उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ।। १८ ।।
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ।। १८ ।।
भावरत्नकोशः
चतुर्ष्वेकस्य प्रशंसया प्राप्तेतरनिन्दा परिह्रियते– उदारा इति ।। एते चत्वारोऽपि उदाराः महान्तः एव अन्यदेवताभक्तेभ्यः, किन्तु ज्ञानी त्वात्मा अहम् एव इत्यतिप्रियत्वादभेदोपचार इति विवृतिकृतः ।।
स्वामिनस्तु ज्ञानिनो विशेषेण भगवत्प्रतिमात्वात्, ज्ञानित्वात् ‘आत्मैव’ इत्यभेदोक्तिः । प्रतिमायां चाभेदोक्तिः प्रसिद्धा । सर्वस्य भगवत्प्रतिमात्वेऽपि विशेषतो ज्ञानी रसादिरिव हरेरुपासने प्रतिमेति प्रतिपादयितुमुक्तमुपपद्यते । ‘आस्थितः’ इत्युक्त्वा ‘वासुदेवः सर्वम्’ इति वाक्यं च ‘प्रभवादेः’ इत्युक्तन्यायेनैव रसोऽहम् इत्यादेरपि व्याख्यानं सिद्धम् । रसादीनां सत्ता-प्रतीत्यादिकारणत्वात्, तद्भोक्तृत्वाच्च भगवान् रसादिरित्यभेदेनोच्यते’ इति विज्ञाननिरूपण-प्रकरणे टीकोक्तरीत्या वासुदेवः सर्वसत्ताप्रतीत्यादिकारणत्वात् तद्भोक्तृत्वाच्च सर्वमुच्यत इति ज्ञानवान् सुदुर्लभः’ इति व्याख्यातवन्तः । उत्तरप्रस्थाने तु ज्ञानी तु मे मम आत्मा प्राप्त एव,
‘यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह ।
यच्चात्मसन्ततो भावस्तस्मादात्मेति भण्यते ।।’
इति भारते, प्राप्तेरात्मशब्दार्थत्वोक्तेः । कुतस्त्वां प्राप्नोत्येव ज्ञानीति । यस्मात् स हि ज्ञानी अनुत्तमां सर्वातिशायिनीं गतिम् उद्दिश्य युक्तात्मा समाहितमना उपासीनः सन् मामेवास्थितः प्राप्तः । अतो ज्ञानी मत्प्राप्तिमानेवेति ।। १८ ।।