वेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ।। २१ ।।
वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ।। २१ ।।
भाष्यम्
अतो यः एवं वेद सः कथं कं घातयति हन्ति वा । अविनाशिनं नैमित्तिक-नाशरहितम् । नित्यं स्वाभाविकनाशरहितम् ।। अथवा अविनाशिनं दोषयोगरहितम् नित्यं सदा भाविनम् इति सर्वत्र विवेकः । दोषयुक्तपुरुषादिषु नष्टशब्दप्रयोगात् ।। २१ ।।
भावप्रदीपिका
पुरविनाशित्वादि किमित्युच्यते? इत्यत आह– अत इति ।। अत इति प्रतिबिम्बत्वादितः । घातयति हन्ति वा इति घातयामि हन्मि वेति भावं करोतीत्यर्थः । अविनाशिनित्यपदयोरर्थ-भेदमाह– अविनाशिनमिति ।। दोषाः छेदादयः ।। २१ ।।
भावप्रकाशिका
यस्यात्मनित्यत्वं नित्येश्वरप्रतिबिम्बरूपत्वं निश्चितं न तस्यात्मनि वध्यघातकभ्रम इति भावेनोत्तरं श्लोकं व्याचष्टे– अत इति ।। नित्येशप्रतिबिम्बत्वान्न हन्यते । अत एव पारतन्त्र्या-न्नाहमस्मीति भावस्तस्येति भावः । दोषयोगराहित्याभिधानस्यायं प्रकृतोपयोगः । यथा भीष्म-द्रोणादिचैतन्यानां नित्यत्वान्न त्वया हननं घातनं वा । तद्वत् तेषामदोषयोगित्वात् न त्वया दोषयोगः क्रियते कार्यते वेति ।। २१ ।।
प्रमेयदीपिका
‘वेदाविनाशिनम्’ इति पुनरात्मनोऽविनाशित्वादिकं किमर्थमुच्यते? इत्यतोऽस्य तात्पर्य-माह– अत इति ।। उक्तैः प्रमाणैः । ‘एवम्’ अविनाशित्वादिरूपम् । कं कथं घातयति हन्ति वा इत्येवं भावं न करोतीत्यर्थः । जीवस्यानित्यत्वादिकं मन्यमानो न जानातीत्युक्तम् । इदानीं तु ज्ञानी नैवं मन्यत इत्युच्यत इति । ‘अविनाशिनम्’,‘नित्यम्’ इति पुनरुक्तिमाशङ्क्य द्वेधाऽर्थभेदमाह– अविनाशिनमिति ।। नैमित्तिकः बिम्बनाशादिनिमित्तकः । स्वाभाविकः कालकृतः । ‘दोषयोगरहितम्’ इत्यनेन ‘मात्रास्पर्शाः’ इत्यत्र यदुक्तम् ‘आभिमानिकमेवात्मनो दुःखादिकं न तु स्वगतम्’ इति तस्यानुवादः क्रियते ।। एवं व्याख्यानप्रकारमन्यत्राप्यति-दिशति– इति सर्वत्रेति ।। ‘विवेकः’ शब्दार्थयोः। ‘अविनाशिनं दोषयोगरहितम्’ इति कुतो लभ्यते? इत्यत आह– दोषेति ।। अनेकार्थत्वाद् धातूनामिति भावः ।। २१ ।।
भावबोधः
ननु ‘कथं स पुरुषः’ इति गीतायां स वेत्ता पुरुषः कथं कं घातयति, हन्ति कम् न कथञ्चिदिति ज्ञानिन एव स्वातन्त्र्याक्षेपः । अज्ञानिनः स्वातन्त्र्यमस्तीति प्रतीत्या प्रकृत-स्वातन्त्र्यनिषेधविरोधः स्यादित्यतस्तदनुकारि ‘स कथम्’ इति भाष्याभिप्रायमाह– एवं भावमिति ।। जीवानित्यत्वस्वातन्त्र्यादिविषये भ्रान्तो न भवतीत्यर्थः । न जानातीत्युक्तमिति ।। ‘य एनम्’ इति श्लोकेनेत्यर्थः । इत्युच्यत इति ।। तथा च न तेनास्य पुनरुक्तिरिति भावः । अनेकार्थत्वाद्धातूनामिति ।। तथा चादर्शनवत् दोषयोगोऽपि नञ् धात्वर्थ इत्यर्थः ।। २१ ।।
