स तया श्रद्धया युक्तः तस्या राधनमीहते । लभते च ततः कामान् मयैव विहितान् हि तान् ।। २२ ।।

स तया श्रद्धया युक्तः तस्या राधनमीहते ।

लभते च ततः कामान् मयैव विहितान् हि तान् ।। २२ ।।

भाष्यम्

यां यां ब्रह्मादिरूपां तनुम् । उक्तं च नारदीये ‘अन्तो ब्रह्मादिभक्तानां मद्भक्तानामनन्तता’ इति । ‘मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः’ इत्यादेः परिहारसन्दर्भाच्च मोक्षधर्मेषु । ‘अवतारे महाविष्णोर्भक्तः कुत्र च मुच्यते’ इत्यादेश्च ब्रह्मवैवर्ते ।। २१,२२ ।।

भावप्रदीपिका

‘यो यो यां याम्’ इत्यत्र मत्स्यादिशङ्का न कार्येत्यभि-प्रायेणाह– यामिति । नात्र विष्णुरूपाणि विवक्षितानि । ‘अन्तवत् तु फलम्’ इत्यन्त-वत्फलकारणत्वश्रवणादित्यर्थः ।। अन्तवत्फलत्वं विष्णुभक्तानां किं न स्यात् ? इत्यत आह– उक्तं चेति । मूलरूपभक्तस्यान्तवत्त्वाभावेऽपि, अरतारभक्तस्य स्यादित्यत आह– अवतारेति । कुत्राप्यवतारे ।। २१ ।।

भावप्रकाशिका

उत्तरश्लोकत्रये ‘यां यां तनुम्’ इत्यादिसामान्योक्तेर्विष्णु-तनुभक्तस्याप्यन्तवत्फलं स्यादित्याशङ्क्य, यासां तनूनामुपासनमन्तवत्फलं तांस्तनृन् ग्रन्थान्तरानुसारेण विशिनष्टि– यां यामित्यादिना ।। कां गतिं गच्छेत् कं गम्यमाप्नुयात् । किमात्मकः किं स्वर्गादिवदनित्यसुखरूपः, उतानन्तसुखात्मक इति । आदिशब्दात् ‘देवतानां च को देवः’ इत्यादेर्ग्रहणम् । बह्वध्यायात्मकोऽयं सन्दर्भः परिहार(रूपवाक्य)-सन्दर्भो नारदनारायणसंवादादिरूपः । तत्र देवदेवं नारायणं श्वेतद्वीपादिनिवासिनं तदेकान्तभक्ताः सम्प्राप्यानन्तकालं यथासुखं विहरन्ति । नान्यभक्तानां तादृशी गतिरिति (निर्गलितोऽर्थ) अवगम्यते ।

प्रमेयदीपिका

‘रामकृष्णादिरूपां भगवत्तनुम्’ इति प्रतीतिनिरासाय आह– यां यामिति ।। कुत एतत्? ‘अन्तवत्तु फलं तेषाम्’इति तद्भक्तानामन्तवत्फलवचनात् । तस्य च ब्रह्मादिग्रहणे सम्भवाद् भगवद्ग्रहणे चासम्भवादिति भावेनाऽह– उक्तं चेति ।। ‘फलस्य’ इति शेषः । गम्यत इति गतिः । इत्यादेः प्रश्नस्य परिहाररूपवाक्यसन्दर्भाच्च । बहुत्वादनु-दाहरणमिति भावः ।। अनन्तफलत्वं मूलरूपभक्तानामस्तु । अवतारतनुभक्तानाम् अन्तव-त्फलाङ्गीकारे को विरोध इत्यत आह– अवतार इति ।। कुत्र च अवतारे ।। २१,२२ ।।

