या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।। यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ।। ६९ ।।

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।।

यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः   ।। ६९ ।।

भाष्यम्

उक्तं लक्षणं पिण्डीकृत्याऽह– या निशेति ।। या सर्वभूतानां निशा परमेश्वरस्वरूपलक्षणा । यस्यां सुप्तानीव न किञ्चिज्जानन्ति तस्याम् इन्द्रिय-संयमयुक्तो ज्ञानी जागर्ति  सम्यगापरोक्ष्येण पश्यति परमात्मानमित्यर्थः । यस्यां विषयलक्षणायां भूतानि जाग्रति तस्यां निशायामिव सुप्तः प्रायो न जानाति ।।

भावप्रदीपिका

निगृहीतेन्द्रियतामात्रस्य सुषुप्तावतिव्याप्तिरित्याशङ्कां परिहर्तुमुत्तरश्लोकमवतार्य व्याचष्टे– उक्तमिति ।।

भावप्रकाशिका

प्रकीर्णत्वेनोक्तं स्थितप्रज्ञलक्षणं झटिति बुद्ध्यारोहाय सङ्क्षिप्याहेत्यर्थः । मननयुक्तत्वं भगवद्दर्शनसाधनमाहेत्यर्थः ।। ६९ ।।

प्रमेयदीपिका

‘ज्ञानिनः सर्वकर्मपरित्यागप्रतिपादनार्थो ‘या निशा’ इत्ययं श्लोकः’ इति कश्चित्। तन्न । तत्प्रतिपादकाक्षराश्रवणात् प्रमाणविरोधाच्चेत्याशयेन तत्प्रति-पाद्यमाह– उक्तं लक्षणमिति ।। चतुःश्लोक्यां विक्षिप्योक्तम् ।। नन्वत्रोक्तं किमपि न प्रतीयते? इत्यत आह– येति ।। परमेश्वररूपस्य निशासाम्यमुपपादयति– यस्यामिति ।। विषयत्वमधिकरणत्वं चाविवक्षयित्वा कारकत्वमात्रविवक्षया साम्यमिदमुक्तम् ।

संयमी’ इत्यस्याक्षरार्थः– इन्द्रियेति ।। प्रकरणलभ्योऽर्थः–ज्ञानीति ।। उत्तरार्धार्थ-माह–यस्यामिति ।। अत्रापि पूर्ववत् साम्यम् ।

भावबोधः

ननु सर्वभूतनिष्ठाज्ञानं प्रति ईश्वरस्वरूपस्य विषयत्वेन निशारूप-कालस्य भूतज्ञानं प्रत्यधिकरणत्वेन वैलक्षण्यात् कथं परमेश्वरस्वरूपनिशाकालयोः साम्यवचन-मित्यत आह– विषयत्वमिति ।। कारकत्वमात्रेति ।। कर्मत्वमेव विषयत्वमिति भावः । अत्रापीति ।। विषयाणां ज्ञानिनिष्ठज्ञानाभावरूपाज्ञानं प्रति विषयत्वं तज्ज्ञानविषयत्वाभावमिति यावत् । निशाकालस्य सुप्तनिष्ठाज्ञानं प्रति अधिकरणत्वमविवक्षित्वा कारकत्वमात्रविवक्षया तस्यां निशायामिव सुप्तः प्रायो न जानाति इत्यनेन विषयसमूहनिशाकालयोः साम्यममुक्त-मित्यर्थः ।

भावदीपः

।। प्रमाणविरोधाच्चेति ।। ‘कुर्वन्नेवेह कर्माणि’ इत्यादि प्रमाणेनेति भावः ।। चतुःश्लोक्येति ।। ‘प्रजहाति’ इत्यादि ‘विषयाः’ इत्यन्तचतुःश्लोक्येत्यर्थः ।। द्विगोरिति ङीप् ।। पूर्ववत् साम्यमिति ।। कारकत्वमात्रेण, न त्वधिकरणत्वमात्रेण इत्यर्थः।।

