ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ।। १६ ।।
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ।। १६ ।।
भाष्यम्
ज्ञानमेव अज्ञाननाशकमित्याह– ज्ञानेनेति ।। प्रथमज्ञानं परोक्षम् ।। १६ ।।
भावप्रदीपिका
नन्वज्ञानेन चेज्ज्ञानमावृतं किं तर्हि तन्निवर्तकम् ? न हि प्रकाशस्य तमसाऽऽवृतत्वे तन्निवर्तकमस्तीत्याशङ्कोत्तरत्वेनोत्तरश्लोकमवतारयति– ज्ञान-मेवेति । दीपस्तमो निवारयति, प्रकाशयति चार्थम् । तद्वदपरोक्षज्ञानं द्वयं करोतीत्यर्थो न भवतीत्यभिप्रायेणाह– प्रथमेति ।
भावप्रकाशिका
ननु ज्ञानस्याज्ञानावृतत्वे किमज्ञाननाशकं स्यात् ? इत्यत आह– ज्ञानमेवेति । यथाऽऽदित्यस्तमो निवर्तयन्नेव धरामण्डलं प्रकाशयति, तथा पञ्च-पर्वात्मकमज्ञानं निवर्तयदेवापरोक्षज्ञानं ब्रह्म प्रकाशयतीति न मन्तव्यम् । किन्तु परोक्ष-तत्त्वज्ञाननिवर्तितपञ्चपर्वाज्ञानस्यैवापरोक्षज्ञानमुदेतीति भावेनाह प्रथमेति ।। १६ ।।
प्रमेयदीपिका
ननु ज्ञानस्याज्ञाननाशकत्वमर्थप्रकाशकत्वं च प्रसिद्धमेव । तत्किमर्थमुच्यते? इत्यत आह– ज्ञानमेवेति ।। ‘अज्ञानेनावृतं ज्ञानम्’ (५.१५) इत्युक्तम् । एवं तर्हि तस्याविनाश एव स्यात् । तथा च न कदाचिद् ब्रह्मप्रकाशः । विनाशकान्तराङ्गीकारे च ज्ञानार्थयोः सन्न्यासयोगयोर्वैयर्थ्यमित्याशङ्क्य ज्ञानमेवाज्ञानस्य नाशकम् । अतो नोक्तदोषः । किन्तु स्वरूपज्ञानम् अविद्यया आवृतम् । वृत्तिज्ञानं त्वविद्यां शिथिलयति ब्रह्म प्रकाशयति इत्येतदनेनाहेत्यर्थः ।।
अत्र केचित् ‘यथैक एवादित्योऽन्धकारं नाशयति भूमण्डलं च प्रकाशयति तथैकमेव ज्ञानमज्ञानं निवर्तयति परं च प्रकाशयति’ इति व्याचक्षते । तदसदिति भावेनाऽह– प्रथमेति ।। तृतीयान्तपदोक्तम् । ‘द्वितीयमपरोक्षम्’ इति शेषः । अन्यथा द्विर्ज्ञानग्रहणं व्यर्थं स्यादिति भावः ।। १६ ।।
भावरत्नकोशः
।। तत्किमर्थमुच्यत इति । मानान्तराप्राप्तबोधार्थत्वाच्छब्दस्येति भावः । अविनाश एवेति । प्रकाशस्य तमसाऽऽवृतस्य तन्निवर्तकत्वादृष्टेर्ज्ञानस्याज्ञानावृतत्वे-नाज्ञाननाशकत्वायोगादिति भावः । विनाशकान्तरेति । ‘तस्याज्ञानस्य’ इत्यनुवर्तते । वैयर्थ्य-मिति । अङ्गीक्रियमाणाज्ञानविनाशके एव प्रवृत्तिविधानौचित्येन, संन्यासे योगे च प्रवृत्ति-विधानफलमापद्येत इत्यर्थः । उक्तदोषः ‘अविनाश एव स्यात्’ इत्युक्तदोषः । नन्वेवं सति ‘ज्ञाने सत्यज्ञाननिवृत्तिः’, ‘आवरकाज्ञाननिवृत्तौ ज्ञानोदयः’ इत्यन्योन्याश्रय इति शङ्कते– किन्त्विति ।। ज्ञानं हि द्विविधम् – स्वरूपम्, मनोवृत्तिरूपं चेति । तत्र स्वरूपज्ञानमीश्वरविषयं नित्यं तदावरकाज्ञाननिवर्तकम् । मनोवृत्तिरूपं ज्ञानं प्रमाणजन्यमिति नोक्तदोषावकाश इत्याह– स्वरूपेत्यादि ।।
