असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ।। १० ।। मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ।। ११ ।।
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ।। १० ।।
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
विविक्तदेशसेवित्वमरतिर्जनसंसदि ।। ११ ।।
भाष्यम्
सक्तिः स्नेहः । स एवातिपक्वः अभिष्वङ्गः ।‘स्नेहस्सक्तिस्स एवाति-पक्वोऽभिष्वङ्ग उच्यते’ इत्यभिधानम् ।। १०,११ ।।
भावप्रदीपिका
सक्ति अभिष्वङ्गपदयोरर्थभेदं सप्रमाणकमाह– सक्तिरिति
।। १० ।।
प्रमेयदीपिका
सक्त्यभिष्वङ्गशब्दयोरर्थभेदमाह– सक्तिरिति ।। ११ ।।
भावरत्नकोशः
‘षञ्ज सङ्गे’ इति धातोर्भावे क्तिनि, घञि च निष्पन्नयोः शब्दयोरेकार्थत्वात् पुनरुक्तिः इति शङ्कां भाष्यात्परिहरतीत्याह– सक्त्यभिष्वङ्गेति ।। उभयत्र सङ्ग एव धात्वर्थः । स चात्र मनसो विवक्षित इति, स्नेहोऽतिपक्वस्नेहश्च ग्राह्य इति, न पुनरुक्तिरिति भाष्यभावः स्फुटत्वान्नोक्तः ।।
गीताक्षरार्थस्तु– पुत्रदारगृहादिषु असक्तिः स्नेहाभावः अनभिष्वङ्गः अतिपक्वस्नेहोऽभिष्वङ्गः, तदभावः । इष्टानिष्टोपपत्तिषु इष्टानाम् अनिष्टानां चोपपत्तयः सम्प्राप्तयः, तासु नित्यं समचित्तत्वम् । यथाऽनिष्टं हेयं तथा वैषयिकमिष्टमपि हेयमेव इत्युभयत्र तुल्यचित्तम् ।। १० ।।
मयि अनन्ययोगेन अन्याविषयकमनोऽभिनिवेशलक्षणोपायेन, अत एव अव्यभिचारिणी न व्यभिचरणशीला, एकान्तभक्तिश्च । विविक्तदेशसेवित्वं विविक्तः शुद्धः चित्तप्रसादकरो यो देशः अरण्यनदीतीरदेवलयादिरूपः, तं सेवितुं शीलमस्य, तस्य भावस्तत्त्वम् । जनसंसदि प्राकृतजनसमवाये । अरतिः असङ्गः