ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ।। २० ।।
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ।। २० ।।
।। ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः ।। १२ ।।
भाष्यम् पिण्डीकृत्योपसंहरति– ये तु धर्म्यामृतमिति ।। धर्मो विष्णुः, तद्विषयं धर्म्यम्, अमृतं मृत्यादिसंसारनाशकं चेति धर्म्यामृतम् । श्रत् आस्तिक्यम् । ‘श्रन्नामाऽस्तिक्यमुच्यते’ इत्यभिधानम् । तद्धधानाः श्रद्दधानाः
।। २० ।।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये द्वादशोऽध्यायः ।।
भावप्रदीपिका
(प.टी.)अन्त्यश्लोकमवतार्य व्याचष्टे– पिण्डीकृत्येति । साधनम् इति शेषः ।।
।। इति श्रीपद्मनाभतीर्थभट्टारकविरचितश्रीमद्भगवद्गीताभाष्यभावप्रदीपिकायां द्वादशोऽध्यायः ।।
प्रमेयदीपिका
‘ये तु’ इत्युक्तमेव किमर्थमुच्यते? इत्यत आह– पिण्डीकृत्येति ।। धर्म्यामृतम् इत्येतदप्रतीतार्थं व्याख्यातुं धर्मशब्दं तावद्व्याख्याति– धर्म इति ।। तद्विषयं तदुपासनाङ्गत्वात् । धर्मादनपेतं धर्म्यं, धर्मश्च विष्णुः । नादृष्टम् । प्रवृत्तस्यासम्भवात् । निवृत्तस्यैतत्साधनत्वात् । इदानीम् अमृतशब्दं व्याकुर्वन् धर्म्यामृतमिति कर्मधारयोऽयमित्याह– धर्म्यमिति ।। न मृतम् अमृतम् । नञ् विरुद्धार्थे । मृतशब्दश्चोपलक्षक इत्यर्थः । श्रद्दधानाः इत्येतद् व्युत्पादयति– श्रदिति ।। ‘श्रत्शब्दस्योपसङ्ख्यानम्’ इत्युपसर्गत्वेनोपसङ्ख्यायमानस्यापि अस्य सत्त्व-वाचित्वम् अविरुद्धम् उपसर्गत्वस्य कार्यविशेषार्थत्वात् ।। २० ।।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीताभाष्यस्य टीकायां
जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां द्वादशोऽध्यायः समाप्तः ।। १२ ।।
भावबोधः
।। प्रवृत्तस्यासम्भवादिति ।। प्रवृत्तस्य द्वेषादिवर्जनविरोधित्वेन तदनपेतत्वासम्भवादिति भावः । निवृत्तस्येति ।। ‘कर्मणा शुद्धसत्त्वस्य वैराग्यं जायते हृदि’ इति निवृत्तकर्मणो द्वेषादिवर्जनसाधनत्वसिद्धेरित्यर्थः । तथाच द्वेषादिवर्जनस्य तदर्थरूपतदन-पेतत्वासम्भवादिति भावः । सत्त्ववाचित्वमिति ।। द्रव्यवाचित्वमित्यर्थः । किमर्थं तर्ह्युप-सर्जनसंज्ञेत्यत आह उपसर्गत्वस्येति ।। प्राग्धातोरिति पूर्वनिपातः । आतश्चोपसर्ग इत्यत्राङ्प्रत्ययरूपकार्यविशेषार्थत्वादित्यर्थः ।। २० ।।
