सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ।। ३३ ।।
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ।। ३३ ।।
भाष्यम्
एवं चेत् किमिति ते मतं नानुतिष्ठन्ति लोकाः? इत्यत आह– सदृश-मिति ।। प्रकृतिः पूर्वसंस्कारः ।। ३३ ।।
भावप्रदीपिका
ननु यदि त्वन्मतानुष्ठाने मोक्षो वैपरीत्ये नाशः, तर्हि त्वन्मतं कुतः सर्वेऽपि नानुतिष्ठन्ति? अतः प्रशंसामात्रमेतदित्याशङ्क्य, उत्तरत्वेन श्लोक-मवतार्य व्याचष्टे– एवमिति ।। ३३ ।।
भावप्रकाशिका
ननूक्तलक्षणं कर्म, ज्ञानद्वारा मुक्तिसाधकत्वादवश्यानुष्ठेय-मन्यथाऽनर्थोऽपि चेत्, किमिति सर्वो जनस्ते मतं नानुतिष्ठन्ति ? अतः स्वमतप्रशंसामात्र-मेतदिति भावेनाशङ्क्य, तत्परिहारत्वेनोत्तरं श्लोकमवतार्य व्याचष्टे– एवं चेदिति ।। पूर्वसंस्कारादेव प्रवर्तते । न तु फललोभादनर्थभयाद्वा निगृहीत इति भावः ।। ३३ ।।
प्रमेयदीपिका
‘सदृशम्’ इति श्लोकस्य सङ्गतिर्न प्रतीयते । अतस्तामाह– एवं चेदिति ।। यदि त्वन्मतानुष्ठाने मोक्षोऽन्यथा नाश इत्यर्थः । मूलप्रकृतेरेकत्वात् कथं ‘स्वस्याः’ इति प्रातिस्विकत्वमुच्यत इत्यत? आह– प्रकृतिरिति ।। तत्कार्यौ रागद्वेषा-वुपलक्ष्येते ।। ३३ ।।
भावबोधः
स्वकीयपूर्वसंस्कारस्यापि साक्षाच्चेष्टकत्वासम्भवात् ‘रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्’ इत्युत्तरग्रन्थानुरोधाच्चाह - तत्कार्याविति ।। ३३ ।।
भावदीपः
‘ये’ इत्यादि श्लोकद्वयार्थमनुवदति– यदीति ।। रागद्वेषयोरेव स्वरूपसतोः सर्वचेष्टाहेतुत्वा-दुत्तरश्लोकानुसाराच्चाह– तत्कार्यौ रागद्वेषाविति ।। ३३ ।।
भावरत्नकोशः
‘एवं चेत्’ इति भाष्यम् अनन्तरातीतश्लोकद्वयार्थानुवाद-रूपमिति दर्शयति– यदीति ।। ननु ‘प्रकृतिं स्वात्मसंश्लिष्टाम्’, ‘अजे द्वे प्रकृती दुष्टे नृषु प्रातिस्विकं स्थिते’ इति भागवततात्पर्यवचने प्रकृतेः प्रातिस्विकत्वावगमात् कथं स्वकीयत्वा-क्षेपः? इत्यत उक्तम्– मूलेति ।। दुष्टप्रकृतेः प्रातिस्विकत्वेऽपि मूलप्रकृतेरेकत्वाद् युज्यते शङ्का इति । पूर्वसंस्कारस्यापि साक्षाच्चेष्टकत्वासम्भवात् ‘रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्’ इति वक्ष्यमाणानुरोधाच्चाह– तत्कार्याविति ।। संस्कारशब्दितप्रकृतिकार्याविति लक्षणाबीज-सम्बन्धोक्तिः ।
गीताक्षरार्थस्तु– यदि त्वन्मतानुष्ठाने मोक्षोऽन्यथा नाशः, तर्हि किमिति ते मतं नानु-तिष्ठति लोक इत्यत उच्यते– सदृशमिति ।। प्रकृतेः पूर्वसंस्कारस्य तत्कार्यरागद्वेषयोरिति यावत् । सदृशम् अनुगुणं यथा तथा चेष्टते कर्म करोति । ज्ञानवानपि भगवन्मतकरणाकरणयोः इष्टानिष्ट-ज्ञानवानपि, किमु अज्ञ इत्यपिशब्दः । मनोनिग्रहे स्वभावानुगचेष्टोपरतिः स्यादित्यत उक्तम्– प्रकृतिं स्वभावमिति । भूतानि प्राणिनः । तथा च मनआदीन्द्रियनिग्रहः किं करिष्यति ? न स्वभावानुगुणव्यापारोपरतिं प्रति कारणमिति ।। ३३ ।।
भावदीपिका
।। नाश इति ।। ‘विद्धि नष्टान्’ इत्युक्तेरिति ध्येयम् । पूर्व-संस्कारस्यापि साक्षाच्चेष्टकत्वासम्भवाद् ‘रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्’ इत्युत्तरग्रन्थानुरोधाच्चाऽह– तत्कार्येति ।। गीतायाम्– ‘सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि’ इत्युक्तं तदयुक्तम् । सम्यग् मनोनिग्रहे प्रकृत्यनुगतचेष्टोपरतिः स्यादित्यत उक्तम् – ‘प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति’ इति । अत्र सर्वत्र मनोनिग्रहः निग्रहशब्दार्थ इत्यव-धेयम् । यथोक्तं तात्पर्यटीकायाम् – मनोनिग्रहे स्वभावानुगतचेष्टोपरतिः स्यादित्यत आह– स्वभावमिति ।। ‘स्वभावं यान्ति भूतानि निग्रहः किं करिष्यति’ इति तात्पर्यम् । अनेन ‘सदृशम्’ इति व्याख्यातं भवतीति ।। ३३ ।।