भावदीपः
‘अतः’ इत्यस्यार्थः उक्तैः प्रमाणैरिति ।। ‘एवम्’ इत्यस्यार्थः अविनाशित्वादिरूप-मिति ।। गीतोक्तनित्यत्वाजत्वादिरादिपदार्थः । भाष्यानुवादपूर्वं शेषमाह– कं घातयति हन्ति वेत्येवं भावं न करोतीत्यर्थ इति ।। ‘कम्’ इत्याक्षेपे । ‘एनमयं घातयति एनमयं हन्तीति भावं न करोति’ इति फलितार्थः ।। श्लोकतात्पर्यं निष्कृष्य दर्र्शयति– जीवस्येत्यादिना ।। प्राग-प्रकृतस्य कथमनुवादः? इत्यत आह– दोषयोगरहितमित्यनेनेति ।। आभिमानिकम् अभिमानकृतम् ।।
वाक्यार्थप्रदीपः
अनेकार्र्थत्वादिति ।। कुर्र्द–खुर्र्द–क्राडायामेवेत्येवकारमूलकम् ।
‘क्रियावाचित्वमाख्यातुं एकैकोऽर्थः प्रदृश्यते ।
प्रयोगतोऽनुगन्तव्या अनेकार्था हि धातवः’(वोपदेवः)
इत्युक्तेरदर्शनवद्दोषयोगोऽपि णशधात्वर्थ एवेति भावः ।।
भावरत्नकोशः
पुनरिति ।। ‘अनाशिनः’ इत्यविनाशित्वस्य ‘नित्यस्योक्ताः’ इति नित्यत्वस्य ‘न त्वेवाहम्’ इत्यादिना अजत्वस्य ‘अव्ययस्यास्य’ इत्यव्ययत्वस्य चोक्तत्वादिह पुनस्तद्वचनं न प्रयोजनवदित्यर्थः । ‘अतः’ इति भाष्यस्यार्थः– उक्तैरिति ।। अनादिभावत्वनित्यबिम्ब-कत्वादिरूपैः प्रमाणैरित्यर्थः । ‘एवम्’ इति भाष्यपदार्थः अविनाशित्वादिरूपमिति ।। ‘कथं कं घातयति हन्ति वा’ इति भाष्यतात्पर्यमाह– घातयति हन्ति वेत्येवं भावं करोतीत्यर्थ इति ।। कथं करोतीति भाष्येणान्वयः । न करोतीति पाठे त्वयमर्थः । ननु गीतायां यः अविनाशित्वादि रूपम् आत्मानं वेद स वेदिता पुरुषः कथं घातयति हन्ति वा? न कथं घातयति हन्ति वा, न कथञ्चित् कमपि वेति ज्ञानिन एव स्वातन्त्र्याक्षेपप्रतीत्या अज्ञानिनः स्वातन्त्र्यमस्तीति विज्ञायते । न चैतद् युक्तम् । ज्ञान्यज्ञानिसाधारणजीवमात्रे स्वातन्त्र्येण कर्तृत्वादिनिषेधस्य प्रकृतत्वेन प्रकरणविरोधादित्यतो भाष्यभावमाह– एवं भावं न करोतीति ।। जीवस्वातन्त्र्या-नित्यत्वादिभावनां न करोति । तद्विषये भ्रान्तिमान्न भवतीत्यर्थः इति ।। ननु स्वातन्त्र्यादि-भावनां न करोतीत्यत्र ‘वेदाविनाशिनम्’ इत्यस्य तात्पर्यमिति व्याख्यानान्नित्यत्वाद्युक्त्या पुनरुक्त्यभावेऽपि ‘उभौ तौ न विजानीतः’ इत्युक्त्या अस्त्येव सा, उभयत्र तथा ज्ञान-निषेधप्रतीतेरित्याशङ्क्य तद्वाक्यतात्पर्यं वदन्नेतद्वाक्यतात्पर्यमाह– जीवस्येति ।। इत्युक्तम् ।। ‘य एनम्’ इति श्लोकेन । इत्युच्यत इत्यनन्तरं तात्पर्यमिति शेष इत्याहुः ।।
