एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि।। ३९ ।।

एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।

बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि।। ३९ ।।

भाष्यम्

साङ्ख्यं ज्ञानम् । ‘शुद्धात्मतत्त्वविज्ञानं साङ्ख्यमित्यभिधीयते’ इति भगव-द्वचनाद् व्यासस्मृतौ ।। योगः उपायः ।। ‘दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयःप्रसिद्धये’ (भाग.४.१८.३) इति प्रयोगात् भागवते । नेतरौ साङ्ख्ययोगावुपादेयत्वेन विवक्षितौ कुत्रचित् सामस्त्येन ।

भावप्रदीपिका

साङ्ख्य’ ‘योग’ शब्दयोरर्थान्तरं किं न स्यात्? इत्यत आह– नेतराविति ।।

भावप्रकाशिका

साङ्ख्य’ ‘योग’शब्दयोरन्यत्र प्रसिद्धेः, तत्परिहाराय सम्यगर्थं सप्रमाणकमाह– साङ्ख्य-मिति ।। ननु ‘साङ्ख्य’ ‘योग’शब्दयोरन्यत्र प्रयोगमात्रेण कथमत्र प्रसिद्धार्थपरित्यागः? इत्यत आह– नेतराविति ।। अत्र साङ्ख्ययोगयोरुपादेयत्वमवगम्यते । ‘बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि’ इति ।। न चेतरौ साङ्ख्ययोगावुपादेयत्वेन विवक्षितौ कुत्रचित् । अपि तु हेयत्वेनैव तत्र तत्र ।

अक्षपादकणादौ च साङ्ख्ययोगौ चे हैतुकाः’ इति ।।

सर्ववेदविरुद्धं च कपिलोऽन्यो जगाद ह’ इति च ।

ज्ञानं कर्म च’ इत्यारभ्य ‘प्रोच्यते गुणसङ्ख्याने’ इत्युक्तवा ‘तज्ज्ञानं विद्धि, सात्विकम्’ इति साङ्ख्योक्तत्रैगुण्यकथनात् कथं तस्यानुपादेयत्वमित्याशङ्कोक्तम्– सामस्त्येनेति ।। यद्यपि तदुक्तावविरुद्धार्थैकदेशप्रत्यभिज्ञास्मिन् शास्त्रे । तथाऽपि न तदुपादेयत्वेन विवक्षितं गुणसङ्ख्यान- शब्देन किन्तु परमसाङ्ख्यशास्त्रम् । इतरसाङ्ख्ययोगयोः निरीश्वरत्वाद्विहितहिंसाया अप्यनर्थ-हेतुत्वाङ्गीकाराच्च । अस्य त्वीश्वरप्रतिपादकत्वात् ‘कर्मबन्धं प्रहास्यसि’ इति मोक्षार्थत्वेन युद्धविधानाच्चेति भावः ।

प्रमेयदीपिका

पूर्वप्रकरणोपसंहारपूर्वकं तत्सङ्गतत्वेनोत्तरप्रकरणारम्भप्रतिज्ञार्थं ‘एषा तेऽभिहिता’ इत्युक्तम् । तत्र साङ्ख्ययोगशब्दौ कापिलपातञ्जलवचनाविति प्रतीतिनिरासाय व्याचष्टे– साङ्ख्य- मिति ।। प्रतीतार्थावेव किं न स्याताम्? इत्यत आह– नेतराविति ।। ‘इतरौ’ शास्त्रलक्षणौ । ‘कुत्रचित्’ आगमे । एतौ तूपादेयौ । ‘बुद्ध्या युक्तः’ (२.३९) इत्यादि वचनात्। ‘अतो न तावत्र विवक्षितौ’ इति वाक्यशेषः । प्रकृतिपुरुषविवेकादेः तदुक्तस्योपादेयत्वात् कथमेतत्? इत्यत उक्तम्– सामस्त्येनेति ।। एकदेशस्योपादेयतया तदुपादेयत्वे सौगतादेरपि तत्प्रसङ्ग इति भावः ।।

भावदीपः

साङ्ख्यशब्दितजीवतत्त्वोक्तिः– एतौ त्विति ।। ज्ञानोपायशब्दितौ साङ्ख्ययोगौ ‘बुद्ध्या युक्तो यया’ इति वाक्यशेषे कर्मबन्धहानिहेतुत्वोक्तेरुपादेयावित्यर्थः ।।

भावरत्नकोशः

भाष्यस्य सङ्गतत्वाय गीतामवतारयति– पूर्वेति ।। तत्र गीतायाम् । प्रतीतिनिरासाय सप्रमाणकमिति शेषः । भागवते चतुर्थस्कन्धे पृथुं प्रति भूमिवचने प्रयोगाद् योगशब्देनोपाय उच्यत इति भाष्यार्थः । ‘तानातिष्ठति यः सम्यगुपायान् पूर्वदर्शितान्’ इत्यनन्तरोपरितनार्धे तानिति पूर्वप्रकृतयोगान् परामृश्य तत्रोपायशब्दप्रयोगादिति भाष्यकृतो हृदयम् । शास्त्रलक्षणौ कापिलपातञ्जलशास्त्रलक्षणौ । ‘कुत्रचिदागमः’ इत्यनन्तरम् अपि तु हेयत्वेनैव ‘अक्षपादकणादौ च साङ्ख्ययोगौ च हेतुकाः’ इति सर्ववेदविरुद्धं च कपिलोऽन्यो जगाद ह’ इति तत्र तत्रेति प्राचीनटीकायां भाष्यं व्याख्यातम् । एतौ तु गीतोक्तौ साङ्ख्ययोगशब्दितौ ज्ञानतदुपायौ तु । तुशब्दसूचितवैशेष्ये युक्तिमाह– बुद्ध्या युक्त इत्यादीति ।। यया साङ्ख्ययोगविषयिण्या बुद्ध्या युक्तः कर्मबन्धं प्रहास्यसीति कर्मबन्धशब्दितसंसारनिवृत्तिसाधनत्वप्रतिपादनात् तावेवोपादेया-विति भावः । सम्प्रतिपन्नभागदृष्टान्तेन तदितरभागस्याप्यस्तूपादेयत्वानुमानमित्यतो भाष्यभाव-माह– एकदेशस्येति ।। सौगतादेः बुद्धजिनादिशास्त्रस्य प्रत्यक्षानुमानप्रामाण्यस्याकाश-स्थायित्वस्य ‘अहिंसा परमो धर्मः’ इत्यादेस्तदुक्तस्योपादेयत्वादिति भावः ।।

भावप्रकाशः

बुद्ध्यायुक्त इत्यादीति ।। तत्र साङ्ख्ययोगबोधकवाक्यस्य कर्मबन्धनिवर्तकत्वप्रतिपाद-नादिति भावः ।।

Load More