योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ।। ३३ ।।

अर्जुन उवाच–

योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।

एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ।। ३३ ।।

भाष्यम्

एतस्य योगस्य स्थिरां स्थितिं न पश्यामि । मनसः चञ्चलत्वात् ।।

भावप्रदीपिका

योगसाम्ययोरुभयोरपि प्रकृतत्वात् ‘एतस्य’ इति किं परामृश्यते ? इत्यत आह– एतस्येति ।। ‘चञ्चलत्वात्’ इत्यत्र कस्य चञ्चलत्वमिति ? अत्राह– मनस इति ।।

भावप्रकाशिका

‘योऽयम्’ इत्यादिश्लोकत्रयार्थं समासतः सप्रमाणकमाह– एतस्येत्यादिना ।।

प्रमेयदीपिका

साम्यस्य योगस्य च प्रकृतत्वात् एतस्य इति कस्य परामर्श इति न ज्ञायते । अतस्तत्प्रदर्शनाय व्यवहितानां पदानामन्वयमाह– एतस्येति ।। योगस्य प्राधान्येन, साम्यस्य तु तृतीययाऽप्राधान्येन प्रकृतत्वादिति भावः । ‘चञ्चलत्वात्’ इत्यस्यान्यो धर्मी न प्रतीयते। अतो योग एव सम्बद्ध्यते । तथाच साध्याविशिष्टतेत्यत आह– मनस इति ।। एतच्चोत्तरवाक्यादवगम्यत इति भावः ।। ३३ ।।

भावदीपः

।। प्रकृतत्वादिति ।। पूर्वार्धेनेति भावः ।। साध्याविशिष्टतेति ।। ‘स्थिरां स्थितिं न पश्यामि’ इत्यस्य ‘चञ्चलतां पश्यामि योगस्य’ इत्यर्थपर्यवसानादिति भावः

।। ३३ ।।

वाक्यार्थप्रदीपः (पां.टि.)– ।। तृतीययाऽप्राधान्येनेति ।। सहयुक्ते अप्रधान इति सहार्थेन युक्तेऽप्रधाने तृतीयाया विधानादिति भावः ।।

भावरत्नकोशः

उभयोः प्रसक्तत्वाद्योेगमात्रग्रहणं कथमित्यतो भाष्यकाराभिमतं हेतुमाह– योगस्य प्राधान्येनेति । प्रकृतत्वात् ‘योऽयं योगस्त्वया प्रोक्तः साम्येन’ इत्यर्थे ‘पुत्रेण सहागतः पिता’ इत्यत्रेव प्रथमया प्राधान्येन तृतीयया अप्राधान्येन च प्रकृतत्वादित्यर्थः । योगस्य धर्मित्वे को दोष इत्यत आह– तथा चेति । ‘चञ्चलत्वात्’ इति तावद्धेतुः । ‘साधनत्वख्यापकविभक्तयन्तं लिङ्गवचनं हेतुः’ इति तल्लक्षणात् । योगश्च धर्मी पक्षः । तथा च ‘योगो न स्थिरस्थितिमान् चञ्चलत्वात्’ इत्यनुमाने साध्यस्येव हेतोरपि सन्देहावस्कन्दि-तत्वाविशेषात् सन्दिग्धासिद्धो हेतुः स्यादिति भावः । यद्वा धर्मी चञ्चलत्वरूपधर्मान्वय-प्रतियोगीत्यर्थः । शिष्टं पूर्ववत् । मनसोऽत्रान्वय इति कुतो विज्ञायत इत्यत आह– एतच्चेति । ‘चञ्चलं हि मनः कृष्ण’ इत्यर्जुनप्रश्नरूपोत्तरवाक्यादित्यर्थः । न च ‘मनसश्चञ्चलत्वाद् योगो न स्थिरः’ इति वैयधिकरण्यमापद्येतेति वाच्यम् । योगो न स्थिरः मनःकरणकत्वात्, मनसश्चञ्चल-त्वात् करणानुसारित्वात्कार्यस्य इत्यत्र तात्पर्यात् ।।

मनसश्चञ्चलत्वेन वायोरिव निग्रहानर्हत्वात् साम्येन योगस्य स्थिरस्थितिरसुसम्पादा इत्यर्जुनेन श्लोकद्वयेन शङ्कितमित्युच्यते– अर्जुन उवाच । यो मामित्यादि । हे मधुसूदन त्वया साम्येन भगवतः सर्वत्रैक्येन, भगवदनुवर्तिषु चात्मौपम्येन, योऽयं योगो भगवति मनःसमाधानरूपो ध्यानयोगः प्रोक्तः एतस्य योगस्य स्थिरां स्थितिं न पश्यामि । कुतः ? मनसः चञ्चलत्वात् ।।३३।।

भावदीपिका

।। प्राधान्येनेति ।। ‘योऽयं योगः’ इति प्रथमया प्राधान्येनेत्यर्थः । प्रकृतत्वादिति ।। ‘पूर्वार्धे’ इति शेषः । साध्याविशिष्टतेति ।। ‘योगो न स्थिरस्थितिविषयः चञ्चलत्वात्’ इति साध्याविशिष्टतेत्यर्थः । ‘चञ्चलत्वात्’ इत्यस्य ‘अस्थिरत्वात्’ इत्यर्थकत्वादिति भावः । मनस इतीति ।। तथा च योगस्य स्थिरस्थित्यभावे मनसश्चञ्चलत्वं हेतुत्वेनाभिप्रेतमिति नोक्तदोष इत्यर्थः । व्यधिकरणत्वस्यास्मन्मेऽदूषणत्वादिति भावः । मनसश्चञ्चलत्वं च हेतुत्वेनाभि-प्रेतमित्यत्र किं ज्ञापकम्? येनैवं व्याख्यायत इत्यत आह– एतच्चेति ।। उत्तरवाक्यादेवेति ।। ‘चञ्चलं हि मनः कृष्ण’ इत्युत्तरगीतावाक्यादेवेत्यर्थः ।। ३३ ।।

भावप्रकाशः

।। साध्याविशिष्टतेति । योगचञ्चलत्व-तदस्थिरत्वयोरभेदादिति भावः । उत्तरवाक्यादिति । ‘चञ्चलं हि मनः’ इति गीतावाक्यादित्यर्थः ।। ३३ ।।