अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः।। २४ ।।
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः।। २४ ।।
भाष्यम्
वर्तमाननिषेधात् स्यादुत्तरत्रेत्यत आह– अच्छेद्य इति ।। वर्तमानादर्शनाद् युक्तमयोग्यत्वमिति सूचयति वर्तमानापदेशेन । कुतोऽयोग्यता? नित्यसर्वगतादि-विशेषणेश्वरसरूपत्वात् ।।
भावप्रदीपिका
यदि वर्तमानकाले छेदाद्यभावः, तर्ह्युत्तरत्र स्याद्विशेषनिषेधस्य शेषानुज्ञारूपत्वादित्या-शङ्क्य, उत्तरश्लोकमवतारयति– वर्तमानेति ।। छेदनाद्ययोग्यता प्रथममेव कुतो नोच्यते? किं वर्तमानापदेशेन? इत्यत आह– वर्तमानेति ।। ननु वर्तमानकाले छेदाद्यदर्शने, कथं छेदाद्य-योग्यता? इत्यत आह– कुत इति ।। सर्वगतस्य छेदाद्यभावेन तत्प्रतिबिम्बस्यापि न छेदादिकमित्यर्थः ।।
भावप्रकाशिका
ननु ‘नैनं छिन्दन्ति’ इति छेदनादेः वर्तमानत्वमेव निषिध्यते । अतः स्यात् उत्तरत्र । विशेषप्रतिषेधस्य शेषाभ्यनुज्ञानविषयत्वादित्याशङ्क्य, परिहारत्वेनोत्तरश्लोकमवतारयति– वर्तमाननिषेधादिति ।। ननु ‘अच्छेद्यः’ इत्यादि छेदनाद्ययोग्यत्वोक्त्या छेदनाद्यभावस्य सर्वकालीनत्वावगतेः ‘नैनम्’ इत्यादि वर्तमानछेदनादिप्रतिषेधेन किम्? इत्यत आह–वर्तमाना-दर्शनादिति ।। नन्विदानीमच्छिद्यमानस्यापि कालान्तरे छेदादिदर्शनात् कुतः छेदाद्ययोग्यत्वम्? इत्याक्षिप्य तत्समाधानत्वेनोत्तरार्धमवतारयति– कुत इत्यादिना ।। नित्यं सर्वेषु शास्त्र-पावकाम्बुवाय्वादिषु स्थितो नित्यसर्वगतः । न तु नित्यश्चासौ सर्वगतश्चेति ।। तथा सति पुनरुक्तिः स्यादिति वक्ष्यति नित्यत्वं सर्वगतत्वविशेषणमित्यादि । न ह्याकाशवत् सदा शस्त्रादिस्थो विष्णुस्तच्छेदनाद्यर्हति । काष्ठादिस्तु न सदा पावकादिस्थः । अतस्तैर्दाहाद्या-प्नोति । नित्यसर्वगतत्वं हीशस्यैवाच्छेद्यत्वादिप्रदर्शकम् । जीवस्य तत्प्रतिबिम्बत्वादे-वाच्छेद्यत्वादिति ।
प्रमेयदीपिका
तर्हि ‘अच्छेद्योऽयम्’ इत्यादि पुनरुक्तमित्यत आह– वर्तमानेति ।। लट्प्रयोगेण वर्तमानस्यैव छेदादेर्निषेधात्, इदानीं दृश्यमानत्वेन आत्मनः प्राग्विनाशाभावेऽपि उत्तरत्र शस्त्रादिना विनाशः स्यादिति शङ्कायां, छेदादियोग्यतैव आत्मनो नास्तीति प्रतिपादनायै-तदुदितम् । ‘र्ओ कृत्यतृचश्च’ (पा.सू.३.३.१६९) इति कृत्यस्यार्हार्थत्वस्मरणादिति भावः । तर्हि तेनैवालम् । किमाद्येन श्लोकेन? इत्यत आह– वर्तमानेति ।। ‘प्रवृत्ते शस्त्रसम्पाते’ (१.