अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक् चेष्टा दैवं चैवात्र पञ्चमम् ।। १४ ।।
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधाश्च पृथक् चेष्टा दैवं चैवात्र पञ्चमम् ।। १४ ।।
भावरत्नकोशः
गीताक्षरार्थस्तु अधिष्ठानमिति ।। अधिष्ठानं देहभूम्यादि कर्ता सर्वस्वतन्त्रकर्ता विष्णुः पृथग्विधं नानाप्रकारं करणम् इन्द्रियस्रुवादि विविधाः नानाप्रकाराः पृथक्चेष्टाः परस्परं भिन्ना हस्तादिक्रियाः । सावान्तरव्यापारं हि कारणं कारकमुच्यते । तत्तदधिष्ठानादिपदैः देहाद्यर्थकैः व्यापारिणो निर्दिश्यन्ते । चेष्टाशब्देन क्रियावाचिना तु अवान्तरव्यापारः । कारकाश्रिताभिः देहावान्तरक्रियाभिः प्रधानक्रियाजननं प्रसिद्धमिति भावेन भाष्ये हस्तादिक्रियाभिर्हि होमादिकर्माणि जायन्त इत्युपपादितम् । अत्र कर्मनिष्पत्तौ दैवम् अदृष्टं पञ्चमं पञ्चानां पूरणम् । तथाचशब्दाः परस्परसमुच्चये, एवशब्दस्तु ‘एवं पञ्चैव कर्मकारणानि, न पुनर्जीवोऽपि कारणकोटिनिविष्टः’ इत्यर्थः सन् जीवे क्रियाकर्तृत्वाभिमानत्यागं द्योतयति ।। १४ ।।