प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथाऽऽत्मानमकर्तारं स पश्यति ।। ३० ।।

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।

यः पश्यति तथाऽऽत्मानमकर्तारं स पश्यति ।। ३० ।।

भाष्यम्

आत्मानं चाकर्तारं यः पश्यति स पश्यति ।। ३० ।।

भावप्रदीपिका

स आत्मानमकर्तारं पश्यति इति प्रतीतिनिरासायाह– आत्मानमिति ।। ३० ।।

प्रमेयदीपिका

‘प्रकृत्यैव च’ इत्यत्र ‘यः प्रकृत्यैव च कर्माणि क्रियमाणानि पश्यति स आत्मानमकर्तारं पश्यति’ इति कश्चित् अन्वयमाह । तदसत् । तथाशब्दवैयर्थ्यापत्तेरिति भावेनान्यथाऽऽह– आत्मानं चेति ।। स पश्यति परमेश्वरम्

।। ३० ।।

भावबोधः

।। परमेश्वरमिति ।। अनेन यः कर्माणि प्रकृत्यैव क्रियमाणानि तथाऽऽत्मानमकर्तारं च पश्यति, सः परमेश्वरं पश्यति इत्यध्याहारेण वाक्ययोजनां सूचयता तथाशब्दस्य सार्थक्यमुक्तं भवति ।। ३० ।।

भावदीपः

।। अन्यथाऽऽहेति ।। तथाशब्दं समुच्चयार्थत्वेनाऽहेत्यर्थः ।।३०।।

भावरत्नकोशः

।। अन्यथा समुच्चयार्थत्वेन । ‘पश्यति’ इत्यनूद्याध्याहार्य-माह– पश्यति परमेश्वरमिति ।। तथाशब्दस्य समुच्चयार्थत्वेन स्वमते तथाशब्दः समुच्चये इति भाष्यभाव इत्यपि आहुः ।। ३० ।।

गीताक्षरार्थस्तु पूर्वश्लोके सर्वत्र विद्यमानमीश्वरं समं पश्यन्मुक्तिं याति’ इति साम्य-दर्शनस्य मोक्षहेतुत्वमुक्तम् । तच्च दर्शनम् ‘सर्वकर्मसु भगवानेव मुख्यः कर्ता, प्रकृति-र्निमित्तमात्रम् स्वस्य तत्र कर्तृत्वाभावः’ इत्येतज्ज्ञानोपोद्बलितमेव मोक्षसाधनायालमिति भावेनोच्यते– प्रकृत्येति ।। ‘समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम्’ इति प्रस्तुतपरमात्मा चशब्देन समुच्चीयते । तत्र इवशब्दस्य सम्बन्धः । पूर्वप्रस्तुतेनेश्वरणैव मुख्यकर्त्र्या प्रकृत्या च निमित्तभूतया क्रियमाणानि सर्वशः स्वार्थिकः शस् । सर्वाणि कर्माणि यः पश्यति, तथा आत्मानं स्वात्मानं च अकर्तारं मुख्यतोऽकुर्वन्तं पश्यति, स पश्यति परमेश्वरम् ।। ३० ।।

भावदीपिका

।। परमेश्वरमिति ।। अनेन ‘यः कर्माणि प्रकृत्यैव क्रिय-माणानि पश्यति, तथा आत्मानम् अकर्तारं पश्यति, स परमेश्वरं पश्यति’ इत्यध्याहारेण वाक्ययोजनां सूचयता तथाशब्दस्य समुच्चायकत्वेनास्मन्मते सार्थक्यमित्युक्तं भवति ।। ३० ।।

भावप्रकाशः

 ।। परमेश्वरमिति ।। अनेन यः कर्माणि प्रकृत्यैव क्रिय-माणानि पश्यति आत्मानं चाकर्तारं पश्यति स परमेश्वरं पश्यतीत्येवं तथाशब्दस्य समुच्चयार्थ-त्वेनोपयोग इत्युक्तं भवति ।। ३० ।।