सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ।। ३ ।।

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।

श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ।। ३ ।।

भाष्यम्

सत्वानुरूपा चित्तानुरूपा । यो यच्छ्रद्धः स एव सः सात्त्विकश्रद्धः सात्त्विक इत्यादि ।। ३ ।।

भावप्रदीपिका

नोत्सृष्टशास्त्रत्वेन पुरुषभेदो ज्ञायते किन्तु तच्छ्रुत्यैव, श्रद्धायास्त्रिरूपत्वात् श्रद्धायाः स्वरूपान्तःकरणानुरूपत्वात् । अतः सात्त्विकादिश्रद्धवतां सात्विकादीत्याशयेनाह– सत्त्वेति ।। ३ ।।

प्रमेयदीपिका

सात्त्विकत्वादिभेदेन श्रद्धा त्रिविधा इत्युक्ता । पुनः ‘सत्त्वानुरूपा सर्वस्य श्रद्धा भवति’ इति वचनं कथं न व्याहतम्? इत्यत आह– सत्त्वेति ।। चित्तं चैतन्यम् । जीव इति यावत् । ननु श्रद्धास्वरूपमेव निरूपितम् । न तु तदाश्रित्य जीवस्वरूपम् । अतो न सङ्गतमुत्तरमित्यतो येन तदुच्यते तत्पठित्वा व्याचष्टे– य इति ।। इत्यादि ‘ज्ञातव्यम्’ इति शेषः । राजसश्रद्धः राजसः । तामसश्रद्धस्तामस इत्यर्थः ।। ३ ।।

भावबोधः

जीवानुरूपेति तात्पर्यं मनसि निधायाह– जीव इति यावदिति

।। ३ ।।

भावदीपः

।। विभज्य इत्यनूद्य कर्मकारकमाह– विभज्य श्रद्धास्वरूपमिति

।। ३ ।।

भावरत्नकोशः

।। कथं न व्याहतमिति ।। सात्त्विकी राजसी तामसी चेति त्रिविधा सर्वस्य श्रद्धा भवति इति वचनस्य, सत्त्वानुरूपा सत्त्वं सत्त्वगुणः, तदनुरूपा सात्त्विकीति यावत्, सर्वस्य पुंसः सात्त्विक्येव श्रद्धा इति श्रद्धाया एकविधत्ववचनेन विप्रतिषेधात् त्रिविधत्वोक्तिएकत्वोक्त्योर्व्याघातो दुष्परिहर एवेत्यर्थः । ननु ‘यो यच्छ्रद्धः स एव’ इति श्रद्धयैव सात्त्विकादिजीवस्वरूपज्ञानम् इत्यस्योपपदानायोक्तम्– सत्त्वानुरूपेति ।। तत्र सत्त्वशब्दार्थो भाषितः– चित्तेति ।। अनेनापि कथं ‘यो यच्छ्रद्धः स एव’ इत्यस्योपपादनम् इत्यतश्चित्तशब्दार्थमाह– चित्तं चैतन्यमिति ।। एवमपि ‘चेतनश्चेतनानाम्’ इत्यादिशास्त्र-सिद्धमुख्यचैतन्यस्य ईश्वरस्य ग्रहणे उपपादनालाभ एव इत्यतः ‘सत्त्वं जीवः क्वचित् प्रोक्तः’ इत्यभिधानमूलम् सत्त्वानुरूपा जीवानुरूपा’ इति तात्पर्यं हृदि कृत्वाऽऽह– जीव इति यावदिति ।। तथा च सत्त्वशब्दस्य जीवार्थत्वान्न व्याहतिशङ्का, नाप्युक्तोपपादनालाभ इति चोद्यमिति भावः । तदाश्रित्य श्रद्धास्वरूपविभेदमाश्रित्य जीवस्वरूपं निरूपितम् । ‘तदाश्रितं जीवस्वरूपम्’ इति पाठे ‘श्रद्धाऽऽश्रितं जीवस्वरूपम्’ इत्यर्थः । उत्तरम् ‘त्रिविधा भवति श्रद्धा’ इत्यादिना उच्यमानम् । येन वाक्येन तत् सात्त्विकादिश्रद्धाश्रितजीवस्वरूपम् । आदिपदार्थोक्तिः– राजसश्रद्ध इत्यादि । ‘रासजी श्रद्धा यस्यासौ’ इत्युभयत्रापि राजसतामस-शब्दयोः पुंवद्भावः, श्रद्धाशब्दे ‘गोस्त्रियोरुपसर्जनस्य’ इति ह्रस्वश्च द्रष्टव्यः ।।

गीताक्षरार्थस्तु ननु श्रद्धास्वरूपमेव निरूपितम्, न तु तदाश्रितजीवस्वरूपम् । अतो न सङ्गतम् इत्यत उच्यते– सत्त्वानुरूपेति ।। तत्र यो यजमानो यच्छ्रद्धः यादृशश्रद्धायुक्तः स एव सः तादृशः सात्त्विकश्रद्धः सात्त्विकः, राजसश्रद्धो राजसः, तामसश्रद्धः तामस इति श्रद्धयैव जीवस्वरूपं ज्ञातव्यम् इत्यस्योपपादनायोक्तम्– सत्त्वानुरूपेति ।। ‘सत्त्वं जीवः क्वचित् प्रोक्तः’ इति वचनात् सत्त्वशब्दोऽत्र जीववाची । सर्वस्य देहिजातस्य श्रद्धा तत्तज्जीवस्वरूपानुसारिणी भवति । श्रद्धाया जीवस्वरूपानुसारित्वात् तया तत्स्वरूपं ज्ञायत इत्यर्थः । श्रद्धाया जीवानुरूपत्वं कुतः इत्यत उक्तम् – श्रद्धामय इति ।। मयट्प्रत्ययस्तादात्म्यार्थ इति श्रद्धारूपः अयं पुरुषो जीवः । जीवस्य श्रद्धानुरूपत्वात् श्रद्धाया जीवानुरूपत्वं युक्तमिति भावः

।। ३ ।।

भावदीपिका

।। कथं न व्याहतमिति ।। सर्वस्यापि सत्त्वगुणानु-रूपश्रद्धोक्तौ सात्त्विकश्रद्धैव सर्वेषां प्राप्ता । तथा च श्रद्धात्रैविध्योक्तिर्व्याहतेत्यर्थः । ‘जीवानु-रूपा’ इति तात्पर्यं मनसि निधायाह– जीव इतीति ।। येन वाक्येन । तत् सात्त्विकत्वादि-भेदभिन्नश्रद्धाश्रयेण जीवस्वरूपम् । आदिशब्दार्थमाह– राजसेति ।। ३ ।।

भावप्रकाशः

 ननु ‘यो यच्छ्रद्धः स एव सः’ इत्यस्योपपादनाय ‘सत्वानु-रूपा’ इत्युक्तम् । न च चित्तानुरूपत्वोक्तौ तदुपपादनं भवतीयत आह– चैतन्यमिति ।। ननु ‘क्वचित्सत्वं जनार्दनः’ इत्युक्तेः सत्त्वशब्दार्थत्वेनेश्वरचैतन्यग्रहणे उपपादनालाभ एवेत्यत आह– जीव इति यावदिति ।। ‘सत्त्वं जीवः क्वचित्प्रोक्तः’ इति शब्दनिर्णयादिति भावः ।। ३ ।।