तदसदितीति । ‘शृणुयाद्यावदज्ञानं मतिर्यावदयुक्तता । ध्यानं च यावदीक्षा स्यात्’ ‘श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ । संशयं च पराणुद्य लभते ब्रह्मदर्शनम् ।।’ इत्यादिप्रमाणेषु अज्ञाननाशस्य श्रवणमननादिजन्यपरोक्षज्ञानकार्यत्वावेदनात् दर्शनशब्दितापरोक्षज्ञानस्य च ब्रह्म-प्रकाशत्वावगमाच्चेति भावः । परामर्शस्थल इवात्र प्रथमत्वादेरसम्मतेराह तृतीयेति । ‘ज्ञानेन’ इति यत्तृतीयान्तं पदं तत्र प्रातिपदिकार्थभूतं ज्ञानमत्र परोक्षरूपं विवक्षितमिति भाष्यार्थ इत्यर्थः । द्वितीयमिति । ‘तेषाम्’ इत्युत्तरार्धे परप्रकाशरूपत्वेनोक्तमपरोक्षज्ञानमित्यर्थः । एवं ज्ञानद्वया-नङ्गीकारे बाधकमाह– अन्यथेति ।। अनेन ‘वृत्तिज्ञानमविद्यां शिथिलयति’ इत्यत्र वृत्तिज्ञानमपि द्विविधम्, परोक्षमपरोक्षं चेति । तत्र परोक्षज्ञानम् अविद्यानाशकम् । अपरोक्षं तु परब्रह्म प्रकाशयतीति स्वाशय उद्धाटितो भवति । तथा च प्राचीनटीका ‘परोक्षतत्त्वज्ञाननिवर्तित-पञ्चपर्वाज्ञानस्यैवापरोक्षज्ञानमुदेति’ इति ।।
गीताक्षरार्थस्तु ‘अज्ञानेनावृतं ज्ञानम्’ इत्युक्तम् । एवं तर्हि तस्याविनाश एव स्यात् । तथाच न कदाचिद् ब्रह्मप्रकाशः । विनाशकान्तराङ्गीकारे च ज्ञानार्थयोः न्यासयोगयोः वैयर्थ्यमित्याशङ्क्य ज्ञानमेवाज्ञानस्य नाशकम् । अतो नोक्तदोषः । किन्तु स्वरूपज्ञानम् अविद्ययाऽऽवृतम् । वृत्तिज्ञानं तु अविद्यां शिथिलयति, ब्रह्म प्रकाशयति चेत्येतदुच्यते– ज्ञानेन त्विति । आत्मनो भगवतो ज्ञानेन परोक्षतत्त्वनिश्चयरूपेण तत् ‘मुह्यन्ति जन्तवः’ इत्युक्तमज्ञानं नाशितम् । किं ज्ञानस्यैवासौ महिमा ? नेत्युच्यते आत्मन इति । भगवत्प्रसादादित्यर्थः । तेषां नाशिताज्ञानानाम् ज्ञानम् आत्मनस्साक्षात्कारः परं तद् ब्रह्म प्रकाशयतीति ।। १६ ।।
भावदीपिका
।। अर्थप्रकाशकत्वं चेति ।। अर्थप्रकाशकत्वस्य ज्ञानलक्षण-त्वादिति भावः ।। तत्किमर्थमुच्यत इति ।। ‘अप्राप्ते शास्त्रमर्थवत्’ इति न्यायादिति भावः । तस्य आवरकाज्ञानस्य । विनाशकत्वेनाभिमतस्य ज्ञानस्यावृतत्वादिति भावः ।। विनाशकान्तरेति ।। ज्ञानव्यतिरिक्तेत्यर्थः । ज्ञानार्थयोः ज्ञानप्रयोजकयोः । यन्निवर्तकान्तरं तत्साधनस्यैवानुष्ठेयत्वादिति भावः । ज्ञानस्याज्ञाननाशकत्वप्रसिद्धावपि ‘सिद्धे सत्यारम्भो नियमार्थ’ इत्याशेनाह– ज्ञानमेवेति ।। नोक्तदोष इति ।। ‘तस्याविनाश एव स्यात्’ इत्यादिनोक्त इत्यर्थः ।
ननु ज्ञानस्यैवाज्ञाननाशकत्वाङ्गीकारे विरोधः स्यात् । ‘अज्ञानेनावृतं ज्ञानम्’ इति ज्ञानस्याज्ञानेनावृतत्वोक्तेः । ‘ज्ञानेन तु’ इत्यत्र तु तस्यैव ज्ञानस्य तन्निवर्तकत्वाभिधानादित्याशयेन शङ्कते– किन्त्विति ।। अज्ञानावृतम्, अज्ञाननिवर्तकं च ज्ञानं भिन्नमेव, अतो न विरोध इत्याशयेनोत्तरमाह– स्वरूपज्ञानमिति ।। ईश्वरस्य स्वरूपविषयकं जीवनिष्ठं भगवदपरोक्ष-ज्ञानमित्यर्थः ।। अविद्ययाऽऽवृतमिति ।। परमाच्छादिकमायया आवृतमित्यर्थः । यथोक्तं श्रुतिगीतिकातात्पर्ये–
अथान्ये प्रकृती दुष्टे नृषु प्रातिस्विकं स्थिते ।
स्वगुणाच्छादिका त्वेका परमाच्छादिकाऽपरा ।।
इत्याद्युक्त्वा कथं प्रकृतेः परमाच्छादकत्वम् ? तस्य व्याप्तत्वादित्याशङ्क्योक्तम् ।
