पिताऽहमस्य जगतो माता धाता पितामहः । वेद्यं पवित्रम् ओङ्कार ऋक् साम यजुरेव च ।। १७ ।।

पिताऽहमस्य जगतो माता धाता पितामहः ।

वेद्यं पवित्रम् ओङ्कार ऋक् साम यजुरेव च ।। १७ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु अस्य जगतः पिता जनयिता । माता जनयित्री । धाता पोषकः । पितामहः पितृपिता । वेद्यं वेदितव्यं वस्तु । पवित्रं पावनं वस्तु । ओङ्कारः ओङ्कारत्वसर्वगुणाधारवस्तुवाचकत्वशक्तिनियन्तृतया तच्छब्दवाच्यः प्रणवोऽप्यहमेव । ऋक्सामयजुश्च ऋक्त्वादिनियन्ताऽपि अहमेव ।। १७ ।।