अहमात्मा गुडाकेश सर्वभूताशयस्थितः । अहमादिश्च मध्यं च भूतानामन्त एव च ।। २० ।।

अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।

अहमादिश्च मध्यं च भूतानामन्त एव च ।। २० ।।

भावरत्नकोशः

विभूतिविवक्षया प्रथमम् ‘एतावच्छ्रृणु’ इति स्वरूपस्थिति-रुच्यते– अहमिति ।। गुडाकायाः निद्राया ईशो गुडाकेशः जितनिद्रः, तत्सम्बुद्धिः । कर्तव्येषु जागरूक अहमात्मा आततगुणः सर्वेषां भूतानाम्् आशये अन्तर्हृदये स्थितः नियामकतया । आत्मा व्याप्तोऽपि सर्वप्राणिहृदयगुहाश्रित इति स्वामिनः । किञ्च भूतानामहम् एव आदि मध्यम् अन्तश्च सृष्टिस्थितिप्रलयहेतुः । अनेन प्रत्यक्षतः प्रतीयमानपरिच्छिन्नस्वरूपस्य तव वक्ष्यमाणदिव्यविभूतिशालित्वम् असम्भावितमिति पर्यनुयोगोऽपहस्तितः ।। २० ।।