‘न विष्णुं छादयत्येषा तज्ज्ञानं छादयेत्परम् । जीवस्यैव .................. ।।’ इत्यादि ।।
वृत्तिज्ञानं त्विति ।। श्रवणादिजन्यं मनोवृत्तिरूपं परोक्षज्ञानम् अविद्यां परमाच्छादिकां मायां शिथिलयति जीवादपसारयतीत्यर्थः । यथोक्तं तत्रैव–
‘...............परमाच्छादिकां पुनः । व्याघुट्य मोक्षपदवीं ददाति पुरुषोत्तमः ।।’ इति ।
तथा ‘प्रकृतिं द्रावय द्रावय ।’ इति च । अत एव ‘अविद्यां नाशयति’ इत्यनुक्त्वा ‘शिथिलयति’ इत्येवोक्तम् । तथा च तदनन्तरम् ईश्वररूपविषयकमपरोक्षज्ञानं मानसमुत्पद्यते । पश्चात्तदपरोक्षज्ञानं जीवाय परं ब्रह्म प्रकाशयतीति योज्यम् । तथा च ‘अत्र स्वरूपज्ञानपदेन जीवस्वरूपज्ञानग्रहणे, अविद्याशब्देन लिङ्गशरीररूपस्वगुणाच्छादकमायाग्रहणे च तृतीयान्तज्ञान-पदोक्तपरोक्षरूपवृत्तिज्ञानस्य तन्नाशकत्वोक्तेरयोगात्, अपरोक्षज्ञानस्यैव तन्नाशकत्वादित्या-द्यनुपपत्तिः’ इति कुचोद्यानवकाश इतीमं ग्रन्थं व्याचक्षते । तच्चिन्त्यम् । परमाच्छादकमायाया अपसार्यत्वेन श्रवणजन्यपरोक्षज्ञाननिवर्त्यत्वोक्त्ययोगादिति ।
वस्तुतस्तु श्रवणेनाज्ञाननिवृत्तेः प्रसिद्धत्वात् तदेवाज्ञानम् इहाविद्यापदेनाभिप्रेतम् । तथा चेश्वरस्वरूपज्ञानम् अविद्यया आवृतमस्ति । श्रवणजन्यमनोवृत्तिरूपं ज्ञानं त्वविद्याम् ईश्वरस्वरूपा-परोक्षज्ञानप्रतिबन्धकाज्ञानं नाशयति । एवं श्रवणेनाज्ञाने नष्टे मननेन च संशयविपर्ययनाशानन्तरम्, ध्यानेनेश्वरस्वरूपापरोक्षज्ञानमुत्पद्यते । तच्चापरोक्षज्ञानं सम्यक् परं ब्रह्म प्रकाशयतीत्यर्थः । यथोक्तम् ‘तन्निर्धारणार्थनियमस्तद्दृष्टेः पृथघ्यप्रतिबन्धः फलम्’ इति,
श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ ।
संशयं च पराणुद्य लभते ब्रह्मदर्शनम् ।। इति चेति ।।
अन्यथेति ।। प्रथमज्ञानपदस्य परोक्षज्ञानार्थतामनङ्गीकृत्य अपरोक्षज्ञानार्थताऽङ्गीकारे ‘येषामज्ञानं ज्ञानेनापरोक्षेण नाशितम्, तेषामादित्यवत् परं ब्रह्म प्रकाशते’ इत्येव वक्तव्यत्वेन उत्तरार्धे पुनर्ज्ञानग्रहणं व्यर्थं स्यादिति भावः ।। १६ ।।
भावप्रकाशः
।। अविनाश एव स्यादिति ।। ज्ञानस्याज्ञानावृतत्वेनाज्ञान-नाशकत्वायोगादिति भावः । नन्वेवं सत्यन्योन्याश्रयः, ज्ञाने सत्यज्ञाननिवृत्तिः आवरकाज्ञाननिवृत्तौ च ज्ञानमितीत्याशयेन पृच्छति– किन्त्विति ।। उत्तरमाह– स्वरूपज्ञानमिति ।। ईश्वरविषयं साक्षिज्ञानमित्यर्थः । साक्षिज्ञानस्य नित्यत्वेनेश्वरस्य च सन्निहितत्वेन प्रकाशप्रसक्तौ प्राप्तप्रकाश-प्रतिबन्धरूपावरणस्य स्वरूपज्ञाने सम्भवात् प्रमाणाभावादेव वृत्तिज्ञानाभावात् तत्रोक्तरूपावरणा-योगादिति भावः । तदसदिति भावेनेति ।।
‘शृृणुयाद्यावदज्ञानं मतिर्यावदयुक्तता । ध्यानं च यावदीक्षा स्यात्’
‘श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ ।
संशयं च पराणुद्य लभते ब्रह्मदर्शनम्’
इत्यादिषु अज्ञाननाशकब्रह्मप्रकाशकयोः पृथक्त्वोक्तेरिति भावः ।। १६ ।।