सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ।। ३१ ।।

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।

सर्वथा वर्तमानोऽपि स योगी मयि वर्तते  ।। ३१ ।।

भाष्यम्

एतदेव स्पष्टयति– सर्वभूतस्थितमिति ।। एकत्वमास्थितः सर्वत्र एक एवेश्वर इति स्थितः । सर्वप्रकारेण वर्तमानोऽपि मय्येव वर्तते । एवमपरोक्षं पश्यतो ज्ञानफलं नियतमित्यर्थः । तथाऽपि प्रायो नाधर्मं करोति । कुर्वतस्तु महच्चेत् दुःखसूचकं भवतीत्युक्तं पुरस्तात्। आह च–

कदाचिदपि नाधर्मे बुद्धिर्विष्णुदृशां भवेत् ।

प्रमादात्तु कृतं पापं स्वल्पं भस्मीभविष्यति ।

आदिराजैस्तथा देवैर्ऋषिभिः क्रियते कियत् ।

बाहुल्यात् कर्मणस्तेषां दुःखसूचकमेव तत् ।।’ इति ।। ३१ ।।

भावप्रदीपिका

ननु तृतीयाध्याये ज्ञानिनोऽपि कर्मविधानात् कथं यथेष्टाचरणं विधीयते ? इत्यत आह– एवमिति । ननु विकर्मणा मोक्षविरोधाभावे किमिति न ज्ञानिनो विकर्म कुर्युः ? इत्यत आह– तथाऽपीति । कियदिति महदित्यर्थः ।। ३१ ।।

भावप्रकाशिका

उत्तरेण स्पष्ट्यमानत्वादप्ययमेव श्लोकद्वयार्थ इति भावेनाह एतदेवेति । तथा हि । ‘सर्वत्र समदर्शनः’ इत्यत्र यत्समशब्दोक्तमेकत्वं सर्वभूतस्थितानां तदत्र स्पष्ट्यते ‘एकत्वमास्थितः’ इति । तच्चैकत्वं ‘माम्’ इत्युक्त्या भगवद्रूपाणामेवेत्यवगम्यते । न तु जीवपरमात्मनोः, तत्प्रापकाभावात् । (तथा)‘तस्याहं न प्रणश्यामि’ इति यत् सदा योगक्षेमवहत्वं भगवता प्रतिज्ञातम्, तत् (एव) स्पष्ट्यते ‘स योगी मयि वर्तते’ इत्यनेन । ननु यथेष्टचरणस्य ज्ञानपादे निरस्तत्वात् कथं यथेष्टचारिणो योगक्षेमं वहति भगवान् ? इत्यत आह– एवमिति । यथेष्टचरणस्य विधिरेव निषिद्धस्तत्र । ज्ञानफलस्य मुक्तेर्नियतत्वेनानु-मतिमात्रं तु तत्राप्युक्तमिति भावः ।।

ननु यथेष्टचारिणोऽपि ज्ञानफलं नियतं चेत् सर्वेऽप्यधर्मं कुर्युरित्याशङ्का । नायं दोषः । न ह्यसावधर्मं प्रायः करिष्यति । प्रमादकृतं तु स्वल्पं भस्मीभविष्यति । महदपि प्रारब्धदुःख-सूचनेन कृतार्थं भवतीत्येतत् सप्रमाणकमाह– तथाऽपीति । अपि महदप्यानन्दमीषत् ह्रासयति, न मुक्तिं प्रतिबध्नातीति भावः ।। ३१ ।।

प्रमेयदीपिका

यो माम् इत्युक्तमेव पुनः किमर्थमुच्यत इत्यत आह– एतदेवेति ।। ‘एकत्वमास्थितः’ इत्यस्यान्यथाप्रतीतिनिरासार्थमर्थमाह– एकत्वमिति ।। ‘मयि वा मद्विकारे वा वर्तमानोऽपि’ इत्यपव्याख्याननिरासार्थमाह– सर्वेति ।। न्यायेन वाऽन्यायेन वेत्यर्थः । अपव्याख्याने थाल्प्रत्ययो न युक्त इति भावः । ‘भगवन्तं भजतोऽधर्मा-चरणं सर्वथाऽप्यकिञ्चित्करम्’ इति प्रतीतिनिरासायाह– एवमिति ।। ‘अधर्माचरणेऽपि’ इति शेषः । ज्ञानफलं मोक्षः । आनन्दह्रासादिकं तु विद्यत एवेति भावः ।।

ननु ज्ञानिनो मोक्ष एवापेक्षितः । सोऽधर्माचरणेऽपि न प्रतिबद्ध्यते इति चेत् तत् किमधर्मं करोतीत्यत आह– तथाऽपीति ।। सर्वथाऽप्यकरणे सर्वथा वर्तमानोऽपि इत्युक्तमयुक्तमित्यत उक्तम्– प्राय इति ।। एतेन ‘न हीदृशस्य यथेष्टचेष्टता सम्भवति’ इति परकीयमस्म-द्व्याख्यानदूषणमपि निरस्तं भवति ।।

