एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ।। ६ ।।

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।

कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम्  ।। ६ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- यदुक्तम् ‘यज्ञादि कार्यमेव इति, तत्रेत्थम्भाव उच्यते– एतानीति ।। हे पार्थ एतानि यज्ञदानतपांसि कर्माणि नित्यनैमित्तिकान्यपि सङ्गम् ‘अहं कर्ता’ इति कर्तृत्वाभिमानलक्षणम्, कर्मणां फलाभिसन्धिं च त्यक्त्वा कर्तव्यानि इति मे मम निश्चितं मतमुत्तमम् ।। ६ ।।