तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ।। ७ ।।
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ।। ७ ।।
भावरत्नकोशः
गीताक्षरार्थस्तु– तेषां मय्यावेशितचेतसां समाहितमानसानाम् अहं मृत्युरूपसंसारसागरात् न चिरात् शीघ्रम् उद्धर्ता भवामि । अत्र ‘अनन्येनैव योगेन’ इत्यादिना ‘विनाऽव्यक्तोपासनं भवत्येव मदुपासकानां मोक्षः’ इति, ‘उपासते’ इत्येवोक्त्या ‘अतिशयोपासनाद्यभावः’ इति, ‘न चिरात्’ इत्यनेन ‘अव्यक्तोपासनद्वारके मार्गेऽपि योऽव्यक्ता-परोक्षे प्रयासस्तावता प्रयासेन यदि मामुपास्ते ऊनेन वा तदा मदापरोक्ष्यमेव भवति’ इति, ‘तेषामहं समुद्धर्ता भवामि’ इत्यनेन ‘इन्द्रियसंयमाद्यूनभावे अत्युपासकस्यापि देवी नातिप्रसादमेति । अहं तु तानि साधनानि भक्तिमतः स्वयमेवाप्रयत्नेन ददामि’ इति च प्रतीयत इति ‘न भगवदुपासकानाम् अव्यक्तोपासकानामिव क्लेशभूमा’ इत्यव्यक्तोपासकेभ्यो भगवदुपासका एवोत्तमा इति विभावितं भवतीति भाष्यटीकयोः स्फुटम् ।। ७ ।।