प्रारब्धवशेन कदाचित्तथाभावदर्शनात् । कुतो न करोति? इत्यत आह– कुर्वतस्त्विति।। अत्र प्रमाणमाह– आह चेति ।। कियत् ‘महत्’ इति शेषः । कर्मणः प्रारब्धस्य बाहुल्यात् प्राबल्यात् । लोके प्रवृत्तिकर्मणो बाहुल्येन चित्तविक्षेपादिति वा ।। ३१ ।।

भावदीपः

।। थाल् प्रत्यय इति ।। ‘प्रकारवचने थाल्’ इति पाणिन्युुक्त्या अप्रकारार्थत्वादिति भावः ।। किमिति ।। अधर्मं करोति किमिति योजना ।। यथेष्टचेष्टेति ।। यथेष्टप्रवृत्तिमत्तेत्यर्थः ।। तथाभावदर्शनादिति ।। अजामिलादाविति योज्यम् । भाष्ये पुरस्तात् इत्यस्य तृतीये‘नैव तस्य कृतेनार्थः’ इति श्लोकभाष्ये ‘ईषत् प्रारब्धम् अनर्थसूचकं च तद्भवति । महच्चेद् वृत्रहत्यादिवत्’ इत्यनेनेत्यर्थः ।। ३१ ।।

वाक्यार्थप्रदीपः (पां.टि.)– ।। थाल् प्रत्ययो नयुक्त इतीति ।। तस्यप्रकारवाचित्वादिति भावः ।। तृतीयया अप्राधान्येनेति ।। सहयुक्ते अप्रधाने तृतीयया विधानादिति भावः ।। द्विषः शतुर्वा वचनमिति ।।

भावरत्नकोशः

।। यो मामित्युक्तमेवेति । प्राचीनटीकायां तु ‘सर्वभूतस्थम्’ इत्यादिश्लोकद्वयोक्तमेव स्पष्ट्यते ‘तथा हीति’ । ‘सर्वत्र समदर्शनः’ इत्युक्तं समदर्शनमेव ‘एकत्वमास्थितः’ इति स्पष्टीक्रियते । अत्रोक्तम् एकत्वम् एकत्वरूपत्वं भगवद्रूपाणां युक्तम् । जीवपरमात्मनोस्तत्प्रापकाभावात् । तथा ‘तस्याहं न प्रणश्यामि’ इति यत् सदा योगक्षेमवहत्वं भगवता पूर्वमुक्तं तदेव स्पष्ट्यते ‘स योगी मयि वर्तते’ इत्यनेन’ इत्युक्तम् । अन्यथाप्रतीतीति । ‘आत्मैकत्वदर्शी’ इति सङ्करोक्तप्रतीतीत्यर्थः । ‘सर्वथा’ इत्यस्य परोक्तार्थानुवादः– मयि वा मद्विकारे वेति । थाल्प्रत्यय इति । ‘प्रकारवचने थाल्’ इति तस्य प्रकारार्थ एवानुशासनेन ‘मयि वा मद्विकारे वा’ इत्यर्थे अननुशासनादिति भावः । एवं सर्वभूतस्थितत्वादिप्रकारेण भगवन्तम-परोक्षतया पश्यत इति भाष्यार्थः स्पष्ट इति, ततः शेषमाह– अधर्मेति ।। ज्ञानफलं ‘स योगी मयि वर्तते’ इत्युक्तम् । किं तदित्यत आह– मोक्ष इति ।।

ननु न्यायेनान्यायेन वा वर्तमानस्यापि यदि ज्ञानफलं नियतम्, तर्हि ज्ञानपादे कथम् अन्यायाचरणप्रतिक्षेपः । कथं च तृतीयाध्याये ज्ञानिनोऽपि कर्मविधिरित्यत आह– आनन्देति ।। तथा चोक्तम्–

ज्ञानान्मोक्षो भवत्येव सर्वाकार्यकृतोऽपि तु ।

 आनन्दो ह्रसतेऽकार्याच्छुभं कृत्वाऽनुवर्धते ।।’ इति ।

सर्वभूतस्थम्’ इति ‘यो माम्’ इति च श्लोकद्वयमुत्तमाधिकारिविषयम्, ‘सर्वभूतस्थितम्’ इति श्लोकस्तु ज्ञानिमात्रपर इति भावेन आनन्दह्रासोक्तिरिति वदन्ति ।

