अयतिः श्रद्धयोपेतो योगाच्चलितमानसः । अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ।। ३७ ।।

अर्जुन उवाच–

अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।

अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ।। ३७ ।।

भाष्यम्

अयतिः अप्रयत्नः ।। ३७ ।।

भावप्रदीपिका

अयतिः इत्यचतुर्थाश्रमीति शङ्का मा भूदित्याह– अयतिरिति ।।

भावप्रकाशिका

अयतिरप्रयत्नो न त्वसंन्यासीति भावः ।। ३७ ।।

प्रमेयदीपिका

अचतुर्थाश्रमीति प्रतीतिनिरासाय आह– अयतिरिति ।।३७।।

भावरत्नकोशः

न विद्यते यतिः प्रयत्नो यस्य स तथोक्तः, ‘यती प्रयत्ने’ इति धातोरिति भाष्यभावः स्फुटत्वान्नोक्तः ।।

अभ्यासादिहीनस्य दशां पृच्छतीत्युच्यते अर्जुन उवाच– अयतिरिति ।। अयतिः अप्रयत्नः, श्रद्धया ‘अत्रोक्तमस्ति’, ‘अनेन मम प्रयोजनमस्ति’ इत्येवंरूपबुद्ध्या उपेतः योगाच्चलितमानसः योगसंसिद्धिं ध्यानसम्पूर्तिं ध्यानफलं ज्ञानमिति यावत् । अप्राप्य हे कृष्ण कां गतिं गच्छति ।।३७।।