इति ते ज्ञानमाख्यातं गुह्याद् गुह्यतरं मया । विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ।। ६३ ।।

इति ते ज्ञानमाख्यातं गुह्याद् गुह्यतरं मया ।

विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ।। ६३ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु  एवं भगवता तत्त्वमुपदिशता उक्तानुवादपूर्वकं साभिप्रायम् अर्जुन आक्षिप्यते– इतीति ।। ‘ते’ इति श्रवणाद् ‘भारत’ इति लभ्यते । गुह्यात् गोप्यात् गुह्यतरम् अतिशयेन गोप्यं रहस्यं ते त्वां प्रति इति प्रागुक्तप्रकारेण ज्ञानं ज्ञातव्यं तत्त्वम् आख्यातम् । एतदशेषेण विमृश्य पर्यालोच्य यथेच्छसि तथा कुरु ।। ६३ ।।