नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्राऽपि च ते न प्रसिद्ध्येदकर्मणः।। ८ ।।
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
शरीरयात्राऽपि च ते न प्रसिद्ध्येदकर्मणः।। ८ ।।
भाष्यम्
अतो नियतं वर्णाश्रमोचितं कर्म कुरु ।। ८ ।।
भावप्रदीपिका
यतः कर्मत्यागेन न मोक्षो नाप्यसौ शक्यः, अतो नियत-कर्मैव कुरु इत्युत्तरश्लोकार्थमाह– अत इति ।। ८ ।।
भावप्रकाशिका
यत एवमशक्यः सर्वथा कर्मत्यागः, अतो विहिताकरणा-दनर्थकरणाद्वरं स्ववर्णाश्रमविहितकरणमिति भावेनोत्तरश्लोकमवतारयति– अत इति ।।८।।
प्रमेयदीपिका
उत्तरश्लोकपर्यालोचनया चैवमिति भावेन सङ्गतिं सूचयन् व्याचष्टे– अत इति ।। अतश्शब्दपरामर्श्यं ‘कर्म ज्यायः’ इत्यादिनैवोच्यते ।। ८ ।।
भावबोधः
सङ्गतिं सूचयन्निति ।। ‘अतः’ शब्देनेत्यर्थः । इत्यादिनैवोच्यत इति ।। विव्रियत इत्यर्थः ।। ८ ।।
भावदीपः
।। एवमवेति ।। कर्मयोगपदं सर्ववर्णसर्वाश्रमकर्मपरमेवेति भावे-नेत्यर्थः ।। उच्यत इति।। गीतायामुच्यत इत्यर्थः । अतो न व्याख्यायत इत्येवकारार्थः ।। एतेन प्रागुपपादितकर्मकरणावश्यकत्वस्य ‘अतः’ इति हेतूकरणात् सङ्गतिः कार्यकारणरूपा सूचितेति भावः ।। ८ ।।
भावरत्नकोशः
।। एवमेव कर्मयोगशब्दस्य स्ववर्णाश्रमोचितकर्मपरत्वमेव । अतःशब्दप्रयोगो भाष्ये कृतः । तत्तात्पर्यमाह– सङ्गतिमिति ।। भाष्यं घटयितुमाह– अतः-शब्देति ।। तथा च प्रागुपपादितकर्मकरणावश्यकत्वं स्यादिति हेतूकरणाद् हेतुहेतु-मद्भावलक्षणा सङ्गतिरिति सूचयितुम् ‘अतः’ इति भाषितमिति भावः । उच्यते विव्रियते ।।८ ।।
गीताक्षरार्थः— ततः किम् ? इत्यत उच्यते– नियतमिति ।। नियतं स्ववर्णाश्रमोचितं कर्म कुरु । हि यस्मात् अकर्मणः कर्माकरणात् कर्म कर्मानुष्ठानं ज्यायः प्रशस्यतरम् । अपि च अकर्मणः कर्माकुर्वतस्तव शरीरयात्राऽपि देहनिर्वाहोऽपि न प्रसिध्येत् न भवेत् ।। ८ ।।
भावदीपिका
।। उत्तरश्लोकेति ।। तत्र नियतपदसद्भावादित्यर्थः ।। एव-मेवेति ।। कर्मयोगशब्द उक्तार्थ एवेत्यर्थः ।। सङ्गतिं सूचयन्निति ।। अतःशब्देनेत्यर्थः । अतःशब्दपरामृश्यं किमित्यत आह– अतःशब्देति ।। यतः कारणाद् अकर्मणः सकाशात् कर्म स्ववर्णाश्रमोचितकर्मकरणमेव ज्यायः, अतो नियतं कर्म कुर्वित्यर्थः । उच्यत इति ।। गीताकारेण विव्रियत इत्यर्थः ।। ८ ।।
भावप्रकाशः
सङ्गतिमिति ।। अतःशब्दप्रयोगादिति भावः । उच्यत इति ।। विव्रियत इत्यर्थः ।। ८ ।।