रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः । हर्षशोकान्वितः कर्ता राजसः परिकार्तितः ।। २७ ।।

रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।

हर्षशोकान्वितः कर्ता राजसः परिकार्तितः ।। २७ ।।

भावरत्नकोशः

रागीति ।। गीताक्षरार्थस्तु रागी विषयाभिलाषवान् कीर्त्यादिकामो वा कर्मफलप्रेप्सुः उद्दिष्टकर्मफलप्राप्तीच्छावान् लुब्धः कर्मापेक्षितद्रव्यव्यये लोभयुक्तः, परद्रव्येषु सञ्जाततृष्णः, तीर्थादौ च द्रव्यापरित्यागीति आहुः । हिंसात्मकः परपीडा-स्वभावः अशुचिः बाह्याभ्यन्तरशौचरहितः हर्षशोकान्वितः इष्टप्राप्तौ हर्षः, अनिष्टप्राप्तौ इष्टवियोगे च शोकः, ताभ्यां समन्वितो यः कर्ता कर्मणः स राजसः परिकार्तितः अभियुक्तैः ।। २७ ।।