।। इति श्रीरघूत्तमतीर्थप्रणीता भावबोधाभिधा टिप्पणी द्वादशोऽध्यायः ।।
भावदीपः
ननु ज्ञानमेव भगवद्विषयकं संसारनाशकम् । नतु ‘ये तु सर्वाणि’ इत्यादिना प्रागुक्तं भगवति सर्वकर्मसमर्पणादिकम् । तत्कथमुच्यते इदं सर्वकर्मसन्न्यसनादिकं धर्मविषयममृतं चेति । अत आह तदुपासनाङ्गत्वादिति ।। यो प्रभावश्च’ इति वक्तुमित्यादि भाष्यदिशेति भावः ।। (भावादि प्रकृत्योर्गतिशून्यत्वे परिणामोन्मुखत्वादिरूपप्रवृत्तिस्तु सम्भव-तीति भावः।।) प्रवृत्तस्येति ।। काम्यकर्मणो भगवदर्पणादेरसम्भवाद् अमृतहेतुत्वाभावाच्चेत्यर्थः।। निवृत्तस्येति ।। निष्कामकर्मणो हर्षामर्षादिसाधनत्वेन तत्साध्यानामेव प्रागुक्ततया तेषामेव अत्रेदंपदेन ग्राह्यत्वादिति भावः ।। आदिपदतात्पर्यमाह –अमृतशब्दश्चेति ।। ‘सुखदुःख’ इत्यादिबन्धस्योपलक्षक इत्यर्थः ।। इत्युपसर्गत्वेनेति ।। वार्तिके उपसर्गत्वेन सङ्गृह्यमाणस्यापि आस्तिक्यरूपवस्तुवाचित्वमर्थः । उपसर्गत्वोक्तेः ‘प्राग्धातोः’ इति सूत्रेण विहितप्राक्प्रयोगादि-रूपकार्यविशेषमात्रार्थत्वेन उपसर्गवदसत्ववाचित्वाभावाद् व्यर्थं न भवतीति सत्वावाचित्व-मविरुद्धमित्यर्थः इति ।।
।। श्रीमत्सुुधीन्द्रतीर्थपूज्यपादशिष्यश्रीराघवेन्द्रयतिविरचिते
श्रीमद्गीताभाष्यटीकाभावदीपे द्वादशोऽध्यायः ।। १२ ।।
वाक्यार्थप्रदीपः
‘उपसर्गाः क्रियायोगे’ इत्यस्मिन् सूत्रे ‘श्रच्छब्दस्योप-सङ्ख्यानम्’ इति वार्तिककृता उपसर्गत्वेन श्रच्छब्दस्योपसङ्ख्यातत्वेन तस्योपसर्गत्वात् कथं श्रत् आस्तिक्यमिति द्रव्यार्थत्वेन व्याख्यातमित्यत आह– श्नच्छब्दस्येति ।। कार्यविशेषार्थ-त्वादिति ।। यथा अजुपसर्गात् इति अजन्तादुपसर्गात् पास्यदा इत्यस्य त इत्यादेशविधानेन ‘मरुद्भिर्दतो मरुत्’ इत्यत्र दा इत्यस्योपसर्गत्वाभावेन त इत्यादेशप्राप्त्या द्रव्यवाचकस्यापि महच्छब्दस्य अच्उपसग•त् त इति तत्वसिद्ध्यर्थमेव उपसर्गाः क्रियायोगे इत्यत्रोपसङ्ख्यानम् , तथा श्नच्छब्दस्यानुपसर्गत्वे श्रद्धा इत्यत्र आतश्चोपसर्ग इति आङ्विध्यसम्भवेन आङ्विध्यर्थ-मेवोपसङ्ख्यानात् नासत्वार्थकत्वम् । अत एव मरुन्नयतीत्यादौ त्वं शब्दद्वयेपि उपसर्गे घोः किः इति निपातसंज्ञापने इति पदमञ्जर्यामुक्तमिति भावः ।।
