स्पर्शान् कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ।। २७ ।।
स्पर्शान् कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ।। २७ ।।
भावरत्नकोशः
गीताश्लोकार्थस्तु ब्रह्मयोगादिपदेन प्रकृतध्यानप्रकार उच्यते– स्पर्शानिति । स्पृश्यन्त इति स्पर्शाः शब्दाद्या विषयाः । तेषाम् आत्मस्वरूपसुखाभिभावकत्वाद् बाह्यत्वम् । बाह्यान् स्पर्शान् बहिः श्रोत्रादीन्द्रियाविषयान् कृत्वा प्रत्याहारेण श्रोत्रादीन्द्रियाणि नियम्येति यावत् । श्रोत्रादीनामनियमे पट्वभ्यासादरप्रत्ययवशाच्छब्दाद्या आन्तरा इव भवन्ति । तन्नियमे तु बाह्याः बहिष्कृताः स्युरिति तन्नियमो ध्यानाङ्गमिति भावः । भ्रुवोरन्तरे मध्ये एव चक्षुः चाक्षुषमवलोकनं कृत्वा ‘दिशश्चानवलोकयन्’ इति वक्ष्यमाणत्वात् भ्रूममध्यमेवावलोकयन्नित्यर्थः । तेन ‘चक्षुरन्तरे भ्रुवोः कृत्वा’ इति दुर्घटमिति चोद्यं निरस्तम् । ‘सम्प्रेक्ष्य नासिकाग्रं स्वम्’ इति षष्ठे वक्ष्यमाणविरोधस्तु ‘नासाग्रे वा भ्रुवोर्मध्ये ध्यानी चक्षुर्निधायपयेत्’ इति भाष्ये वैकल्पिकत्वेन निरस्तः । तथा प्राणापानौ नासाभ्यन्तरचारिणौ समौ निर्विकारौ निश्चलौ कृत्वा, कुम्भकप्राणायामे स्थापयित्वेति यावत् ।। २७ ।।