नैमित्तिकश्चासौ नाशश्चेत्यादिरूपेण विग्राह्यत्वान्नैमित्तिकः स्वाभाविक इति विच्छिद्य व्याख्याति– नैमित्तिक इत्यादि ।। ‘बिम्बनाशादि’ इत्यत्र आदिशब्देनोपाधिनाशतत्सन्निधि-नाशौ गृह्येते । ‘य एनम्’ इति यच्छब्दश्रवणादनुवादो ज्ञायते । अनुवादश्चोक्तस्यैव । न च दोषयोगराहित्यं प्रागुक्तम् । येनाविनाशिनमिति तदनुवाद इत्यत आह– दोषयोगेति ।। मात्रास्पर्शा अभिमानसहिता एव दुःखादिप्रदा इति व्याख्यातत्वादुक्तम्– आभिमानिक-मेवेति ।। स्वगतम् अनागन्तुकम् ।।
अनुवाद इति ।। न चाव्ययत्वस्येतः पूर्वमात्मन्यनुक्तेः कथं तस्यानुवाद इति वाच्यम् । स्वाभाविकनैमित्तिकनाशनिषेधस्योक्तत्वेन नाशसामान्याभावरूपस्याव्ययत्वस्याप्युक्तिलाभेनानु-वादोपपत्तेः । ‘नत्वेवाहम्’ इत्यादावुक्तरूपाव्ययत्वस्योक्तत्वाद् युक्तोऽनुवाद इत्यप्याहुः । शब्दार्थयोः अविनाशिशब्दार्थस्य नित्यशब्दार्थस्य च । तेन, शब्दश्चार्थश्चेति विग्रहे अविनाशि-शब्दनित्यशब्दयोर्द्वित्वात् तदर्थानां चातुर्विध्याद् द्विवचनानुपपत्तिरिति दूषणमलग्नकम् । शब्दयोः शब्दत्वेनार्थयोरर्थत्वेनैक्यं विवक्षित्वा द्विवचनं प्रायुङ्क्तेति केचित् । विनाशिशब्देन दोषयोगी न प्रत्येतुं युक्तः । नश्यतेरदर्शनार्थत्वेन दोषोपस्थापनाशक्तेरित्यत आह– अनेकेति ।। नश्यतेरदर्शनमिवेह दोषयोगोऽप्यर्थो ग्राह्य इत्यर्थः ।। २१ ।।
गीताक्षरार्थस्तु– जीवस्यानित्यत्वादिकं मन्यमानो न जानातीत्युक्तम् । इदानीं ज्ञानी नैवं मन्यत इत्युच्यते वेदाविनाशिनमिति ।। यः पुमान् एनम् अन्वादेशे एनादेशः । प्रकृतं जीवम् अविनाशिनं बिम्बनाशादिनिमित्तकनाशरहितं नित्यं कालकृतनाशहीनं, यद्वा ‘मात्रास्पर्शाः’ इत्यत्रोक्ताभिमानादिदोषयोगरहितं नित्यं सदाभाविनमित्यर्थः । अजम् उत्पत्तिवर्जितम्, अव्ययं स्वरूपविकारशून्यम् उक्तैः प्रमाणैः वेद जानाति । स पुरुषः कं पुरुषं कथं घातयति कथं कं वा हन्ति? घातयतीति हन्तीत्येवं भावं करोतीत्यर्थ इति ।। २१ ।।
भावदीपिका
