ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ।। २७ ।।

ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च ।

शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ।। २७ ।।

।। ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ।। १४ ।।

भाष्यम्

ब्रह्मणः मायायाः ।। २७ ।।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये चतुर्दशोऽध्यायः ।।

भावप्रदीपिका

ब्रह्मणो हि प्रतिष्ठाऽहम् इत्यत्र ब्रह्मशब्दार्थमाह– ब्रह्मण इति ।। २७ ।।

।। इति श्रीपद्मनाभतीर्थभट्टारकविरचितश्रीभगवद्गीताभाष्यभावप्रदीपिकायां चतुर्दशोऽध्यायः ।।

प्रमेयदीपिका

‘ब्रह्मणो हि’ इत्येतत् ‘परब्रह्मणो हि’ इति व्याचक्षते । तदसत् । ‘प्रतिष्ठाऽहम्’ इति वचनात् । उपचारोऽसाविति चेन्न । मुख्ये सम्भवति तदुपादानायोगादिति भावेनाऽह– ब्रह्मण इति ।। मायेति प्रकृता महालक्ष्मीः ।।२७।।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीताभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां चतुर्दशोऽध्यायः ।।

भावदीपः

।। प्रकृता महालक्ष्मीरिति ।। मम योनिर्महद्ब्रह्म इति प्रकृता मूलरूपभूतेत्यर्थः ।।

।। इति श्रीमद्गीताभाष्यटीकाभावदीपे राघवेन्द्रयतिकृते चतुर्दशोऽध्यायः ।। १४ ।।

भावरत्नकोशः

।। इति वचनादिति ।। न हि स्वात्मैव स्वस्य प्रतिष्ठापक इति युज्यत इति भावः । ननु ‘ब्रह्मणः’ इत्यस्य ‘परब्रह्मणः’ इत्यर्थकत्वेऽपि न प्रतिष्ठाप-कत्वोक्तिविरोधः । विशिष्टस्याहंपदार्थस्य प्रतिष्ठापकतया तत्संवलिते चिति तदुपचारोऽस्तु इति शङ्कते– उपचार इति ।। प्रतिष्ठाशब्दस्य गौणी वृत्तिरित्यर्थः । मुख्य इति ।। मुख्यं प्रतिष्ठापकत्वमेव प्रतिष्ठाशब्दार्थ इत्यभ्युपगम्य ‘ब्रह्मणः’ इत्यस्यार्थान्तरसम्भवे उपचरितार्थो-पादानायोगादित्यर्थः । ननु ‘मम योनिर्महद् ब्रह्म’ इत्यत्र ‘प्रकृतिः ब्रह्मशब्दार्थः’ इति भाषितम् । अत्र पुनः ‘माया ब्रह्मशब्दार्थः’ इति भाष्यते, तत्कथम् इत्यत आह– मायेतीति ।। ‘मायायाः’ इति भाष्ये मायाप्रातिपदिकार्थः ‘मम योनिर्महद् ब्रह्म’ इति महाब्रह्मशब्देन प्रकृता महालक्ष्मीरेव, तस्याः मायायाः प्रकृतश्च महालक्ष्म्या इत्यर्थ इति न विसंवाद इति भावः ।।

गीताक्षरार्थस्तु ननु ‘मां चाव्यभिचारेण’ इत्यनन्यया भक्त्या मदुपासने मदपरोक्षज्ञान-प्रसादद्वारा मत्प्राप्तिलक्षणमुक्तिर्भवतीति ‘त्वत्प्राप्तिरेव मुक्तिः’ इत्युक्तम् । तदयुक्तमिव त्वदन्यमहालक्ष्म्यादिदेवतान्तरोपासनादिसाध्यतत्प्राप्तेरपि मुक्तित्वसम्भवात् ‘श्रियं वसाना अमृतत्वमायन्’, ‘ज्ञात्वा शिवं शान्तिमत्यन्तमेति’ इत्यादिश्रवणात् । त्वत्प्राप्तेः सुखदुःखहानि-रूपत्वाभावेन अपुरुषार्थत्वाच्च, इत्याशङ्क्य महालक्ष्म्यादिदेवतानाम् अहमेवाधारः, मोक्षहेतु-भक्त्युपासनादिसद्धर्माणाम् अनुष्ठापयिताऽपि अहमेव पुरुषार्थ इत्यभिसन्धायोच्यते– ब्रह्मण इति ।। ब्रह्मणः महालक्ष्म्याः अव्ययस्य व्ययादिदोषहीनस्य अमृतस्य ब्रह्मादिमुक्तवर्गस्य शाश्वतस्य अक्षयफलकस्य धर्मस्य निष्कामस्य एकान्तिकस्य दुःखासम्भिन्नस्य सुखस्य च अहमेव प्रतिष्ठा प्रतिष्ठापकः । अयं चार्थः श्रुतिस्मृतीतिहासादिसर्वप्रमाणप्रसिद्ध इति द्योतनाय हिशब्द इति ।। २७ ।।

।। इति श्रमिदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीमद्भगवद्गीताभाष्यस्य टीकायाः टिप्पण्यां भावरत्नकोशसमाख्यायां सुरीन्द्रश्रीपादशिष्यसुमतीन्द्रतीर्थविरचितायां चतुर्दशोऽध्यायः समाप्तः ।।

भावदीपिका

।। इति वचनादिति ।। नहि स्वयं स्वस्य प्रतिष्ठापक इति भावः । ‘ब्रह्मणो हि’ इत्यस्य ‘परब्रह्मणः’ इत्येवार्थः । नच प्रतिष्ठापकत्वोक्तिविरोधः । विशिष्टचिन्मात्रसत्त्वेन तस्योपचरितत्वाद् इत्याशङ्कते– उपचारोऽसाविति ।। मुख्य इति ।। मुख्यं प्रतिष्ठापकत्वमङ्गीकृत्य ‘ब्रह्मणः’ इत्यस्यार्थान्तरे सम्भवति सति उपचरितार्थो-पादानायोगादित्यर्थः । मायाशब्दार्थकथनव्याजेन अध्यायान्ते माङ्गलिकं पदं निबध्नाति– प्रकृता महालक्ष्मीरिति ।। महद्ब्रह्मशब्देन प्रकृतेत्यर्थः । महद्ब्रह्मपदेन पूर्वं प्रकृता महालक्ष्मीरत्र मायाशब्दवाच्येत्यर्थः ।। २७ ।।

इति यदुपतिवरगीताभाष्यटीकासुयुक्ता

शयमतिललिताभिर्गीर्भिरावेदयित्री ।

सुललितविवृतिर्या वृष्णिराट्छात्रचीर्णा

चतुरितदशमोऽस्यामन्तमध्याय आप ।।

।। इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचितायां श्रीमद्गीताभाष्यटीकाविवृतौ भावदीपिकाख्यायां चतुर्दशोऽध्यायः ।।

भावप्रकाशः

 मायाशब्दस्यानेकार्थत्वेऽपि प्रकृते महालक्ष्मीपरत्वमेव प्रकरणादिति भावेनोक्तं– प्रकृतेति ।। २७ ।।

।। इति श्रीमत्तिर्मलाचार्यसूरिसूनुकृष्णविरचिते प्रमेयदीपिकाप्रकाशे चतुर्दशोऽध्यायः ।।