रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् । वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ।। २३ ।।

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।

वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ।। २३ ।।

भावरत्नकोशः

रुद्राणामिति ।। रुद्राणाम् एकादशानां मध्ये शङ्करः उमापतिरस्मि । सजातीयश्रैष्ठ्यदत्वेन तत्रास्मि । वित्तेशः कुबेरोऽस्मि । वसूनाम् अष्टानां पावकः सजातीयश्रैष्ठ्यदस्तत्रास्मि । शिखरिणां पर्वतानां मेरुः कनकगिरिः पूर्ववत् ।। २३ ।।