बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत् सुखम् । स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ।। २१ ।।
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत् सुखम् ।
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ।। २१ ।।
भाष्यम्
पुनर्योगस्याधिक्यं स्पष्टयति– बाह्यस्पर्शेष्विति ।। कामरहित आत्मनि यत् सुखं विन्दति स एव ब्रह्मयोगयुक्तात्मा चेत् तदेव अक्षयं सुखं विन्दति ।।
भावप्रदीपिका
‘संन्यासस्तु महाबाहो’ इत्युक्तस्य स्पष्टीकरणपरतयोत्तरश्लोक-मवतार्य व्याचष्टे – पुनरिति ।। २१ ।।
भावप्रकाशिका
न केवलमितः परमपि कर्मयोगमाचष्ट इत्येतावत् । किन्तु तस्याधिक्यं स्पष्टयति । अत इतःपरं सर्वकर्मबहिष्कृतानेवाधिकृत्य तेषां जातिसङ्करज्ञानं श्रेयः-साधनत्वेन उच्यत इति नाशङ्कनीयमिति भावेनाह– पुनरिति ।। श्लोकेऽस्मिन् यत्तच्छब्दा-न्वयस्य दुर्गमत्वादन्वयमाह– कामेति । आत्मनि यत्सुखम् आत्मधर्मत्वेनात्मस्वरूपभूतं सुखं स एव कामरहित एव । तदेव स्वरूपसुखमेव ।
प्रमेयदीपिका
‘प्रकृतस्य सन्न्यासिन एवाक्षयसुखप्राप्तिरुच्यते’ इति पर-व्याख्यानमसदिति भावेनाऽह– पुनरिति ।। ‘सन्न्यासस्तु’ इत्यादिना प्रागुक्तत्वात् पुनरिति । आधिक्यं सन्न्यासात् । प्राग् (५.६) योगाभावे सन्न्यासस्य वैयर्थ्यमुक्तम् । तदसत् । कामाद्युपद्रवक्षये स्वरूपसुखस्याविर्भावादित्याशङ्कानिराकरणात् स्पष्टनम् । नैतदत्र प्रतीयत इत्यतो व्याचष्टे– कामेति ।।
‘बाह्यस्पर्शेष्वसक्तात्मा’ इत्यस्यार्थः– कामरहित इति ।। आत्मस्वरूपस्यापि सुखस्य न निर्विशेषत्वमिति ज्ञापनाय आत्मनि इत्युक्तम् । स एव कामरहित एव । तदेव आत्मसुखमेव ।।
भावबोधः
।। बहूनां पदानामिति ।। ‘बाह्यस्पर्शेष्वसक्तात्मा ह्यक्षयं सुखमश्नुते’ इत्येतावतैव पूर्तेरन्येषां पदानां वैय्यर्थ्यमित्यर्थः ।
भावदीपः
।। वैय्यर्थ्यमुक्तमिति ।। ‘सन्न्यासस्तु’ इत्यत्र न निर्विषयत्वमिति ।। एतेन ‘आत्मनि’ इति विषयसप्तमीत्युक्तं भवति ।।
भावरत्नकोशः
‘ब्रह्मविद् ब्रह्मणि स्थितः’ इति पूर्वश्लोके ‘अकर्मकृत् सर्वकर्म-संन्यासी’ इति सङ्करेण भाषणादाह– प्रकृतस्य संन्यासिन इति । परव्याख्यानस्यासत्त्वे बहूनां पदानां वैयर्थ्यं हेतुं वक्ष्यति । ‘स्पष्टयति’ इत्युक्तमुपपादयति– प्रागिति । ‘संन्यासस्तु महाबाहो’ इत्यादावित्यर्थः । आविर्भावात् आविर्भावानुभावात् । एतत् स्पष्टनम् । इत्यस्यार्थ इति । स्पर्शशब्दितशब्दादिविषयेषु मनसः सक्तिर्हि कामः, तद्रहितः कामरहित इत्येकोऽर्थ इत्यर्थः । गीताभाष्ययोः ‘आत्मनि’ इत्युक्तेः प्रयोजनमाह– आत्मेति ।। इत्युक्तमिति । तथा च सुखमात्रस्य विषयसम्बन्धवत्त्वात्, स्वरूपसुखे च विषयाभावात् सुखत्वमेव कथमिति न चोद्यावकाशः । आत्मन एव विषयत्वात् । अत एव ‘आत्मनि’ इति विषयसप्तमीति भावः । ‘न निर्विशेषत्वम्’ इति पाठे ‘आत्मनि सुखम्’ इत्यात्मनो धर्मितया निर्देशेनात्माभिन्नस्यापि सुखस्य भेदप्रतिनिधिविशेषबलेनैव धर्मत्वेनोक्तिर्युक्तेति सूचनादिति भावः । सन्निधानादात्मपरत्वं तच्छब्दस्य न मन्तव्यमित्याह– स एवेति ।। ‘यत्’शब्दश्रवणात् ‘तत्’ इत्यध्याहृतं भाष्य इति भावेन तदर्थमाह– तदेवेति ।।