वाक्यार्थप्रदीपः

ननु सर्वभूतनिष्ठाज्ञानं प्रति ईश्वरस्वरूपस्य कर्मत्ववत् तदधि-करणत्वे निशारूपकालस्य तदधिकरणत्ववत् तत्कर्मत्वे वा ईश्वरस्वरूपनिशारूपकालयोर-वैलक्षण्यात् दृष्टान्तदार्ष्टान्तिकभावसम्भवेऽपि परमेश्वररूपस्य तत्कर्मत्वेऽपि तदधिकरणत्वाभावेन निशारूपकालस्य तदधिकरणत्वेऽपि तत्कर्मत्वाभावेन वैषम्यात् कथं दृष्टान्तदार्ष्टान्तिकभावः ? इत्यतः ईश्वरे सतोऽपि कर्मत्वस्याविवक्षया कारकत्वस्यैव च विवक्षया निशायाः सतोऽपि तदधिकरणत्वस्याविवक्षया कारकत्वमात्रविवक्षया ईश्वरस्वरूपनिशाकालयोः कारकत्वेन साम्यात् युक्त एव दृष्टान्तदार्ष्टान्तिकभाव इत्याशयेनाह– विषयत्वमिति ।।

भावरत्नकोशः

।। कश्चिदिति ।। तथा चाह शङ्करः ‘यस्यां ग्राह्यग्राहक-भेदलक्षणायामविद्यानिद्रायां प्रसुप्तान्येव भूतानि जाग्रतीत्युच्यन्ते सा निशा । अविद्यारूपत्वात् । परमार्थतत्त्वं पश्यतो मुनेरतः कर्माण्यविद्यावस्थायामेव चोद्यन्ते न विद्यावस्थायाम्’ इति, ‘यस्य पुनर्निशेवाऽविद्यामात्रमिदं सर्वं भेदजातमिति बुद्धिः तस्याऽत्मज्ञस्य सर्वकर्मसंन्यास एवा-त्रोच्यते’ इति, ‘तस्मान्नाऽत्मविदः कर्मण्यधिकार इति स्थितम्’ इति च । अक्षरेति ।। भूतानि विषयलम्पटानि, ज्ञानी तु परमात्मानमापरोक्ष्येण पश्यन्न तथाविध इति श्रवणेन ज्ञानिनः कर्माभावाश्रवणादित्यर्थः । प्रमाणेति ।। ‘पश्यन्नपीममात्मानं कुर्यात् कर्माविचारयन्’ इत्यादिश्रुतिस्मृतिविरोधाच्चेत्यर्थः । ‘प्रजहाति’ इत्याद्यया ‘विनिवर्तन्ते’ इत्यतः प्राक्तन्या चतुःश्लोक्या । ‘द्विगोः’ इति ङीप् ।।

ननु परमेश्वरस्वरूपस्याज्ञानविषयत्वेऽपि न तदधिकरणत्वम् । निशायास्त्वज्ञानाधि-करणत्वेऽपि न तद्विषयत्वम् । अतः कथं तयोः साम्यमुच्यत इत्यत आह– विषयत्वमधि-करणत्वं चेति ।। कारकत्वमात्रेति ।। विषयरूपकर्मकारके अधिकरणे चानुस्यूतं यत् कारकत्वं तन्मात्रेत्यर्थः । अक्षरार्थ इति ।। रूढ्या संन्यासिवाचित्वस्य प्रसिद्धत्वेऽपि नासावत्र ग्राह्य इति भावः । जागर्तीति जागरणमात्रं प्रतीयत इत्यतस्तत्तात्पर्यमभाषत आचार्यः सम्यगित्यादीति स्फुटत्वादव्याख्याय ‘यस्याम्’ इति भाष्यमवतारयति–उत्तरेति ।। अत्रापि उत्तरार्धेऽपि । विषयेषु ज्ञानाभावरूपज्ञानिनिष्ठाज्ञानविषयत्वं निशायां तदधिकरणत्वं चाविवक्षित्वा कारकत्वमात्रविवक्षया विषयाणां निशायाश्च साम्यमुक्तं वेदितव्यमित्यर्थः । पश्यतीति ।। ‘पश्यतः’ इति गीतानुसाराद् भाष्ये जानातीत्येतत् पश्यतीति व्याख्येयमिति भावेनैवमुक्तम् । एतत् ज्ञानिनो मत्तादिवदेव प्रवृत्तिः न तु रागादिनेत्येतत् कस्मात् प्रमाणादवगन्तव्यमित्यर्थः ।।