भावरत्नकोशः

।। कुत इति । ‘ब्रह्मादिरूपां तनुम्’ इति व्याख्यानं कस्मा-द्धेतोरवगम्यत इत्यर्थः । तद्भक्तानां भगवदितरदेवताभक्तानाम् । शेषः ब्रह्मादिभक्तानां फलस्य अन्तः अन्तवत्ता । मद्भक्तानां ‘फलस्य’ अनन्ततेत्युभयत्र शेष इत्यर्थः । गमेर्भावे क्तिन्प्रत्यय इत्यभ्युपगमे ‘गतिं गच्छेत्’ इत्यनन्वितम्, इत्यतः ‘कां गतिं गच्छेत् कं गम्यमाप्नुयात् ’ इति प्राचां वाचमनुरुन्धानः कर्मणि ‘अकर्तरि च कारके’ इति क्तिन्निति भावेनाह– गम्यत इति । ‘इति प्राप्यम्’ इत्यर्थः । ‘किमात्मकः’ इति भाष्यस्य किं स्वर्गादिवदनित्यसुखरूप उत अनन्तसुखात्मक इति प्राचीनटीकोक्तार्थः । ‘इत्यादेः’ इत्यत्रादिपदेन ‘देवतानां च को देवः’, ‘पितॄणां तु पिता तथा’ इत्यादेर्ग्रहणम् । ‘इत्यादेः परिहारसन्दर्भाच्च’ इति सामानाधिकरण्येनान्वयस्य किंशब्दघटित-तया प्रश्नत्वस्य स्फुटमवभासेनायोगात् ‘प्रश्नस्य’ इति शेषोक्तिः । सन्दर्भपदप्रयोगस्य तात्पर्यमाह– बहुत्वादिति ।।

क्षीरोदधेर्योत्तरतो हि द्वीपः श्वेतः स नाम्ना प्रथितो विशालः ।’

अनिन्द्रियाश्चानशनाश्च तत्र निष्पन्दहीनाः सुसुगन्धिनस्ते ।’

श्वेताः पुमांसो गतसर्वपापाश्चक्षुर्मुषः पापकृतां नराणाम् ।।’ इति,

वरेण्यं वरदं तं वै देवदेवं सनातनम् ।

 कथं पश्येम हि वयं देवं नारायणं त्विति ।।’

क्षीरोदधेरुत्तरतः श्वेतद्वीपो महाप्रभुः ।

 तत्र नारायणपरा मानवाश्चन्द्रवर्चसः ।।

 एकान्तभावोपगतास्ते भक्ताः पुरुषोत्तमम् ।

 ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम् ।।

 अनिन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः ।

 एकान्तिनस्ते पुरुषाः श्वेतद्वीपनिवासिनः ।।’

इत्यादिरूपाणां परिहारवाक्यानां बहुत्वादित्यर्थः । ‘अयं परिहाररूपवाक्यसन्दर्भो नारद-नारायणसंवादरूपः । तत्र देवदेवं नारायणं श्वेतद्वीपादिनिवासिनं तदेकान्तभक्ताः सम्प्राप्यानन्तकालं यथासुखं विहरन्ति । अन्यदेवताभक्तानां न तादृशी गतिरिति निर्गलितोऽर्थोऽवगम्यते’ इति प्राचीनटीका । ‘महाविष्णोरवतारे भक्तः कुत्रापि मुच्यते’ इत्यन्वयप्रतीतिनिरासायाह– कुत्र चावतार इति ।। क्वाप्यवतारे भक्तोऽपि मुच्यत इति मुक्तिरुच्यते । मुक्तिश्चानन्तफलरूपेति भावः

।। २१,२२ ।।

यो मद्विहिताचलश्रद्धः स तया श्रद्धया युक्तस्तस्याः ब्रह्मादिरूपेतरदेवतातनोः राधनम् आराधनम् ‘प्रति’ इति शेषः, ईहते चेष्टते । देवताराधनं निर्वर्तयतीति यावत् । ततो देवतायाः कामान् अभिलषितार्थान् लभते च । कथं देवतान्तरस्य कामितफलस्य दानसामर्थ्यमिति शङ्का-निरायासोक्तम् मयैवेति । तासु देवतासु स्थित्वा अहमेव कामितं ददामीति भावः । तथा चाहुः–

तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः ।

एक एव महाविष्णुः कुरुते सर्वमञ्जसा ।।’ इति ।। २२ ।।

भावदीपिका

भाष्ये भगवद्भक्तानामन्तवत् फलं न सम्भवतीत्यत्र ‘मुक्तश्च कां गतिम्’ इति प्रमाणान्तरमिति मन्तव्यम् । ननु परिहारवाक्योदाहरणं कस्मान्न कृतमित्यत आह– बहुत्वादिति ।। अत एव ‘सन्दर्भात्’ इत्युक्तमिति भावः । आहेति ।। अवतारभक्तानामप्यनन्त-फलवत्त्वमेवेत्याहेत्यर्थः । कुत्रचेति ।। यस्मिन् कस्मिन्नप्यवतार इत्यर्थः ।। २१,२२ ।।