क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत् तज्ज्ञानं मतं मम ।। ३ ।।

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।

क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत् तज्ज्ञानं मतं मम ।। ३ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु– ‘एतद्यो वेत्ति’ इत्युक्तेर्जीवस्यापि किञ्चि-त्क्षेत्रज्ञानसम्भवात् तस्य क्षेत्रज्ञत्वप्राप्तेस्तन्निराकरणायोच्यते– क्षेत्रज्ञं चापीति ।। क्षेत्रज्ञं च मां मामेव सर्वक्षेत्रेषु अव्यक्तादिस्थितत्वेन विद्धि जानीहि, न पुनर्जीवम् । अत्र स्वस्य सर्वक्षेत्रे स्थित्युक्तिश्च ‘अव्यक्तादिरूपशरीरस्य कथं क्षेत्रशब्दवाच्यत्वम् ‘इत्यतः’ क्षीयतेऽत्रेश्वरेण इति क्षेत्रमित्यर्थसूचनाय’ इति प्रस्थानान्तरे व्यक्तम् । अतः सर्वक्षेत्रादिज्ञानस्य क्षेत्रज्ञत्वादिविशिष्ट-भगवज्ञानोपयोगित्वादुभयोः क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत् तदेव मम ज्ञानं मद्विषयकं ज्ञानमिति मम मतम् इति ।। ३ ।।