अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च । अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः ।। ३३ ।।

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।

अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः ।। ३३ ।।

भावरत्नकोशः

अक्षराणामिति ।। अक्षराणां वर्णानाम् अकारोऽस्मि तस्य सर्व वाग्व्याख्येयत्वात् । सामासिकस्य समाससमूहस्य मध्ये द्वन्द्वः समासोऽस्मि । तस्योभय-पदार्थप्रधानत्वात्् । अक्षयः प्रवाहरूपेणाव्ययः । धाता विधाता स्रष्टा । विश्वतोमुखः चतुर्मुखः

।। ३३ ।।