२०) इति वचनात् प्रसक्तौ सत्यामपि वर्तमानस्य छेदादेः अदर्शनात् छेदाद्ययोग्यत्व-मात्मनो युक्तमिति दर्शयति प्रथमश्लोकेन । एवं तर्हि,औत्तराधर्यप्रसङ्ग इति चेन्न । उपोद्घाताभिप्रायेण भगवतोक्तेरभिप्रायमजानानस्य शङ्कामनूद्यावतारस्य कृतत्वात् । स्वाभिप्रायेण तूपोद्घातमुक्त्वा साध्यमाहेत्यवतारः कर्तव्यः ।।
‘नित्यः सर्वगतः’ इत्यादिकं जीवेऽसम्भावितमित्याशङ्क्य तन्निवर्त्याशङ्काप्रदर्शनपूर्वकं व्याचष्टे– कुत इति ।। वर्तमानच्छेदाद्यदर्शनमात्मनः छेदाद्ययोग्यतायां किं निश्चययुक्तिरुत सम्भावनायुक्तिः? नाद्यः । कदाचिदद्दृष्टस्यापि पश्चाद्दर्शनात् । द्वितीये कुतोऽयोग्यतानिश्चय इति शङ्कार्थः । ‘नित्यः सर्वगतः’ इति भावप्रधानो निर्देशः । ईश्वरस्य तावच्छेदाद्ययोग्यत्वं सिद्धम् । नित्यसर्वगतत्वादिविशेषणवत्वात् । नह्येवम्भूतस्य छेदादिकं सम्भवति । अतस्तत्प्रतिबिम्बस्यापि जीवस्य तदयोग्यत्वमिति भावः ।।
भावबोधः
ननूत्तरत्रेतिवत् पूर्वत्रेत्यपि कुतो न शङ्केत्यत आह– इदानीमिति ।। उपोद्घातभिप्राये-णेति ।। अच्छेद्य इत्यनेन छेदाद्ययोग्यत्वसाध्यं वक्तुं तत्र हेतुत्वेन वर्तमानच्छेदाद्यदर्शनेन ‘नैनम्’ इत्यनेनोच्यते इत्युपोद्घातभिप्रायेणेत्यर्थः ।। शङ्कामनूद्येति ।। स्वतः प्रायो निमित्तैरित्यनेनेत्यर्थः ।।
ननु वर्तमानादर्शनादित्यनेन छेदाद्ययोग्यतायां ‘नैनम्’ इत्यनेन हेतुरुक्त इत्युक्तत्वात् कथं कुतोऽयोग्यतेति हेतुशङ्केत्यतोऽभिप्रायमाह– वर्तमानेष्विति ।।
भावदीपः
इदमुदितमिति ।। ‘अच्छेद्योऽयम्’ इत्यादिकमुदितमित्यर्थः । कृत्यस्य चेति ।। तृतीयस्य आद्यपादे ‘कृत्याः’ (पा.सू.३.१.९५) इति, ‘प्राङ् ण्वुलः’ इति (पा.सू.३.१.१०५) सूत्रेण ‘ण्वुल् तृचौ’ (पा.सू.३.१.१३३) इत्यतः प्राक् ‘तव्यत्तव्यानीयरः’ (पा.सू.३.१.९६) इत्यारभ्य विहितप्रत्ययानां कृत्यसञ्ज्ञोक्तेः, तन्मध्ये विहितस्य ‘ऋॄहलोर्ण्यत्’ (पा.सू.३.१.१२४) इति विहितण्यत्प्रत्ययस्य कृत्यसञ्ज्ञकस्य ‘र्ओ कृत्यतृचश्च’ (पा.सू.३.३.