सर्वकर्माणि मनसा सन्न्यस्याऽस्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ।। १३ ।।
सर्वकर्माणि मनसा सन्न्यस्याऽस्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ।। १३ ।।
भाष्यम्
पुनः सन्न्यासशब्दार्थं स्पष्टयति– सर्वकर्माणीति ।। मनसा इति विशेषणादभिमानत्यागः ।। १३ ।।
भावप्रदीपिका
ननु ‘संन्यास’शब्देन कर्मत्याग एवोच्यते, ‘कर्मसंन्यास’ इत्यादिप्रयोगादित्येतत् (?) कथं तस्य योगेन सहावस्थानमित्याशङ्कां परिहर्तुमुत्तरश्लोक-मवतारयति– पुनरिति । ‘कर्मसंन्यास’ इति प्रयोगेऽपि मनसैव कर्मत्यागाभिप्रायो न सर्वात्मनेत्यर्थः ।। १३ ।।
भावप्रकाशिका
ननु ‘तयोस्तु कर्मसंन्यासात्’ इत्युक्तत्वान्न द्वन्द्वत्याग एव संन्यासः, किन्तु कर्मत्याग एव । कर्मत्यागिनस्तु कथं कर्मयोगादि ? इत्याशङ्का-परिहारत्वेनोत्तरं श्लोकमवतारयति– पुनरिति । भवतु नाम कर्मत्याग एव संन्यासः । स च ‘मनसा’ इति विशेषणादभिमानत्याग एव । अतः सन्न्यासिनः कर्मयोगो न विरुद्ध्यते । देहेन्द्रियैः क्रियमाणेऽपि कर्मणि ‘नाहं करोमि’ इत्यभिमानत्यागसम्भवादिति भावः ।। १३ ।।
प्रमेयदीपिका
‘सर्वकर्माणि’ इत्यस्य ‘स्वरूपेण कर्मत्यागोऽर्थः’ इति प्रतीतिनिवारणाय प्रतिपाद्यमाह – पुनरिति ।। प्राक् (५.८) कर्तृत्वाभिमानत्याग उक्तः । इदानीं तु कारयितृत्वाभिमानत्यागोऽपीति स्पष्टनम् । ‘स्वरूपेण कर्मत्याग उच्यते’ इत्ये-तन्निराचष्टे – मनसेति ।। अन्यथा तद्व्यर्थं स्यादिति भावः ।। १३ ।।
भावरत्नकोशः
।। प्रागिति ।। ‘नैव किञ्चित्करोमि’ इत्यत्रेत्यर्थः । न ‘कारयन्’ इति गीतत्वादाह– इदानीं कारयितृत्वेति ।। अनेन पूर्वं ‘नैव किञ्चित्करोमि’ इति कर्तृत्वाभिमानत्यागेन संन्यासोऽभिहितः । इदानीं तु कारयितृत्वाभिमानत्यागेनापि स एव स्पष्टीक्रियत इति भाष्यार्थ उक्तो भवति । अन्यथा स्वरूपेण कर्मत्याग एवोच्यत इति पक्षे । तद्वैयर्थ्यम् ‘मनसा’ इति विशेषणवैयर्थ्यम् । यत्त्वत्र सङ्करभाष्ये ‘मनसा विवेकबुद्ध्या कर्मादौ अकर्मत्वदर्शनेन’ इति, तत्तु कर्मणां मिथ्यात्वस्य सर्वानुभवविरुद्धत्वादयुक्तम् । अतो मनसैव कर्मन्यासो नाम तत्र स्वातन्त्र्याभिमानत्याग एव, न तु स्वरूपत्यागोऽत्र व्याख्यातव्य इति भाष्यार्थ इति भावः ।। १३ ।।
गीताक्षरार्थस्तु - प्राक् ‘नैव किञ्चित्करोमि’ इत्यत्र कर्तृत्वाभिमानत्यागेन संन्यासो विवृतः । इदानीं कारयितृत्वाभिमानत्यागेनापि स एव स्पष्टीक्रियते– सर्वकर्माणीति । मनसा सर्वकर्माणि संन्यस्य भगवानेव स्वपूजात्मकानि मम शुभार्थं मम कर्तृत्वशक्तिं दत्त्वा कारयतीत्यनुसन्धाय वशी जितेन्द्रियः । स्वातन्त्र्येण नैव कुर्वन्, न कारयंश्च नवद्वारे– नव द्वाराणि चक्षुर्युग्मम्, श्रोत्रयुगलम्, घ्राणयुगम्, मुखमेकमिति सप्त वै शीर्षण्याः प्राणाः प्रसिद्धाः, अर्वाग्द्वे मूत्रपुरीषविसर्गार्थे द्वारे पायूपस्थशब्दिते इति नवविधद्वारयुक्ते– पुर इव पुरे आत्मस्वामिके देहे सुखं यथा तथा भगव-त्प्रेरितानीन्द्रियाणि स्वस्वविषयेषु व्याप्रियन्त इति परिज्ञानात् सुखमनुभवन्नास्ते । तत्कृतलेपहीनो वर्तत इति ।।
भावदीपिका
।। प्रागिति ।। ‘नैव किञ्चित्’ इत्यत्रेत्यर्थः ।। अन्यथेति ।। क्रियमाणे कर्मणि कारयितृत्वाद्यभिमानत्यागम् अनङ्गीकृत्य, स्वरूपेण कर्मत्यागाङ्गीकारे ।। १३ ।।
भावप्रकाशः
।। प्रागिति ।। नैव किञ्चित्करोमीत्यत्रापीत्यर्थः ।। कारयि-तृत्वेति ।। न कारयन्नित्युक्तेरिति भावः ।। १३ ।।