न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ।। २२ ।।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।

नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ।। २२ ।।

गीताक्षरार्थस्तु– इतः परा पञ्चश्लोक्यतिरोहितार्थत्वाद् भाष्यकृता न व्याख्याता । तत्रापि ‘सक्ताः कर्मणि’ इति ‘न बुद्धिभेदम्’ इति च द्विश्लोकी ‘सक्ताः कर्मणीत्यादिनोक्तत्वात्’ इति टीकायां सङ्क्षेपेेणोक्तार्था च । ततश्चैवमक्षरार्थः– किञ्च प्रयोजनमात्ररहितेन केवललोकानुग्रह-स्वभावेन लोकसङ्ग्रहाय मयाऽपि कर्म क्रियते, मोक्षे आनन्दाभिवृद्धिप्रयोजनवता ज्ञानिना तत् कर्तव्यमिति किं वक्तव्यम् ? इत्याशयेन ‘न मे पार्थ’ इत्यादि त्रिश्लोकी प्रवृत्ता । अनवाप्तं प्रागप्राप्तम् । तथाऽपि कर्मणि वर्ते कर्म करोमि ।। २२ ।।