भावदीपिका

।। अक्षरेति ।। पदवाक्ये तु दूरापास्ते इति भावः ।। प्रमाणविरोधाच्चेति ।। ‘ज्ञानी तु कर्माणि सदोदितानि कुर्यात्’ इत्यादिप्रमाणविरोधाच्चेत्यर्थः । चतुश्लोक्यां ‘प्रजहाति’ इत्याद्यायाम् ।। अत्रोक्तमिति ।। अत्र ‘या निशा’ इति श्लोके चतुःश्लोक्यामुक्तं न प्रतीयत इत्यर्थः । ननु परमेश्वरस्वरूपनिशाकालयोः कथं साम्यम् ? सर्वभूतनिष्ठाज्ञानं प्रति ईश्वरस्वरूपस्य विषयत्वेन, निशाकालस्य तु सुप्तभूताज्ञानं प्रत्यधि-करणत्वेन वैलक्षण्यादित्यत आह– विषयत्वमित्यादि ।। विषयत्वं कर्मत्वम् । यद्यपीश्वर-स्वरूपनिशाकालयोर्विषयत्वाधिकरणत्वाभ्यां वैलक्षण्येन न साम्यम्, तथाऽप्यज्ञानं प्रति यत् कारकत्वं तेन साम्यं विवक्षितमित्यर्थः । मूले ‘सुप्तानीव’ इत्यस्य सुप्तानि भूतानीव सुप्तजना इवेत्यर्थः । ननु विषयनिशाकालयोः कथं साम्यम् ? विषयाणां ज्ञानिनिष्ठज्ञानाभावरूपाज्ञानं प्रति विषयत्वात्, निशाकालस्य च सुप्तभूतनिष्ठाज्ञानं प्रत्यधिकरणत्वेन वैलक्षण्यादित्यत आह– अत्रापीति ।। विषयत्वमधिकरणत्वं चाविवक्षित्वा कारकत्वमात्रविवक्षया साम्यमित्यर्थः ।। मूले निशायां सुप्त इवेत्यन्वयः । सम्प्रज्ञातसमाध्यभिप्रायेण ‘प्रायः’ इत्युक्तमिति द्रष्टव्यम् ।।

भावप्रकाशः

 ।। प्रमाणविरोधाच्चेति ।। ‘पश्यन्नपीममात्मानं कुर्यात् कर्माविचारयन्’ इत्यादि प्रमाणविरोधादित्यर्थः । नन्वीश्वरस्याज्ञानविषयत्वेऽपि न तदधि-करणत्वं निशायास्त्वज्ञानाधिकरणत्वेऽपि न तद्विषयत्वम् । तत् कथं तयोः साम्यमुक्तमित्यत आह– विषयत्वमिति ।। कारकत्वमात्रेति ।। विषयरूपकर्मणि अधिकरणे चानुगतं यत्कारकत्वसामान्यं तन्मात्रविवक्षयेत्यर्थः । अत्रापीति ।। विषयेषु ज्ञानाभावरूपज्ञानि-निष्ठाज्ञानविषयत्वं निशायां तदधिकरणत्वं चाविवक्षित्वा कारकत्वमात्रविवक्षया साम्यमुक्त-मित्यर्थः ।

Load More