१६९) इति सूत्रेण कृत्य-सञ्ज्ञकण्यत्प्रत्ययस्यार्हार्थे स्मरणादित्यर्थः ।। श्लोकयोः पौर्वापर्यव्यत्यासः स्यादिति शङ्कते– एवं तर्हीति ।। ‘वर्तमान’ इत्यादि भाष्योक्तावतारिकापक्षे श्लोकयोरुत्तराधरभावः । ‘अच्छेद्यः’ इत्यस्य पूर्वत्वं ‘नैनम्’ इत्यस्य पश्चात्तनत्वं स्यादित्यर्थः । ‘अच्छेद्यः’ इति श्लोकोक्तार्थे ‘नैनम्’ इति श्लोकार्थस्य हेतुत्वादिति भावः ।। शङ्कामनूद्येति ।। ‘वर्तमाननिषेधादित्यादिना’ इति भावः ।। स्वाभिप्रायेणेति ।। छेदादियोग्यतैव नेति वक्ष्याम इति कृष्णाभिप्रायेणेत्यर्थः ।। भावप्रधान इति ।। ‘भाष्ये’ इति ज्ञेयम् ।।
वाक्यार्थप्रदीपः
नन्वच्छेद्य इत्यनेनापि च्छेदाद्ययोग्यत्वोपपादनं कथमित्यतः कृत्यप्रत्ययान्तत्वादित्यभिप्रेत्य तथात्वेऽपि कथमयोग्यत्वसिद्धिरित्यत आह– अर्हे कृत्यतृचश्चेतीति ।। अर्हतीत्यर्हः तद्योग्यः । अर्हतेः कर्तरि वाच्ये गम्यमाने वा धातोः कृत्यतृच्प्रत्यया भवन्तीति । चकारात् लिङ् चेति सूत्रार्थः । तथाच ण्वुल् तृचावित्यतः प्राक् विहितत्वेन कृत्यत्वात् ऋहलोर्ण्यदिति ण्यत्प्रत्ययस्य तदन्ताच्छेद्यशब्देन च्छेदार्हत्वाभावप्रतिपादनात् तदयोग्यत्वसिद्धिरिति भावः ।।
भावरत्नकोशः
‘वर्तमाने लट्’ इत्यनुशासनादाह– वर्तमानस्यैवेति ।। ननूत्तरत्रेतिवत् पूर्वत्रेति किमिति न शङ्क्यत इत्यत आह– इदानीं दृश्यमानत्वेनेति ।। इदम् ‘अच्छेद्योऽयम्’ इत्यादिकम् । अनेन छेदाद्ययोग्यत्वं कथं लभ्यत इत्यत आह– र्ओति ।। कृत्यसञ्ज्ञकाः प्रत्ययास्तृच्प्रत्ययश्चार्हार्थे भवन्तीति सूत्रेण कृत्यप्रत्ययस्यार्हार्थे विधानादत्र च छिदेः ‘ऋहलोर्ण्यत्’ इति ण्यत्प्रत्ययान्त-त्वाद् दहेश्च ‘आसुयुवपिरपिलपित्रपि च मश्चः’ इति सूत्रे अनुक्तसमुच्चयार्थकचकार-विहितण्यत्प्रत्ययान्तत्वादेवमन्यस्मादपि कृत्यप्रत्ययेऽछेद्यादिशब्दैश्छेदादियोग्यताभाव एव ज्ञायत इत्यर्थः । ‘वर्तमानापदेशेन’ इति भाष्यस्य वर्तमानार्थकलट्प्रत्ययान्ततिङ्पदेन ‘नैनं छिन्दन्ति’ इतीत्यादिकेनेत्यर्थः । प्रसक्तौ छेदादि कारणस्य । एवं तर्हि साध्यहेतुसमर्पकत्वे । औत्तरा-धर्यप्रसङ्गः ‘अच्छेद्यः’ इत्यस्य पूर्वत्वं ‘नैनम्’ इत्यस्य पश्चात्तनत्वं स्यादित्यर्थः । भाष्यकारीय-गमनिकारीत्या ‘अच्छेद्यः’ इति श्लोकार्थे ‘नैनम्’ इति श्लोकार्थस्य हेतुत्वप्रत्यायनादिति भावः । उपोद्धातेति ।। अच्छेद्य इत्यनेन छेदाद्ययोग्यत्वरूपं साध्यं विवक्षुस्तत्र हेतुत्वेन वर्तमान-छेदाद्यदर्शनं ‘नैनम्’ इत्यनेन उच्यत इति प्रकृतसिद्ध्युपयोगिवर्णनरूपोपोद्घाताभिप्रायेणेत्यर्थः । एवं तर्हि ‘वर्तमाननिषेधात् स्यादुत्तरत्र’ इति शङ्काभाष्यानवतारः स्यादित्यत आह– अभिप्रायमजानानस्येति ।। उपोद्घातसङ्गत्या कथनाभिप्रायम् । शङ्काम् उक्तभाष्योक्ताम् । अवतारस्येति ।। यदि भगवता छेदाद्ययोग्यत्वप्रतिपादनाय हेतुरनेनोच्यत इत्यभिप्रायं पूर्वपक्षी जानीयात् तदा वर्तमानेत्यादिशङ्कां न कुर्यात् । कृतवांश्चैताम् । तेन ज्ञायते साधन-साध्यकथनाभिप्रायं न जानातीति ।। अत इमां शङ्कां वर्तमानेत्यादिना अनूद्य ‘इत्यत आह–अच्छेद्योऽयम्’ इत्यवतारितत्वाद् भाष्यकारेणेत्यर्थः ।
ननु भाष्यकारं प्रत्यौत्तराधर्यप्रसङ्ग इति शङ्कानवतारेऽपि भगवन्तं गीताकारं प्रति स्यादेवोक्तशङ्केत्यत आह– स्वाभिप्रायेण त्विति ।। भगवद्गीताकाराभिप्रायेण त्वित्यर्थः ।। अवतार इति ।। अच्छेद्य इति श्लोके आत्मनश्छेदाद्ययोग्यत्वरूपसाध्यं वक्तुं तत्रोपोद्घात-सङ्गत्योपपादकमाह– भगवानच्छेद्य इत्यवतारिका देयेत्यर्थः ।। ननु वर्तमानादर्शनादिति छेदायोग्यत्वे हेतोरुक्तत्वात् कुतोऽयोग्यतेति पुनर्हेतुशङ्का नावकाशमश्नुत इत्यतोऽभिप्रायमाह– वर्तमानेति ।। कदाचिदिति ।। संसारदशायामननुभूयमानस्यापि स्वरूपानन्दस्य मुक्तिदशाया-मनुभवदर्शनादित्यर्थः । ‘नित्यसर्वगतादि’ इति भाष्ये आदिशब्देन स्थाणुरचल इत्यादि-विशेषणग्रहः । नित्यसर्वगतेत्यादिकं जीवेऽसम्भावितमिति कृतचोद्यं परिहर्तुं भाष्यभावमाह– ईश्वरस्येति ।। एवम्भूतस्य नित्यसर्वगतत्वादिविशेषणविशिष्टस्य । छेदादिकं छेदादि-कर्मतार्हत्वम् ।।
अयमाशयः । ‘अच्छेद्योऽयम्’ इत्यादौ कृत्यप्रत्ययोऽर्हेतुकर्मणि । अर्हमात्रार्थत्वे ‘तयोरेव कृत्यर्थखलर्थाः’ इत्यवधारणविरोधः । कर्म च चतुर्विधम् ‘उत्पाद्यं च विकार्यं च प्राप्यं संस्कार्यमेव च’ इति ।। तत्र न तावदीशस्य प्राप्यत्वरूपं कर्मत्वम् । नित्यसर्वगतत्वेन छिदि-क्रियाजन्यप्राप्त्याश्रयत्वरूपप्राप्यकर्मत्वायोगात् । नापि विकार्यत्वरूपं छेदादिकर्मत्वम् । ईश्वरस्य नैमित्तिकान्यथाभावशून्यत्वरूपस्थाणुत्ववत्त्वेन सुवर्णं कुण्डलं करोतीतिवत् क्रियाजन्यविकारा-श्रयत्वाभावात् । नापि संस्कार्यत्वरूपं कर्मत्वम् । अचलत्वात् । सक्रियस्यैव दर्पणादे-स्संस्कार्यत्वदर्शनात् । नाप्युत्पाद्यत्वरूपं कर्मत्वम् । त्रैकालिकत्वरूपसनातनत्वेन घटं करोतीतिवत् प्रागसतः सत्तायोगित्वरूपस्य तस्यायोगात् । न केवलं यावद्विशेषाभावमात्रेण छेदादिकर्मत्वसामान्याभावः । किन्तु तद्ग्राहकप्रमाणाभावादपि । न तावत् प्रत्यक्षमीश्वरस्य छेदादिकर्मत्वे मानम् । अव्यक्तत्वात् ।नाप्यनुमानम् । अतर्क्यत्वरूपाचिन्त्यत्वात् । नाप्यागमः । अविकार्यत्वेन वेदवैदिकग्रन्थैरुच्यमानत्वात् ।। एवं चेश्वरस्य छेदादिकर्मत्वं न सम्भवतीति सिद्धमिति ।।