।। इति श्रीमत्पदवाक्यप्रमाणविदामग्रेसराणां श्रीमत्सकलविद्वच्चक्रचूडामणीनां श्रीमद्विद्याधीशतीर्थतीर्थपूज्यचरणानां निजशिष्यकेशवेन विरचिते व्याकरणस्पृष्टप्रमेयदीपिकावाक्यार्थप्रदीपे द्वादशोध्यायः ।।
भावरत्नकोशः
ये त्वित्युक्तमेव ‘ये तु सर्वाणि कर्माणि’ इत्युक्तमेव । ‘पिण्डीकृत्य’ इति भाष्ये ‘साधनजातम्’ इति शेषः । द्वेषाभावादेर्विष्णुविषयत्वाभावात् कथं ‘तद्विषयम्’ इति विष्णुविषयत्वभाषणम् इत्यतः तदुपपादयति– तदुपासाङ्गत्वादिति ।। ‘तद्विषयं धर्म्यम्’ इति कथम् । विषयत्वार्थे यत्प्रत्ययाननुशासनाद्, इत्याशङ्क्य ‘धर्मपथ्यर्थ-न्यायादनपेते’ इति शास्त्रेण ‘धर्मादनपेतम््’ इत्यर्थे यतोऽनुशिष्टत्वाद् इहानपेतत्वं धर्मानुकूलत्वं धर्मोपासनाङ्गत्वम्, तदेव धर्मविषयत्वं विवक्षितमिति भावेन भाष्ये तथोक्तमित्यभिप्रेत्य ‘धर्मो विष्णुः’ इत्येतच्च समर्थयते– धर्मादनपेतमित्यादिना ।। अदृष्टं च भवत् प्रवृत्तं निवृत्तं वेति विकल्पं हृदि निधाय आद्य आह– प्रवृत्तस्येति ।। असम्भवात् प्रवृत्तधर्मस्य द्वेषादिवर्जन-विरोधितया, करुणाशालित्वस्य ‘पशोरिवाकरुणः स्वर्गकामः’ इत्यादौ अभावावेदनेन च तदनपेतत्वासम्भवादित्यर्थः । अन्त्ये आह– निवृत्तस्येति ।। तस्य द्वेषाभावादिसाधनत्वेन तत्साध्यत्वायोगादिति भावः । कर्मधारयः ‘धर्म्यं च तदमृतं च’ इति कर्मधारयः । अयं ‘धम्य•मृतम्’ इति समासः । ‘विशेषणं विशेष्येण बहुलम्’ इत्यत्र बहुलग्रहणाद् विशेषणयोरपि समासो युक्त इति हृदयम् । उपलक्षकः मृत्यादिरूपसंसारस्य ।
श्रच्छब्दस्येति ।। उपसङ्ख्यायमानस्य ‘श्रच्छब्दस्योपसङ्ख्यानम्’ इति वार्तिककारेण सङ्ग्राह्यतयोक्तस्य सत्त्ववाचित्वम् आस्तिक्यरूपद्रव्यवाचित्वम् । ‘लिङ्गसङ्ख्यान्वितं द्रव्यम्’ इति क्लीबत्वैकत्वाभ्यां युक्तस्य श्रच्छब्दितास्तिक्यस्य पारिभाषिकद्रव्यत्वं नायुक्तमिति भावः । तर्हि ‘चादयोऽसत्त्वे’, प्रादयः ‘उपसर्गाः क्रियायोगे’ इत्यद्रव्यार्थानामेव प्रादीनामुपसर्गसञ्ज्ञोक्तिः किमर्था इत्यत आह– उपसर्गत्वस्येति ।। श्रच्छब्दस्योपसर्गत्वोपसङ्ख्यानस्य ‘आतश्चोपसर्गे’ इति अप्रत्ययविधानेन ‘श्रद्धा’ इति रूपसिद्ध्यर्थमेव, नतु तस्य द्रव्यत्ववाचित्वविघातार्थत्व-मपीति युक्तमेव ‘तद्दधानाः श्रद्दधानाः’ इति भाषणमिति भावः । ‘श्रदन्तरोरुपसर्गवद्वृत्तिर्वक्तव्या’ इत्यादौ उपसर्गत्ववचनस्य, ‘ते प्राग्धातोः’ इति धातोः पूर्वप्रयोज्यत्वरूपकार्यविशेषार्थत्वादित्यर्थ इत्यपि आहुः ।। २० ।।