अविनाशित्त्वादिनाऽऽत्मानं यो वेद स कं कथं घातयति । न कथमपीत्यन्यथाप्रतीतिं वारयितुमाह– एवं भावमिति ।। अविनाशित्त्वादिनैनं यो वेद स पुरुषोऽयमन्येन कमेनं घातयति स्वयं कं हन्तीत्येवं भावं कथं कुय•त् न करोति जीवानित्यत्त्वास्वातन्त्र्यविषये भ्रान्त्यभावादित्यर्थः । असंगतमेतत् किमर्थमुच्यते, ‘य एनम्’ इति पुनरुक्तं चेत्यत आह– जीवस्येति ।। इत्युक्तं य एनम् इति श्लोकेन ।। इत्युच्यत इति ।। तथा च न तेनास्य पुनरुक्तिरिति भावः । दोषयोगरहितमिति व्याख्यानमयुक्तम् । अत्राविनाशिनं वेदेत्यादिना पूर्वोक्तस्यैवानुवादः क्रियते । तत्र दोषयोगराहित्यस्य पूर्वमनुक्तत्त्वेनानुवादायोगादित्यत आह– दोषयोगरहितमित्यनेनेत्यादिना ।। इत्यनेन एतदर्थकेनाविनाशिनमिति पदेनेत्यर्थः ।। इतीति ।। तथा चाभिमानपरित्यागः कार्य इति यदुक्तं तस्याभमिानादिदोषयोगरहितत्त्वस्य पूर्वमुक्तस्यानु-वादः क्रियत इत्यर्थः । ननु नष्टशब्दात् दोषयुक्तत्वप्रतीतिः कथम् । ‘णश अदर्शने’ इति धातोः कर्मणि क्तप्रत्यये निष्पन्नस्य नष्टशब्दस्यादृष्ट इत्यर्थकत्वात् । दोषस्य णशधात्वर्थत्वाभावादित्यत आह– अनेकार्थत्वादिति ।। नष्टशब्दस्य दुष्टशब्दसमानार्थकत्वादित्याशयः । ‘क्रियावाचित्वा-माख्यातुमेकैकोऽर्थः प्रदर्श्यते । प्रयोगतोऽनुगन्तव्या अनेकार्था हि धातवः’ इति वचनाददर्शन-वत् दोषयोगोऽपि णशधात्वर्थ इति भावः ।। २१ ।।
भावप्रकाशः
ननु गीतायां वेदाविनाशिनमित्यादिना विनाशित्वादिविशेषदर्शनवन्तमनूद्य कथं स पुरुष इत्यनेन तस्यैव हननकर्तृत्वाद्यभाव उक्तः । न चासौ युक्तः । जीवमात्रे स्वातन्त्र्येण कर्तृत्वादि-निषेधस्य प्रकृतत्वेन प्रकरणविरोधात् । अविनाशित्वादिज्ञानस्य स्वातन्त्र्येण कर्तृत्वाद्यभावे हेतुत्वाभावेन यो वेद स कथं हन्तीत्याद्ययोगाच्चेत्यतोऽभिप्रायमाह– एवं भावमिति ।। जीवस्वातन्त्र्यानित्यत्वादि भावनां न करोतीत्यर्थः । भ्रान्तो न भवतीति यावत् ।।
नन्वेवं स्वातन्त्र्यादिभावनां न करोतीति व्याख्यानान्नित्यत्वाद्युक्त्या पुनरुक्तिर्माभूत् । तथाप्युभौ तौ न विजानीत इत्यनेन स्यादेव । उभयत्र तथा ज्ञाननिषेधप्रतीतेरित्याशङ्क्य तत्तात्पर्यमनुवदन्नेतत्तात्पर्यमाह– जीवस्येति ।। तथा चोभयत्र पूर्वोक्तविशेषणभेदान्निषेध्यभेदाच्च न पुनरुक्तिरिति भावः । ननु यच्छब्दश्रवणाद्वेदाविनाशिनमित्यर्थोऽनुवादः । तथा च दोषयोग-रहितत्वस्य प्रागनुक्तत्वात् कथमविनाशिनमित्यनेन तदनुवाद इत्यत आह– दोषयोगेति ।। अनुवाद इति ।। न चैवमप्यनुक्तानुवाददोष एव । अव्ययत्वस्य प्रागनुत्तेरिति वाच्यम् । नाश-सामान्याभावरूपस्य तस्य नत्वेवाहमित्यादावेवोक्तत्वादित्याशयात् ।। २१ ।।