सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।। ६६ ।।
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।। ६६ ।।
भाष्यम्
धर्मत्यागः फलत्यागः । कथमन्यथा युद्धविधिः? ‘यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते’ (१८.११) इति चोक्तम् ।। ६६ ।।
भावप्रदीपिका
सर्वधर्मान् इत्येतदन्यथाप्रतीतिनिरासाय व्याचष्टे– धर्मेति । धर्मत्याग एवार्थः किं न स्यात् इत्यत आह– कथमिति । धर्मत्यागपदेन कथं फलत्याग उच्यते इत्यत आह– यस्त्वति ।। ६६ ।।
प्रमेयदीपिका
‘सर्वधर्मान् परित्यज्य’ इति वर्णाश्रमविहितानामपि सर्वधर्माणां परित्यागो विधीयते’ इत्यन्यथाप्रतीतिनिरासार्थमाह– धर्मेति ।। प्रतीत एवार्थः किं न स्यात्? इत्यत आह– कथमिति ।। ‘अस्मिन् शास्त्रे क्रियते’ इति शेषः । अशाब्दोऽयमर्थ इति चेन्न, धर्मशब्दस्य स्वकार्यफलोपलक्षणत्वात् । एवमेव भगवता व्याख्यातत्वाच्च इत्याह– यस्त्विति ।। ६६ ।।
भावदीपिका
।। अशाब्द इति ।। फलत्यागरूपोऽर्थो धर्मत्यागशब्दलभ्यो न भवतीत्यर्थः । व्याख्यातत्वादिति ।। ‘गीतायामेव’ इति शेषः ।। ६६ ।।
भावरत्नकोशः
फलत्यागः’ इति भाष्यपदस्य ‘धर्मफलाभिसन्धित्यागः’ इत्यर्थः । उपलक्षणत्वादिति ।। अन्यथा ‘गङ्गायां घोषः’ इत्यादौ तीरादिबोधः शाब्दो न स्यादिति भावः । एवमेव धर्मत्यागो नाम धर्मफलत्याग एव, इत्येव शास्त्रे शास्त्रीयप्रसिद्धिरेव ग्राह्या, अन्तरङ्गत्त्वादिति भावः ।।
गीताक्षरार्थस्तु- ‘मन्मना भव’ इत्युक्तभगवन्मनस्त्वं विस्पष्टं व्याख्यातुं तत्रेत्थम्भाव उच्यते– सर्वधर्मानिति ।। धर्मशब्देन धर्मकार्यफलानि लक्ष्यन्ते ‘यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ’ इति धर्मपरित्यागशब्दस्य तत्फलपरित्यागार्थकत्वस्य भगवतैवाभिहितत्वात् सर्वधर्मफलान्यभिसन्धाय मामेकं शरणं व्रज गच्छ प्राप्नुहि । यदुक्तं ‘मन्मना भव’ इति तद्व्याख्यायते ‘मामेकं शरणं व्रज’ इति निगमात्मना । ननु बहुतरपापसद्भावात्’ ‘मामेवैष्यसि सत्यम्’ इति कथमुक्तम् । कथञ्चित् त्वां प्राप्तस्यापि नाकं प्राप्तस्येव कर्मशेषात् पुनः पाते संसारपरिक्लेशोऽवर्जनीयः इति शङ्काद्वयं परिहर्तुमुच्यते– अहमिति ।। अहं त्वां त्वां त्वदुप-लक्षितसानुवर्गं सर्वपापेभ्यः अनादिजन्मकृरतसर्वपापेभ्यः मोक्षयिष्यामि मोचयिष्यामि विनिर्मुक्तं करिष्यामि । ततो मा शुचः शोकं मा कार्षीरिति कृतशङ्काद्वयशङ्कुरुद्धृतः ।। ६६ ।।