आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ।। ३२ ।।

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।

सुखं वा यदि वा दुःखं स योगी परमो मतः ।। ३२ ।।

भाष्यम्

साम्यं प्रकारान्तरेण व्याचष्टे– आत्मौपम्येनेति ।। ३२ ।।

भावप्रदीपिका

‘सर्वत्र समदर्शनः’ इत्युक्तं समत्वम्, ‘एकत्वमास्थितः’ इत्यनेन स्पष्टितम् । तद्भगवदनुवृत्तिषु स्वसाम्यपरतयाऽपि व्याकुर्वन् श्लोकमवतारयति– साम्यमिति

।। ३२ ।।

भावप्रकाशिका

‘सर्वत्र समदर्शनः’ इत्युक्तं समत्वम् ‘एकत्वमास्थितम्’ इत्यनेन सर्वगतभगवद्रूपाणां परस्परैक्यपरत्वेन व्याख्याय, भगवदनुवर्तिषु स्वसाम्यपरत्वेनापि व्याचष्ट इति भावेनोत्तरं श्लोकमवतारयति– साम्यमिति । ननु ‘आत्मौपम्येन सर्वत्र’ इति सर्वशब्दात्, हर्यधिष्ठानत्वसाम्याच्च, सर्वेष्वात्मौपम्यं किं न स्यात् ? मातृद्विण्मातुलादि-मान्यत्वहानवत् हरिद्विट्तदधिष्ठानादियाथात्म्यताहानादिति ब्रूमः ।। ३२ ।।

प्रमेयदीपिका

‘सर्वत्र समदर्शनः’ इत्यन्यथाव्याख्यानम् इतोऽप्यसदिति भावेनाऽह– साम्यमिति ।। साम्यदर्शनम् । ‘समदर्शनः’ इत्युक्ते किं गोगवयादिवद् भवति साम्यदर्शनम् इत्याकाङ्क्षायाम् एकत्वमास्थितः इति स्वयमेव व्याख्यातम् । इदानीन्तु भगवदनुवर्तिविषयतयाऽपि व्याचष्ट इत्यर्थः ।। ३२ ।।

भावबोधः

।। भगवदनुवृत्तिविषयतयाऽपीति ।। अनेन ‘आत्मौपम्येन सर्वत्र’ इत्यत्र सर्वत्रेत्येतद्भगवद्भक्तेष्वेवेति व्याख्यातं भवति ।। ३२ ।।

भावदीपः

।। अन्यथाव्याख्यानमिति ।। परात्मसु समा मतिः इति पाठान्तरं प्रकल्प्य इत्यादिनोक्तं मयि तद्विकारेण वर्तमानोऽपि’ इत्यपव्याख्यानम्, ‘आत्मानं स्वात्मानम्’ इत्यपव्याख्यानं वेत्यर्थः ।। इतोऽपीति ।। ‘आत्मौपम्येन’ इति पद्येनापीत्यर्थः ।। साम्येन पूजादिरूपमित्यर्थः ।। स्वयमेवेति ।।  कृष्णेनैवेत्यर्थः ।। भगवदनुवर्तीति ।। भगवद्भक्तविषय-तेत्यर्थः ।। ‘सर्वत्र’ इत्यस्य विष्णुभक्तेष्वित्यर्थ इति भावः ।। ३२ ।।

भावरत्नकोशः

।। अन्यथा व्याख्यानमिति । ‘सर्वत्र स्थावरादिब्रह्मान्तेषु समं निर्विशेषब्रह्मात्मैकत्वविषयं दर्शनं यस्य स तथा’ इति सङ्करव्याख्यानमित्यर्थः । न केवलं ‘समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्’ इति गीतावचनादित्यपिशब्दः । साम्यस्याशब्दरूपस्य कथं व्याख्यानमित्यत आह– साम्यदर्शनमिति । ‘समदर्शनः’ इति साम्यदर्शनप्रतिपादकं वाक्य-मित्यर्थः । ननु पूर्वमेकेन प्रकारेणाप्यव्याख्यातत्वात् कथं ‘प्रकारान्तरेण’ इत्युक्तमित्यत आह– समदर्शन इत्युक्त इति ।। एकत्वमास्थितः सर्वत्रैक एवेश्वर इत्यास्थितः । स्वयमेव गीताऽऽ-चार्येणैव । भगवदनुवर्तिविषयतयाऽपीति । भगवद्भक्तिषु स्वसाम्यपरतयाऽपीत्यर्थः । तथाच ‘विष्ण्वनुवर्तिषु स्ववत् स्नेहः कर्तव्यः’ इति तात्पर्यानुसारिणी भगवदनुवर्तिषु स्वसाम्यपरत्वेनापि व्याचष्टे’ इति प्राचीनटीका । ‘भगवदनुवृत्तिविषयतया’ इति पाठे भगवद्भक्तिविषयतयेत्यर्थः । तथा च ‘सर्वत्र’ इत्यस्य ‘विष्णुभक्तेषु’ इति पर्यवसितार्थ इति भाव इति व्याचक्षते ।।

समदर्शनः’ इत्युक्तम्, तत्र किं गोगवयादिवत् भगवति साम्यदर्शनमित्याकाङ्क्षायाम् ‘एकत्व-मास्थितः’ इति समदर्शनवचनं स्वयमेव व्याख्यातम् । इदानीं भगवदनुवर्तिविषयतयाऽपि तदेव व्याक्रियते आत्मौपम्येनेति । आत्मा स्वयमेवोपमा तद्भाव औपम्यम्, तेन यथा आत्मनः स्वस्य सुखमेव प्रियं दुःखं त्वप्रियमेव, तथाऽन्येषामपि भगवद्भक्तानाम् इत्येवं स्वसादृश्येन सुखं दुःखं च समं यः पश्यति सुखमेव भागवतेषु, न जात्वपि दुःखमिति वाञ्छतीति यावत्, स योगी परमो मतः

।। ३२ ।।

भावदीपिका

उत्तरत्र ‘समं पश्यति’ इति साम्यदर्शनस्यैव व्याख्यायमानत्वात् ‘साम्यम्’ इति कथमुक्तमित्यत आह– साम्यदर्शनमिति ।। गोगवयादिवत् साम्यदर्शनम् गोग-वयादिवत् जगता सादृश्यदर्शनमित्यर्थः । भगवदनुवर्तीति ।। तथा च यः सर्वत्रभगवद्भक्तेषु सुखं वा यदि वा दुःखम् आत्मौपम्येन पश्यतितदीयदुःखादिकं स्वकीयदुःखादिवत् जानाति, स योगी परमो मत इत्यर्थो द्रष्टव्यः ।। ३२ ।।

भावप्रकाशः

ननु पूर्वमेकेन प्रकारेण गीताकृताऽव्याख्यातत्वात् कथं प्रकारान्तरे-णेत्युक्तमित्यत आह– समदर्शन इत्युक्त इति ।। भगवदनुवर्तीति ।। अनेन सर्वत्रेति गीतापदं भगवदनुवर्तिपरमिति सूचितम् ।। ३२ ।।