ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्म समाधिना ।। २४ ।।

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।

ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्म समाधिना ।। २४ ।।

भाष्यम्

ज्ञानवास्थितचेतस्त्वं स्पष्टयति – ब्रह्मार्पणमिति ।। सर्वमेतद् ब्रह्म इत्युच्यते । तदधीनसत्ताप्रतीतित्त्वात् । नतु तत्स्वरूपत्वात् ।

भावप्रदीपिका

यत्सामान्यतो भगवतो सर्वकर्तृत्वाख्यज्ञानमुक्तं तत्प्रपञ्चकत्वे-नोत्तरश्लोकमवतारयति– ज्ञानेति ।। ननु कथं सर्वब्रह्मैक्यमुच्यते ? इत्यत आह– सर्वमिति ।।

भावप्रकाशिका

न हि महीं प्राप्य भगवच्चरणारविन्दस्नेहं विनाऽल्पफल-स्वर्गादिस्नेहं त्यजति । तथा शरीरतत्क्रियादेर्भगवदधीनत्वज्ञानं विना अहंममताभिमान-हानिस्तत्रेति गतसङ्गस्य मुक्तस्य यत् परमेश्वरज्ञानित्वमर्थात् प्रतीयते तदतिस्फुटं करोतीत्याह– ज्ञानेति ।।

प्रमेयदीपिका

ननु कर्मस्वरूपं प्रतिज्ञाय सङ्क्षेपविस्तराभ्यां प्रतिपाद्योपसंहृतम् । किमिदं ब्रह्मार्पणम् इत्यनेनोच्यते? इत्यत आह– ज्ञानावस्थितेति ।। एतेन ‘इति यो जानाति’ इत्यध्याहारोऽत्र सूचितो भवति ।। ‘अत्रार्पणादेर्ब्रह्मस्वरूपत्वमुच्यते’ इत्यन्यथा-प्रतीतिनिरासायाह– सर्वमिति ।।

भावबोधः

।। यो जानातीति ।। अर्पणादिकं ब्रह्माधीनमिति यो जानाति, तेनैव ब्रह्म गन्तव्यम् इति सम्बन्धः । अन्यथा तेनेति तच्छब्दोऽसङ्गतः स्यादिति भावः ।।

भावदीपः

प्रतिज्ञायेति ।। ‘किं कर्म ’ (४.१६) इति श्लोके कर्म प्रवक्ष्यामि इति प्रतिज्ञाय कर्मण्यकर्म’ (४.१८) इति श्लोके सङ्क्षेपेण ‘यस्य’ इत्यादिश्लोकचतुष्टये विस्तरेण प्रतिपाद्य, पञ्चमे ‘गतसङ्गस्य’ (४.२३) इत्यत्रोपसंहृतमित्यर्थः ।। इत्यध्याहारोऽ-त्रेति ।। अत्र ‘श्लोके’ इति भावः ।।

भावरत्नकोशः

।। प्रतिज्ञाय ‘कर्म प्रवक्ष्यामि’ इत्यनेन । सङ्क्षेपविस्तराभ्यां ‘कर्मण्यकर्म’ इति सङ्क्षेपः । ‘यस्य सर्वे समारम्भाः’ इति पञ्चश्लोक्या विस्तार इति विवेकः । उपसंहृतं ‘गतसङ्गस्य’ इत्यनेन । एतेनेति ।। ‘ज्ञानावस्थितचेतस्त्वम्’ इति गमनिकाभाष्येण ।। तच्छब्दश्रवणात् ‘यच्छब्दः’, ज्ञानपदोपादानाद् ‘जानाति’ इति शब्दश्चात्र श्लोकेऽध्याहर्तव्य इति सूचयतीत्यर्थः । इति यो जानाति तेन ब्रह्म गन्तव्यमिति सम्बन्ध इति भावः ।। अर्पणादेरिति ।। अर्प्यते समर्प्यते अनेनेति अर्पणं जुह्वादि । आदिशब्देन हविरादि ग्राह्यम्, तस्येत्यर्थः ।।

भावदीपिका

।। सङ्क्षेपविस्तराभ्यामिति ।। ‘कर्मण्यकर्म’ (४.१८) इति सङ्क्षेपतः । ‘यस्य’ (४.१९) इत्यादिश्लोकैः विस्तरतः । उपसंहृतम् ‘गतसङ्गस्य’ इत्यनेनेत्यर्थः । एतेनेति ।। ज्ञानावस्थितचेतस्त्वस्पष्टनरूपत्वकथनेनेत्यर्थः ।। यो जानातीति ।। तथा चार्पणादिकं ब्रह्माधीनमिति यो जानाति तेनैव ब्रह्म गन्तव्यमिति योजना सूचिता भवति । अन्यथा ‘तेन’ इति तच्छब्दोऽसङ्गतः स्यादिति भावः ।।

भावप्रकाशः

।। उपसंहृतमिति ।। पिण्डकृत्योक्तमित्यर्थः । यो जनानीति ।। अर्पणादिकं ब्रह्माधीनमिति यो जानाति तेनैव ब्रह्म गन्तव्यमिति सम्बन्धः । अन्यथा तेनेति तच्छब्दासङ्गतिरिति भावः ।।

 

Load More