मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् । यत् त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ।। १ ।।
।। अथ श्रीमद्भगवद्गीतायाम् एकादशोऽध्यायः ।।
भाष्यम्
यथा श्रुते ध्यानं शक्यं तथा स्वरूपस्थितिरनेनाध्यायेनोच्यते ।।
भावप्रदीपिका
अध्यायप्रतिपाद्यमाह– यथेति ।।
प्रमेयदीपिका
एतदध्यायप्रतिपाद्यमर्थमाह– यथेति ।। दशमान्ते ‘विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ’ इति व्याप्तोपासनं सङ्क्षेपेणोक्तम् । नच सङ्क्षेपेणोक्तस्य ध्यानं शक्यम्, बुद्धावनारोहात् । अतो यथाभूते व्याप्तरूपे विस्तरेण श्रुते ध्यानं शक्यं भवति । तथाभूतस्वरूपस्थितिरर्जुनाय प्रदर्शितस्यानुवादेन अनेन एकादशाध्यायेनोच्यते । स्वरूपग्रहणेन विश्वरूपस्य मायादिना तदैव निर्माय विसृष्टत्वं निवारयति ।।
भावदीपः
।। तथाभूतस्वरूपस्थितिरिति ।। अस्य ‘उच्यते’ इत्यने-नान्वयः ।। ‘अनुवादेन’ इति अध्यायविशेषणम् ।।
भावरत्नकोशः
‘एतदध्याय’ इत्यतः पूर्वं ‘पूर्वसङ्गतिं सूचयन्’ इति शेषः । तामेव भाष्यसूचितां सङ्गतिं व्यक्तीकर्तुं तदर्थमाह– दशमान्त इति ।। ध्यानम् उपासनम् । ‘यथा’ इत्यस्यार्थः– यथाभूत इति ।। ‘श्रुते’ इत्यस्य विशेष्यपूरणम््– व्याप्तरूप इति ।। ध्यानं शक्यं भवतीति ।। तथा च पूर्वाध्यायोक्तध्यानसमर्थनार्थत्वाद् अस्याध्यायस्य सिध्यति तेन सङ्गतिरिति भावः । ‘पश्य मे पार्थ रूपाणि’ इत्यादिना विश्वरूपस्य प्रदर्शनमेव कृतम्, न तु वचनम् । तत्कथं ‘तथाभूतस्वरूपस्थितिरुच्यते’ इत्युक्तिः? इत्यत उक्तम्– अर्जुनाय प्रदर्शितस्यानुवादेनेति ।। एतच्च अध्यायविशेषणम् । उच्यते ‘अनेकबाहूदरवक्त्रनेत्रम्’ इत्यादिना । ‘मायादिना’ इत्यत्रादिशब्देन न्यायदीपिकोक्तं प्रधानं ग्राह्यम् ।। १३ ।।
भावदीपिका
प्रणम्य यादवाचार्यगुरूणां पदपङ्कजे ।
कुर्म एकादशाध्यायटीकां भावप्रदीपिकाम् ।।
।। अनुवादेनेति ।। ‘अनुवादरूपेण’ इत्यर्थः ।। १ ।।
भावप्रकाशः
।। व्याप्तोपासनं सङ्क्षेपेणोक्तमिति ।। ‘अथवा बहुनैतेन किं ज्ञातेन’ इत्यन्यज्ञानाक्षेपार्थाद्विष्टभ्याहमित्युक्तं व्याप्तत्वं ज्ञातव्यमित्यर्थलाभादिति भावः । यद्वोपासनार्थव्याप्तं रूपं संक्षेपेणोक्तमित्यर्थः । ‘पश्य मे पार्थ रूपाणि’ इत्यादिना व्याप्तरूप-स्थितेरनुक्तत्वादाह– अर्जुनाय प्रदर्शितस्यानुवादेनेति ।। अनेकबाहूदरवक्त्त्रनेत्रमित्यादिनेति शेषः । ‘मायादिना’ इत्यादिपदादविद्याग्रहणम् ।। १ ।।
अर्जुन उवाच–
मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् ।
यत् त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ।। १ ।।
भावरत्नकोशः
गीताक्षरार्थस्तु दशमान्ते ‘विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’ इति व्याप्तोपासनं संक्षेपेणोेक्तम् । न च संक्षेपेणोक्तस्य ध्यानं कर्तुं शक्यम्, बुद्धावनारोहात् । अतो यथाभूते व्याप्तरूपे विस्तरेण श्रुते ध्यानं शक्यं भवति तथाभूत-स्वरूपस्थितिः अर्जुनाय प्रदर्शितस्यानुवादेन अनेनैकादशाध्यायेन विस्तरेणोच्यत इति, पूर्वाध्यायानन्तर्यम् अर्थभेदश्चेति द्रष्टव्यम् ।
विश्वरूपं दिदृक्षुरर्जुनः प्रागुक्तमभिनन्दन् आहेत्युच्यते अर्जुन उवाच, मदनुग्रहायेत्यादि चतुःश्लोक्या । हे कमलपत्राक्ष, मदनुग्रहाय माम् अनुग्रहीतुं परमं निरतिशयं गुह्यं गोप्यम् अध्यात्मसंज्ञितम् आत्मानं भगवन्तं जीवं वाऽधिकृत्य स्थितमध्यात्मम्, तन्नामकम् आत्मज्ञानतदुपायकर्मयोग, समाधियोगप्रतिपादकम् ‘अशोच्यानन्वशोचस्त्वम्’ इत्यादि आषष्ठ-समाप्ति यद् वचः त्वयोक्तं तेनायं बन्धुस्नेहादिरूपमोहो मम विगतः मत्तोऽपगतः ।। १ ।।