पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । यस्यान्तस्थानि भूतानि येन सर्वमिदं ततम् ।। २२ ।।
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तस्थानि भूतानि येन सर्वमिदं ततम् ।। २२ ।।
भाष्यम्
परमसाधनमाह– पुरुष इति ।। २२ ।।
भावप्रदीपिका
यत्पूर्वं भगवत्प्राप्तौ साधनमुक्तं सदा तद्भावभावितत्वं, न तावता तत्प्राप्तिः, द्वेषिणामपि सम्भवात् । अतः परमसाधनमन्यदस्तीत्यभिप्रेत्योत्तरं श्लोक-मवतारयति– परमेति ।। २२ ।।
प्रमेयदीपिका
‘भक्त्या युक्तः’ इति भक्तेः भगवत्प्राप्तिसाधनत्वस्योक्तत्वात् पुनरुक्तमुत्तरं वाक्यमित्यत आह– परमेति ।। अन्यैः साधनैः सहोक्तत्वेन तत्साम्यशङ्कायां साधनेषु भक्तेः परमत्वमनेनाऽह । तच्च पुनर्वचनेनैव द्योत्यमिति भावः ।। २२ ।।
भावदीपः
।। अन्यैः साधनैरिति ।। ‘मनसा अचलेन भक्त्या युक्तो योगबलेन चैव’ इत्याद्युक्तेरिति भावः । अनेनेति ।। ‘परमम्’ इति श्लोकेनेत्यर्थः ।। २२ ।।
भावरत्नकोशः
।। भक्त्या युक्त इतीति । ‘भक्त्या युक्तो योगबलेन च’ इत्यत्र । अन्यैः साधनैः ‘मनसाऽचलेन’, ‘योगबलेन’, ‘चक्षुर्भ्रुवोर्मध्ये’ इत्यादिनोक्तभक्त्यति-रिक्तसाधनैः । अनेन ‘भक्त्या लभ्यस्त्वनन्यया’ इति वचनेन । भावप्रदीपिकायां तु यत् पूर्वं भगव-त्प्राप्तौ साधनमुक्तं सदा तद्भावभावितत्वम्, न तावता तत्प्राप्तिः, द्वेषिणामपि तत्सम्भवात् । अतः परमसाधनम् अन्यदस्तीत्यभिप्रेत्योत्तरं श्लोकमवतारयतीति ‘परमसाधनमाह’ इति भाष्यमवतारितम्
।। २२ ।।
गीताक्षरार्थस्तु- एतादृशी भगवत्प्राप्तिः केन साधनेन स्यात् ? इति शङ्कापनोदाय भक्ते-र्भगवत्प्राप्तिसाधनत्वं ‘भक्त्या युक्तो योगबलेन च’ इत्यत्रोक्तम् । तत्र योगादिसाधनैः सहोक्तत्वेन तत्साम्यशङ्कायाम्, साधनेषु भक्तेरेवोत्तमत्वं वक्तुम्, पुनरत्र भक्तेः साधनत्वमुच्यते पुरुष इति । अनन्यया अनन्यसाधारण्या भक्त्या तु भक्त्यैैव लभ्यः प्राप्यः । ‘परमया’ इत्यनुक्तावपि पुनः साधनोक्तिबलादेव तल्लाभ इति ज्ञातव्यम् ।। २२ ।।
भावदीपिका
।। सहोक्तत्वेनेति ।। ‘भक्त्या युक्तो योगबलेन चैव इत्यनेन’ इति शेषः । पुनर्वचनेनैवेति ।। ‘सिद्धे सत्यारम्भो नियमार्थः’ इति न्यायेनेत्यर्थः ।। २२ ।।