ‘सेर्ह्यपिच्च’ इति ङित्त्वस्य सिद्धतया तत्र प्रयोजनशून्यस्यापि प्रवृत्तिः, यथा वा ‘कृ, वा, पा, जि,मि, स्वदि, साधि, अशूभ्य उण्’ इति सूत्रे साधयति साध्नोति वा ‘साधुः’ इत्युदाहरणे ण्यन्तात् केवलाद्वा विहिताण्प्रत्ययस्य णित्त्वं न किमपि प्रयोजनमावहति इति शब्दस्यो-कारान्तत्वसम्पादनमेव प्रयोजनमिति तस्मादुण्प्रत्ययोत्पादनम््, तद्वदेवात्रापि द्रष्टव्यम् ।

केवलात् अण्यन्तात् । बाहुलकाद् ण्यन्तात्् प्राप्तः केवलादप्युणेव भवति, न पुनः प्रत्ययान्तरं गवेषणीयमिति एवशब्दः । इत्यत्र सप्तमभाष्ये । ननु भवतिः सत्तार्थः । स कथं प्राप्त्यर्थो व्याख्यायते इत्यत आह– भू प्राप्ताविति ।। अनेनैव वचनेन भवतेः प्राप्तिरप्यर्थोऽभि-सन्धीयत इति भावः । ‘सर्वं वासयति’ ‘सर्वत्र वसति’ इत्युक्तार्थद्वयलाभायाह– तत्पुरुष इति ।। ‘सर्वभूतानाम् अधिवासः’ इति षष्ठीतत्पुरुषः । ‘सर्वभूतान्यधिवासो यस्य’ इति बहुव्रीहिः । एवमपि ‘वासु’ इत्येव स्यात्, नतु ‘वासुदेवः’ इति । तत्राह– अत्रापीति ।। मोक्षधर्मेऽपीत्यर्थः ।।

भावदीपिका

।। उणिति ।। तथाच णित्त्वाद् उपधावृद्धौ लोपे ‘वासु’ इति भवति । ण्यन्तादिति ।। णिजन्तादित्यर्थः । अत्र पूर्ववदेव रूपम् । केवलात् णिजर्थ-रहितादित्यर्थः । अत्रापि रूपं पूर्ववदेव । अभेदप्रतीतिवारणाय ‘भूत्वा’ इत्यस्यार्थमाह– प्राप्येति ।। भूधातोः प्राप्त्यर्थत्वे धातुसूत्रवचनं प्रमाणयति– भू प्राप्ताविति ।। तत्पुरुषो बहुव्रीहिश्चेति ।। ‘सर्वभूतानाम् अधिवासः वासयिता’ इत्यनेन ‘सर्वं वासयति’ इति प्रमापितम् । ‘सर्वभूतान्येवाधिवासभूतानि यस्य’ इति बहुव्रीहिणा ‘वसति सर्वत्र’ इत्येतत् प्रमापितमिति ध्येयम् । अत्र वासुशब्दार्थस्यैव कथनेन देवशब्दार्थाकथनाद् ‘वासुदेवस्ततोऽ-स्म्यहम्’ इत्यनुपपन्नम् इत्यत आह– अत्रापीति ।।

भावप्रकाशः

।। उणिति ।। वस्ते आच्छादयतीति वासुः । अत उपधाया इति वृद्धिश्चेति भावः । ण्यन्तादुणिति ।। णेरनिटीति णिलोप इति भावः । सर्वं वासयतीति सर्वत्र वसतीत्यर्थद्वयानुगुण्यायाह– तत्पुरुष इति ।। एतदिति ।। व्यास इति ।। समुदाया-न्तर्गत स इति पदमित्यर्थः । व्यासमित्यादीति ।। त्यदाद्यत्वे पररूपे च व्यातमिति स्यादित्यर्थः । आदिपदे व्यासेनेत्यादेः ग्रहणम् । उत्तरत इति द्विःश्रवणादाद्यस्यार्थभेदमाह– उपरिष्टादिति ।। ३७ ।।

Load More