न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते । त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ।। १० ।।

न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।

त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ।। १० ।।

भावरत्नकोशः

गीताक्षरार्थस्तु सात्त्विकत्यागी पुनर्निरूप्यते– न द्वेष्टीति ।। अकुशलं तात्कालिकमानसदुःखप्रदं कर्म न द्वेष्टि कुशले जन्मान्तरकृते पुण्यफले नानुषज्यते अनुषङ्गः प्रीतिः, तद्वान् न भवति त्यागी कृतं कर्म भगवति त्यक्तुम् सन्न्यसितुं शीलमस्येति तथोक्तः । स्वकृतकर्मणो विष्णावर्पणशील इत्यर्थः । सत्त्वसमाविष्टः सत्त्वगुणेन संव्याप्तः मेधावी मेधाशब्दाद् विनिरयं प्रशंसायाम्, सम्यक् विष्णुतत्त्वविषयकमेधाशाली, अत एव छिन्नसंशयः परापरतत्त्वविषये विगतसन्देहश्च यः स सात्त्विकः । ‘त्यागी’ इति प्रकृतमनुसन्धीयते ।।१०।।