अत इति ।। तत्प्रतिबिम्बस्यापि तदधीनसारूप्यस्यापि । तेन सर्वगतस्य प्रतिबिम्बासम्भव इति चोद्यमनवकाशम् ।
भावदीपिका
लट इति ।। पूर्वश्लोके ‘नैनं छिन्दन्ति’ इत्यादिलटो वर्तमानार्थकत्वादिति भावः । ‘वर्तमाने लट्’ इति स्मरणादिति ज्ञेयम् । ननूत्तरत्र नाशशङ्का कस्मान्न भवतीत्यत आह– इदानी-मित्यादि ।। इदम् अच्छेद्य इत्यादिकम् । नन्वनेन छेदादियोग्यताभावः कथं सिद्ध इत्यत आह– अर्हे कृत्यतृचश्चेति ।। कृत्यास्तृचश्चार्हार्थे भवन्तीत्यर्थः । कृत्याः प्राङ्ण्वुल इति ण्वुल्तृचा-वित्यतः प्राग् विहितानां कृत्यत्वेन यत्प्रत्ययस्यापि तथात्वे, कृत्यत्वाद् यत्प्रत्ययान्तस्याच्छेद्य इत्यस्य छेदाद्ययोग्यत्वस्य प्रतिपादितत्वान्नैनमिति भावः ।। तर्हि तेनैवेति ।। अच्छेद्य इत्यस्य छेदाद्ययोग्यत्वस्य प्रतिपादितत्वान्नेनमिति श्लोकस्य वैय्यर्थ्यमितित्यर्थः । प्रसक्तौ इत्यत्र शस्त्रा-दिना छेदादेरिति पूरणीयम् ।। औत्तराधर्येति ।। उत्तरशब्दः पश्चात्तनार्थकः । अधरशब्दः पूर्वत-नार्थकः । तथा च उत्तराधरयोः सम्बन्धि औत्तराधर्यम् । एवं छेदाद्ययोग्यत्वरूपसाध्य-प्रतिपादनपरस्य ‘अच्छेद्योऽयम्’ इत्युत्तरश्लोकस्य पूर्वतनत्वं स्यात् । छेदाद्ययोग्यत्वे हेतुकथनेन युक्तत्वं प्रतिपादयितुं ‘नैनम्’ इति पूर्वश्लोकस्य पश्चात्तनत्वं स्यादित्येवमनयोः श्लोकयोः पौर्वापर्यप्रसङ्ग इत्यर्थः ।।
उपोद्घातेति ।। अच्छेद्य इत्यनेन छेदाद्ययोग्यत्वरूपसाध्यं वक्तुं तत्र हेतुत्वेन वर्तमान-निषेधात् स्यादुत्तरत्रेति प्राय इत्यादिशङ्कां न कुर्यात् । कृतवांश्च शङ्काम् । तेन ज्ञायते साधनसाध्यकथनाभिप्रायं भगवतो न जानातीति । तथा च तादृशस्य शङ्कां ‘वर्तमाननिषेधात्’ इत्यदिनाऽनूद्य ‘इत्यत आह’ इति ‘अच्छेद्योऽयम्’ इति श्लोकस्य भाष्यकारेणावतारितत्वा-दित्यर्थः । ननु भाष्यकारैरेव शङ्कामनूद्यावरारितत्वेन तान् प्रति औत्तराधर्यशङ्काया अभावेऽपि भगवतो गीताकारस्यापि अच्छेद्य इति छेदाद्यभावं पश्चात् प्रतिपादयितुः कोऽभिप्राय इत्यत आह– स्वाभिप्रायेण त्विति ।। गीताकाराभिप्रायेणेत्यर्थः । ननु कुतो हेतोः छेदाद्ययोग्यता ज्ञेयेति शङ्का न युक्ता । नैनमित्यनेन वर्तमानछेदाद्यदर्शनस्य हेतुत्वेनोक्तत्वादित्यत आह– वर्तमानेति ।। पश्चादिति ।। तथा च वर्तमानकाले छेदादेरदर्शनेऽपि उत्तरत्र स्यादिति शङ्का स्यादेवेत्यर्थः ।