किमिति । अधर्मं करोति किमित्यन्वयः । यद्यपि न मोक्षप्रतिबन्धः, तथापीति भाष्यार्थः । एतेन ‘प्रायः’ इति पदोपादानेन । यथेष्टचेष्टता अन्यायाचरणम् । तथाभावदर्शनात् यथेष्टचेष्टता-दर्शनात् । ‘पुरस्तात्’ इत्यस्य तृतीयाध्याये ‘नैव तस्य कृतेनार्थः’ इति श्लोकव्याख्याऽवसरे ‘ईषत्प्रारब्धानर्थसूचकं तद्भवति, महच्चेत् वृत्रहत्यादिवत्’ इत्यत्रेत्यर्थः । स्वल्पपापस्य भस्मी-भावाभिधानात् कियत्किमपीत्यनन्तरं प्रकृतोपयोगाय शेषमाह– कियन्महदितीति । ‘राजाहः-सखिभ्यष्टच्’ इति समासान्ते, ‘आदिराजैः’ इति युक्तं भाष्ये । ‘कियत्’ इत्युक्तेः ‘बाहुल्यात्’ इति व्याख्याति– प्राबल्यादिति । ज्ञानेनाप्यनाश्यत्वं प्राबल्यमिह विवक्षितम् । मुख्यार्थालाभानु-शयादाह– लोकेति ।।

यो माम्’ इत्युक्तमेव स्पष्टीकुर्वता ज्ञानिमात्रस्यात्रातिशय उच्यते– सर्वभूतस्थितमिति । सर्वभूतस्थितं माम् एकत्वमास्थितः ‘सर्वत्रैक एवेश्वरः’ इति जानन् सन्, भजति सेवते, स योगी सर्वथा सर्वप्रकारेण न्यायेनान्यायेन वा वर्तमानोऽपि मयि एव वर्तते अन्यायप्रवृत्तावपि ज्ञानिनो मोक्षो नियत एव । अधमाधिकारिषु त्वानन्दह्रासादिकं विद्यत एवेति तात्पर्यम् ।। ३१ ।।

भावदीपिका

‘सर्वथा’ इत्यस्यार्थः– मयि वा मद्विकारे वेति ।। मद्विकारे प्रपञ्चे देहादावित्यर्थः । परव्याख्यान इति ।। अस्मन्मते थाल्प्रत्ययः सार्थकः, प्रकारार्थकत्वात् । ‘प्रकारवचने थाल्’ इति स्मरणात् । अत एव ‘सर्वप्रकारेण’ इत्युक्तम् । परव्याख्याने तु थाल्प्रत्ययो निरर्थक इत्यर्थः । मोक्ष इति ।। लिङ्गदेहभङ्ग इत्यर्थः । एवमुत्तरत्रापि ज्ञेयम् ।। आनन्दह्रासादिकमिति ।। यथा चैतत् तथोक्तं प्राक् तृतीयाध्याय अस्माभिः । तत्किमिति ।। तत् तर्हि नियमेनाधर्मं किं करोत्येवेति प्रश्नः । अकरणे ‘अधर्मस्य’ इति शेषः । इत्युक्तमिति ।। सर्वप्रकारेण न्यायेन वाऽन्यायेन वेति व्याख्यातत्वात्, ‘अन्यायेन’ इति व्याख्यानं न युक्तमिति भावः ।

अस्मद्व्याख्यानेति ।। ‘सर्वथा’ इत्यस्य ‘सर्वप्रकारेण’ इति व्याख्यानं न युक्तम् । ईदृशस्य भगवज्ज्ञानिनो यथेष्टचेष्टावत्ताया असम्भवात् । अतो ‘मयि वा मद्विकारे वा’ इत्येव व्याख्यानं युक्तमिति परकृतमस्मद्व्याख्यानदूषणमित्यर्थः । ‘प्रायः’ इत्यनेन कथं तन्निरस्तं भवतीत्यत आह– प्रारब्धेति ।। तथाभावेति ।। यथेष्टचेष्टतेत्यर्थः । भाष्ये पुरस्तादिति ।। तृतीयाध्याय इत्यर्थः । भाष्ये ‘स्वल्पं चेत्’ इति शेषः । महदिति शेष इति ।। तथा च कियन्महत् यावन्महत्क्रियते तावत्सर्वं दुःखसूचकमेव भवति, सूचिते च तदैव चित्तखेद इत्यर्थः । लोकप्रवृत्तीति ।। लोके या प्रवृत्तिस्तदापादकस्य कर्मण इत्यर्थः ।। चित्तेति ।। लोकैः क्रियमाणानि मैथुनादिकर्माणि दृष्ट्वा जातेन चित्तक्षोभेन स्वयमपि ज्ञानी तथा करोति, यथा सौभर्यादिरित्याशयः ।। ३१ ।।

भावप्रकाशः

 ।। मद्विकार इति ।। भास्करमतेनेदम् । अन्यमते तु मद्विवर्त इत्यर्थः । थाल्प्रत्यय इति । ‘प्रकारवचने थाल्’ इति थालः प्रकारवाचित्वोक्तेरिति भावः । स्वल्पपापस्य भस्मीभावोक्तेराह– महदिति शेेष इति ।। ३१ ।।