गीताक्षरार्थस्तु– ‘ये तु सर्वाणि कर्माणि’ इत्यदिनोक्तं साधनजातं बुद्ध्यारोहाय पिण्डीकृत्योपसंह्रियते– ये तु धर्म्यामृतमिति ।। धारकत्वाद् धर्मः विष्णुः, तस्मादनपेतं धर्म्यं धर्मोपासनाङ्गत्वाद् उपचारेण भागवतधर्मजातमपि धर्म्यं व्यपदिश्यते । न मृतम् अमृतम् , नञ् विरुद्धार्थे, मृतशब्दश्च मृत्यादिसंसाररूपोपलक्षकः । मृत्यादिसंसारनाशकम्, धर्म्यं च तदमृतं च धर्म्यामृतम् । इदं ‘ये तु सर्वाणि कर्माणि’ इत्यत्रोक्तम् । यथोक्तम् ‘ओष्टा’ इत्यादिना प्रपञ्चितम् पर्युपासते सम्यगापादयन्ति, श्रद्धधानाः श्रच्छब्देन ‘अत्रोक्तमस्ति’, ‘अनेन प्रयोजन-मस्ति’ इति बुद्धिरूपमास्तिक्यं गृह्यते । तद्दधानाः, मत्परमाः अहमेव परमः सर्वोत्तमो येषां ते तथा मम सर्वोत्तमत्वज्ञानसम्पन्नाः भक्ताः स्वात्मात्मीयसमस्तवस्तुसमर्पणपूर्वकः अन्तराय-सहस्रेणाप्यप्रतिबद्धो भगवति निरन्तरप्रेमप्रवाहो भक्तिः, तद्युक्ताः ते अतीव अत्यर्थमेव मे मम प्रिया इति ।। २० ।।
श्रीमदानन्दतीर्थार्यहृदयाम्भोजवासिने ।
कृष्णाय कृष्णारमणप्रियायास्तु नमो नमः ।।
नमस्ते नमस्ते नमस्ते दयालो नमस्ते नमस्ते नमः श्रीनृसिंह ।
नमस्ते नमस्ते नमस्ते मुरारे नमस्ते नमस्ते नमो व्यास राम ।।
आर्यस्वान्ताम्भोजहंसायमानौ संसाराम्भोराशिनावौ समानौ ।
भूयास्तां तौ भूतये भूरिमानौ वेदव्यासानन्दतीर्थाभिधानौ ।।
कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ।।
श्रीमद्गीताभाष्यटीकाद्वादशाध्यायसेवया ।
तोषमायान्तु विबुधा गुणग्रहणभूषणाः ।।
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ।।
।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्सुरीन्द्रतीर्थपूज्यपादशिष्यसुमतीन्द्रतीथविरचितायां प्रमेयदीपिकाव्याख्यायां भावरत्नकोशसमाख्यायां द्वादशोऽध्यायः ।।
भावदीपिका