भावप्रकाशः
ननु उत्तरत्रेतिवत् पूर्वत्रेति कुतो न शङ्केत्यत आह– इदानीमिति ।। औत्तराधर्येति ।। नैनं च्छिन्दतीत्यस्योत्तरत्वमच्छेद्योयमित्यस्य पूर्वत्वं स्यादित्यर्थः । उपोद्घातेति ।। नैनं च्छिन्दती-त्युक्तस्य वर्तमानच्छेदाद्यभावस्याच्छेद्योयमिति वक्ष्यमाणच्छेदाद्ययोग्यत्वं प्रति हेतुत्वाभि-प्रायेणेत्यर्थः । एवं तर्हि वर्तमाननिषेधादित्यादि शङ्कानवकाश इत्यत आह– अभिप्रायम-जानानस्येति ।। शङ्कामिति ।। वर्तमाननिषेधादित्यादिभाष्योक्तामित्यर्थः । स्वाभिप्रायेणेति ।। भगवदभिप्रायेणेत्यर्थः । ननु वर्तमानदर्शनादित्यनेन च्छेदाद्ययोग्यतायां हेतोरुक्तत्वात् कुतोऽ-योग्यतेति शङ्कानवकाश इत्यतोभिप्रायमाह– वर्तमानेति ।। नित्यसर्वगतत्वादीति ।। आदिपदात् स्थाणुरचल इत्यादिनाऽविकार्योयमुच्यत इत्यन्तेनोक्तविशेषणसङ्ग्रहः । च्छेदादिक-मिति ।। च्छेदादिकर्मतार्हत्वमित्यर्थः ।
अयमाशयः । अच्छेद्योयमित्यादिकृत्यप्रत्ययोऽर्हेकर्मणि । अर्हमात्रार्थत्वे तयोरेवेत्यव-धारणविरोधात् ।। कर्म च चतुर्विधम् । उत्पाद्यञ्च विकार्यञ्च प्राप्यं संस्कार्यमेव चेत्युक्तेः । तत्र न तावदीश्वरस्य प्राप्यत्वरूपं च्छेदादिकर्मत्वम् । नित्यत्वेन क्रियाजन्यप्राप्त्याश्रयत्वरूप-प्राप्यत्वायोगात् । नापि विकार्यत्वरूपं च्छेदादिकर्मत्वम् । ईश्वरस्य नैमित्तिकान्यथाभाव-शून्यत्वरूपस्थाणुत्वेन सुवर्णकुण्डलं करोतीतिवत् क्रियाजन्यविकाराश्रयत्वाभावात् । नापि संस्कार्यत्वरूपं तत् । अचलत्वात् । सक्रियस्यैव दर्पणादेः संस्कार्यत्वात् । नाप्युत्पाद्यत्वात्मक-कर्मत्वम् । त्रैकालिकत्वरूपसनातनत्वेन घटं करोतीतिवत् तदयोगात् । न केवलं यावद्विशेषा-भावमात्रेण च्छेदादिकर्मत्वसामान्याभावः । किन्तु तद्ग्राहकप्रमाणाभावाच्च । न तावत् प्रत्यक्षं च्छेद्यत्वादौ मानम् । अव्यक्तत्वात् । नाप्युपमानम् अचिन्त्यत्वात् । नाप्यागमः अविकार्यत्वेन वेदादिभिरुक्तत्वात् । तथा चेश्वरस्य च्छेद्यत्वादिकं न सम्भवतीति सिद्धमिति ।।