प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ।। १४ ।।

प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः ।

मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ।। १४ ।।

भावरत्नकोशः

प्रशान्तात्मा स्वतो विषयेष्वप्रवृत्तमनाः, विगतभीः प्रमाद-आलस्यादियोगान्तरायभयहीनः ब्रह्मचारिव्रते ब्रह्मचर्ये इन्द्रियोपरतिगुरुशुश्रूषादिरूपे स्थितः तदनुष्ठाता मनःसंयम्य प्रत्याहृत्य मच्चित्तो मयि चित्तं यस्य सः, मद्ध्यानवान् मत्परः ममैकान्त्येन सर्वोत्तमत्वं जानन् युक्तः समाधिसम्पन्न आसीत ।। १४ ।।