ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते ।। ६ ।।

ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः ।

अनन्येनैव योगेन मां ध्यायन्त उपासते ।। ६ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु– मदुपासकानाम् अव्यक्तोपासकानामिव न क्लेशो मोक्षापादन इत्युच्यते– ये तु सर्वाणीति द्वाभ्याम् ।। ‘तु’शब्दः अव्यक्तोपासकेभ्यो भगवदुपासकानां वैशेष्यद्योतकः । ये तु सर्वाणि स्वाश्रमोचितानि कर्माणि सन्न्यस्य ‘सर्वस्वतन्त्रो हरिरेव मयि स्थित्वा स्वपूजात्वेन स्वदत्तकर्तृतासम्पन्नेन मया कारयति’ इत्यनुसन्धाय मत्पराः अहं पर उत्तमो येषां ते तथोक्ताः । मम सर्वोत्तमत्वं जानन्तः, अनन्येन न विद्यतेऽन्यः स्वातन्त्र्येण भजनीयो यस्मिन् सोऽनन्यः, तेन योगेन उपायेन भक्तिलक्षणेन मां ध्यायन्तः चिन्तयन्त उपासते ।। ६ ।।