।। ये त्वित्युक्तमेवेति ।। ‘ये तु सर्वाणि’ इत्युक्तमेव ‘ये तु धम्यर्•मृतम्’ इत्यनेनोच्यत इति पुनरुक्तिरिति भावः । ननु ‘ओष्टा’ इत्याद्युक्तद्वेषादिवर्जनादेः भगवद्विषयत्वासम्भवात् कथं ‘तद्विषयम्’ इत्युक्तम् इत्यत आह– तदुपासनाङ्गत्वादिति ।। अनपेतमिति ।। ‘धर्मपथ्यर्थन्यायाद् अनपेते’ इत्यनेन धर्मादिशब्दाद् अनपेतार्थे यत्प्रत्यय-विधानात्, पथ्यम् अर्थ्यम् न्याय्यमिति युक्तम् । तथा च धर्मादनपेतं तदुपासनसाधनं धर्म्यमित्यर्थः । धर्मश्चेति ।। ‘धारकत्वाद्धर्मः’ इति व्युत्पत्त्येत्यर्थः । अदृष्टं कुतो धर्मो न भवति इति चेत्, तत्र वक्तव्यम् धर्मशब्देन प्रवृत्तं धर्मं गृहीत्वा तदनपेतत्वमुच्यते, उत निवृत्तधर्मादन-पेतत्वम् । नाद्य इत्याह– प्रवृत्तस्येति ।। प्रवृत्तधर्मस्य द्वेषादिवर्जनविरोधित्वेन तदनपेतत्वा-सम्भवादिति भावः । न द्वितीय इत्याह– निवृत्तस्येति ।। एतदिति । द्वेषादिवर्जनेत्यर्थः । ‘कर्मणा शुद्धसत्त्वस्य वैराग्यं जायते हृदि’ इति वचनेन निवृत्तकर्मण एव द्वेषादिवर्जनसाधनत्वेन रागद्वेषादिवर्जनस्य निवृत्तधर्मसाधनत्वाख्यतदनपेतत्वासम्भवादिति भावः । धर्मशब्दस्य विष्णु-परत्वे तु द्वेषादिवर्जनस्य विष्णूपासनसाधनत्वेन तत्साधनत्वरूपतदनपेतत्वं युक्तमिति ध्येयम् । कर्मधारय इति ।। ‘धर्म्यं च तद् अमृतं च’ इति कर्मधारय इत्यर्थः । विरुद्धार्थ इति ।। ‘मृतिविरोधि अमृतम्’ इति विरुद्धार्थ इत्यर्थः । ननु तर्हि मृतिविरोधि मृतिनाशकम् इत्येवार्थप्राप्त्या मृत्यादिसंसारेत्यर्थः कथं लभ्यत इत्यत आह– मृतशब्दश्चेति ।। मृतशब्दो जननाद्युपलक्षक इत्यभिप्रेत्य ‘मृत्यादिसंसार’ इत्युक्तमिति भावः ।
ननु श्रच्छब्दस्यास्तिक्यरूपद्रव्यवाचित्वमयुक्तम् । तथा हि ‘प्रादयः’इत्यत्र ‘श्रच्छब्द-स्योपसङ्ख्यानम्’ इत्युक्तं काशिकायाम् । ‘श्रदन्तरोरुपसर्गवत् वृत्तिर्वक्तव्या’ इति वार्तिके च । एवं ‘श्रत्’ इत्यस्योक्तत्वाद् ‘उपसर्गाः क्रियायोगे’ इति क्रियायोग एवोपसर्गत्वस्योक्तत्वात्, प्रकृते च ‘दधानाः’ इति क्रियायोगविवक्षायां तदर्थविशेषकत्वमेव ‘श्रत्’ इत्यस्य प्राप्तम्, न आस्तिक्यरूपद्रव्यवाचित्वम् । ‘धातावेव विलीनोऽर्थ उपसर्गेण काश्यते’ इत्युक्तत्वात् । यदि च क्रियायोगो न विवक्षितः, तर्हि कारकक्रियावाचित्वमेव वक्तव्यम्, न आस्तिक्यरूपद्रव्य-मात्रार्थत्वम् । अतः कथमेेतत् इत्यत आह– श्रच्छब्दस्येत्यादिना ।। सत्त्ववाचित्वं द्रव्यवाचित्वम् । ‘चादयोऽसत्त्वे’ इत्यत्र असत्त्वपदस्य ‘अद्रव्यार्थाः’ इति व्याख्यातत्वात् । नन्वविरुद्धत्वे किमर्थमुपसर्गसंज्ञा कृता इत्यत आह– उपसर्गत्वस्येति ।। कार्यविशेषार्थ-त्वादिति ।। ‘ते प्राग्धातोः’ इत्युक्तत्वेन धातोः प्राक् प्रयोगरूपकार्यविशेषार्थत्वादित्यर्थः । ‘श्रद्भवानि अन्तर्भवाणि’ इत्यादौ श्रदादिशब्दस्य धातोः प्राक् प्रयोगस्तावदस्ति । धातोः प्राक्प्रयोगश्च ‘ते प्राग्धातोः’ इति सूत्रेणोपसर्गाणामेवोक्तः, इत्यतः श्रदादेर्द्रव्यवाचिनोऽपि प्राक्प्रयोगोपपत्त्यर्थमेवोपसर्गसंज्ञा कृतेत्याशयः । अत एव वार्तिककृता ‘उपसर्गवत्’ इति प्रसिद्धोपसर्गवैलक्षण्यमुक्तमिति द्रष्टव्यम् ।। २० ।।
इति यदुपतिगीताभाष्यटीकासुयुक्ता शयमतिललिताभिर्गीर्भिरावेदयित्री ।
सुललितविवृतिर्या वृष्णिराट्छात्रचीर्णा समगमदयमत्र द्वादशाध्याय आन्तम् ।।
।। इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचितायं
श्रीमद्भगवद्गीताभाष्यविवृतौ भावप्रदीपिकाख्यायां द्वादशोध्यायः ।।
भावप्रकाशः
नन्वद्वेष्टेत्याद्युक्तम् । द्वेषाभावादेः निर्विषयत्वात् कथं विष्णु-विषयत्वमित्यत आह– तदुपासनाङ्गत्वादिति ।। व्यापारानुबन्धिविषयतेति भावः । धर्माद-नपेतत्वं नाम धर्मानुकूलत्वम् । तत्र धर्मो यद्यदृष्टं तदा प्रवृत्तादृष्टानुकूलत्वं वा निवृत्तादृष्टानु-कूलत्वं वा । आद्ये आह– प्रवृत्तस्येति ।। तस्य द्वेषाभावादिविरोधित्वादिति भावः । अन्त्य आह– निवृत्तस्येति ।। तस्य द्वेषाभावादिहेतुत्वेन तज्जत्वायोगादिति भावः ।
नन्वस्त्वसत्वार्थानामेव प्रादीनामुपसर्गत्वम् । ‘चादयोऽसत्वे’ ‘प्रादयः’ इति । असत्वार्थानां प्रादीनां निपातत्वमुक्त्वा तेषामेव ‘उपसर्गाः क्रियायोगे’ इत्युपसर्गत्वोक्तेः ‘अनुर्लक्षणे’ इत्यादौ द्रव्यार्थानामुपसर्गत्वदर्शनाच्च । अतः श्रच्छब्दस्योपसर्गत्वेनोपसङ्ख्यानादुपसर्गत्वेऽसत्ववाचित्वमेव वाच्यम् । तत्कथमास्तिक्यार्थत्वम् । तस्य क्लीबत्वैकत्वाभ्यां द्रव्यत्वात् । ‘लिङ्गसङ्ख्यान्वितं द्रव्यम्’ इत्युक्तेरित्यत आह– श्रच्छब्दस्येति ।। सत्त्ववाचित्वं द्रव्यवाचित्वम् । किमर्थं तर्र्ह्युपसर्गत्वमित्यत आह– उपसर्गत्वस्येति ।। कार्यविशेषेति ।। आङ्प्रत्ययाख्यकार्येत्यर्थः । तथा चाङि कर्तव्ये एव श्रच्छब्दस्योपसर्गत्वं नान्यदा । श्रच्छब्दस्याङि्वधौ ‘उपसङ्ख्यानम्’ इत्यत्राङि्वधावित्युक्तेरिति भावः ।। २० ।।
।। इति उमर्जीकृष्णाचार्यविरचितः श्रीप्रमेयदीपिकाभावप्रकाशे द्वादशोऽध्यायः ।।