मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ।। ३ ।।
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ।। ३ ।।
भाष्यम्
दौर्लभ्यं ज्ञानस्याऽह– मनुष्याणामिति ।। ३ ।।
भावप्रदीपिका
स्वेन वक्ष्यमाणे श्रद्धातिशयाय दौर्लभ्यं वक्त्युत्तरश्लोके-नेत्याह– दौर्लभ्यमिति ।। ३ ।।
भावप्रकाशिका
अनन्तमहिमत्वादेव भगवतस्तद्विषयज्ञानं तत्प्रसादं विनाऽतिदुर्लभमिति भावेनोत्तरं श्लोकमवतारयति– दौर्लभ्यमिति ।। ३ ।।
प्रमेयदीपिका
ननु ज्ञानादिवचनं प्रतिज्ञाय यत्किञ्चित् कथमुच्यते? इत्यत आह– दौर्लभ्यमिति ।। ‘श्रोतुरादरजननार्थम्’ इति शेषः । ज्ञानस्य दौर्लभ्ये, विज्ञानस्य तत् सुतराम् ।। ३ ।।
भावबोधः
ननु ‘ज्ञानविज्ञानयो’रिति कुतो नोक्तमित्यत आह– ज्ञानस्य दौर्लभ्य इति ।। प्राधान्येनेति । सविज्ञानमिति विज्ञानस्य साहित्योक्त्या प्राधान्यप्रतीतेरिति भावः ।। ३ ।।
भावरत्नकोशः
इदं ‘मनुष्याणां सहस्रेषु’ इत्यादिकम् । प्रकृतासङ्गतत्वादिति भावः । ज्ञानदौर्लभ्यवर्णनस्यापि प्रकृतसङ्गतये शेषमाह– श्रोतुरिति ।। उभयोरपि वक्ष्यमाणत्वात् ‘ज्ञानविज्ञानयोर्दौर्लभ्यमाह’ इति किन्न भाषितमित्यत आह– ज्ञानस्येति ।। न्यायसिद्धत्वाद्भाष्ये तदनुक्तिरिति भावः ।। ३ ।।
गीताक्षरार्थस्तु- श्रोतुरादरार्थं ज्ञानविज्ञानयोर्दौर्लभ्यमुच्यते– मनुष्याणामिति ।। कश्चिदेव पुण्यवान् सिद्धये उक्तविधमाहात्म्यज्ञानाय यतति यतते । यततां यतमानानामपि मध्ये कश्चिदेव सिद्धिमान् भवति, सिद्धानां ज्ञानवतामपि मध्ये कश्चिदेव तत्त्वतो मां वेत्ति ।। ३ ।।
भावदीपिका
ननु ज्ञानवत् विज्ञानस्यापि दौर्लभ्यं वक्तव्यम् । ततश्च ‘ज्ञानविज्ञानयोः’ इति वक्तव्ये ‘ज्ञानस्य’ इति कथमुक्तमित्यत आह– ज्ञानस्येति ।। ३ ।।